प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 129, कुल 274 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः १११ तस्माल्लोकद्वयविरुद्धार्हतमताद्वरं सुगतमतमेव साक्षात्सुखावहमति- रमणीयं पश्यामः । शान्तिः—सखि, अन्यतो गच्छावः । करुणा—एवं भवतु । ( एवं भोदु ) । ( इति परिक्रामतः ) शान्तिः—( पुरो विलोक्य ) एष पुरस्तात्सोमसिद्धान्तः । भवतु । अत्रापि तावदनुसरावः । ( ततः प्रविशति कापालिकरूपधारी सोमसिद्धान्तः ) सोमसिद्धान्तः—( परिक्रम्य ) नरास्थिमालाकृतचारूभूषणः श्मशानवासी नृकपालभोजनः । क्षमते तथैव जीवोऽपि शरीरपरिणामतया दूरस्थवस्तुभिः सहसन्निकर्षमनासादयन्न तेषां ज्ञाने कथमपि शक्तः स्यादिति परमार्थः ॥ ११ ॥ लोकद्वयविरुद्धात्—लोकद्वयम् आगमिकानागमिकरूपसमुदायद्वितयम् । ततो विरुद्धात् । यद्वा लोकद्वयम् इह लोकपरलोकौ जनानां नास्ति तावदिहलोकः पिशाच- रूपताऽऽस्थानात्, न वा परलोकोऽप्यस्ति, सततोऽध्वगमनरूपक्लेशस्य भोक्तृ- व्यत्वात् । सुगतम्-बुद्धमतम् । साक्षात्सुखावहम्-सद्य आनन्दकरम् । सोमसि- द्धान्तः-कापालिकमतम् । नरास्थिमालेति० नराणाम् मनुष्याणाम् अस्थनाम् मालया स्रजा कृतं विहितं भूषणं यस्य तादृशः मनुष्यास्थिमालाभूषितः श्मशानवासी पितृवसति निवासशीलः नृक- पालभोजनः नरमुण्डे भोजनरसिकः ( एवंविधः कापालिकदीक्षितोऽहम् ) योगाञ्जन- दिव्यचक्षुषा समाधिरूपाञ्जनप्रयोगवशलब्धालौकिकशक्तिशालिना नयनेन मिथो- भिन्नम् परस्परविरुद्धम् जगत् सांसारिकं पदार्थजातम् ईश्वरादभिन्नम् अव्यतिरेकि इसलिये इहलोक तथा परलोकसे विरुद्ध आर्हत मतकी अपेक्षा साक्षात्सुखप्रद बौद्ध मत ही अच्छा दीख पड़ता है ॥ शान्ति—सखि, दूसरी ओर चलें । करुणा—अच्छी बात है । ( चलती हैं ) शान्ति—( आगे देखकर ) यह आगे वाला सोमसिद्धान्त है, अच्छा, यहां भी चलें । ( कापालिक रूपधारी सोमसिद्धान्तका प्रवेश ) सोमसिद्धान्त—( चलकर ) नरास्थिमालाका भूषण पहने, नृकपालभक्षी तथा श्मशानवासी मैं योगाञ्जन सिद्ध दृष्टिसे