भारतकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

तृतीयोऽङ्कः १११ तस्माल्लोकद्वयविरुद्धार्हतमताद्वरं सुगतमतमेव साक्षात्सुखावहमति- रमणीयं पश्यामः । शान्तिः—सखि, अन्यतो गच्छावः । करुणा—एवं भवतु । ( एवं भोदु ) । ( इति परिक्रामतः ) शान्तिः—( पुरो विलोक्य ) एष पुरस्तात्सोमसिद्धान्तः । भवतु । अत्रापि तावदनुसरावः । ( ततः प्रविशति कापालिकरूपधारी सोमसिद्धान्तः ) सोमसिद्धान्तः—( परिक्रम्य ) नरास्थिमालाकृतचारूभूषणः श्मशानवासी नृकपालभोजनः । क्षमते तथैव जीवोऽपि शरीरपरिणामतया दूरस्थवस्तुभिः सहसन्निकर्षमनासादयन्न तेषां ज्ञाने कथमपि शक्तः स्यादिति परमार्थः ॥ ११ ॥ लोकद्वयविरुद्धात्—लोकद्वयम् आगमिकानागमिकरूपसमुदायद्वितयम् । ततो विरुद्धात् । यद्वा लोकद्वयम् इह लोकपरलोकौ जनानां नास्ति तावदिहलोकः पिशाच- रूपताऽऽस्थानात्, न वा परलोकोऽप्यस्ति, सततोऽध्वगमनरूपक्लेशस्य भोक्तृ- व्यत्वात् । सुगतम्-बुद्धमतम् । साक्षात्सुखावहम्-सद्य आनन्दकरम् । सोमसि- द्धान्तः-कापालिकमतम् । नरास्थिमालेति० नराणाम् मनुष्याणाम् अस्थनाम् मालया स्रजा कृतं विहितं भूषणं यस्य तादृशः मनुष्यास्थिमालाभूषितः श्मशानवासी पितृवसति निवासशीलः नृक- पालभोजनः नरमुण्डे भोजनरसिकः ( एवंविधः कापालिकदीक्षितोऽहम् ) योगाञ्जन- दिव्यचक्षुषा समाधिरूपाञ्जनप्रयोगवशलब्धालौकिकशक्तिशालिना नयनेन मिथो- भिन्नम् परस्परविरुद्धम् जगत् सांसारिकं पदार्थजातम् ईश्वरादभिन्नम् अव्यतिरेकि इसलिये इहलोक तथा परलोकसे विरुद्ध आर्हत मतकी अपेक्षा साक्षात्सुखप्रद बौद्ध मत ही अच्छा दीख पड़ता है ॥ शान्ति—सखि, दूसरी ओर चलें । करुणा—अच्छी बात है । ( चलती हैं ) शान्ति—( आगे देखकर ) यह आगे वाला सोमसिद्धान्त है, अच्छा, यहां भी चलें । ( कापालिक रूपधारी सोमसिद्धान्तका प्रवेश ) सोमसिद्धान्त—( चलकर ) नरास्थिमालाका भूषण पहने, नृकपालभक्षी तथा श्मशानवासी मैं योगाञ्जन सिद्ध दृष्टिसे

११२ प्रबोधचन्द्रोदयम् पश्यामि योगाञ्जनशुद्धचक्षुषा जगन्मिथो भिन्नमभिन्नमीश्वरात् ॥ १२ ॥ क्षपणकः—क एष कापालिकं व्रतं पुरुषो धारयति । तदेनमपि पृच्छामि । ( उपसृत्य ) अरेरे कापालिक, नरास्थिमुण्डमालाधारक, कीदृ- शस्तव धर्मः कीदृशस्तव मोक्षः ? ( को एसो कावालिअव्वरं पुलिसो धालेदि । ण णं वि पुच्छिस्सम् । अलेले कावालिअ, णलत्थिमुण्डमालाधारिअ, कीदिसो तुम्हे धम्मो, कीदिसो तुम्हे मोक्खो ? ) कापालिकः—अरे क्षपणक, धर्मं तावदस्माकमवधारय । मस्तिष्कान्त्रवसाभिपूरितमहामांसाहुतीर्जुह्वतां वह्रौ ब्रह्मकपालकल्पितसुरापानेन नः पारणा । सद्यः कृत्तकठोरकण्ठविगलत्कीलालधारोज्ज्वलै- रच्र्यो नः पुरुषोपहारबलिभिर्देवो महाभैरवः ॥ १३ ॥ पश्यामि । उच्चावचोऽयं प्रपञ्चः स्वयं परस्परभिद्यमानोऽपि न परमेश्वराद्भिद्यते यथा मुद्रिकाकङ्कणादेरन्योन्यभेदेऽपि सुवर्णादभिन्नता तद्वद् इति पश्यामीति भावः ॥१२॥ कापालिकम्-कपालीशिवस्तद्देवताकम् । अवधारय-जानीहि । मस्तिष्कान्तेति० मस्तिष्कम् कपालान्तर्गतं स्निग्धं द्रव्यम् , अन्त्राणि सिराः, वसा मज्जा, ताभिः अभिपूरितैः आधारितैः महामांसैः नरमांसैः वह्नौ आहुतीर्जुह्वताम् होमं कुर्वताम् नः अस्माकम् ब्रह्मकपाले ब्राह्मणजातिनरमुण्डे कल्पितायाः उपनी- तायाः सुरायाः मदिरायाः पानेन पारणा व्रतसमाप्तिः भवतीति शेषः, नराणां मांसानि तत् कपालगतस्निग्धद्रव्यतदन्त्रतन्मज्जभिराघार्य वह्नौ जुह्वतो वयं ब्राह्मण- जातिनृमुण्डे स्थापयित्वा सुरया पीतया व्रतं समापयाम इत्यर्थः । ( किञ्च ) सद्यः- कृत्तेभ्य तत्क्षणखण्डितेभ्यः कठोरकण्ठेभ्यः सबलजनदृढगलेभ्यः विगलताम् क्षरताम् जगत्को ईश्वरसे भिन्न तथा अभिन्न देखता हू ॥ १२ ॥ क्षपणक—यह कौन पुरुष कापालिक व्रत धारण किये हुए है ? इससे भी पूछूं । ( समीप जाकर ) अरे कापालिक, नरास्थिमुण्डमालाधारी, कैसा तुम्हारा धर्म तथा कैसा तुम्हारा मोक्ष है ? कापालिक—अरे क्षपणक, हमारा धर्म सुनले— मस्तिष्क, आंत, मज्जा, आदिसे युक्त नरमांसकी वह्निमें आहुति कर ब्रह्मकपालस्थित सुरापानसे पारणा होती है । सद्यः खण्डित कण्ठसे निकलते हुए शोणितकी धार वाली नरबलिसे हम महाभैरवकी आर्चा करते है ॥ १३ ॥

तृतीयोऽङ्कः ११३ भिक्षुः—( कर्णौ पिधाय ) बुद्ध बुद्ध, अहो दारुणा धर्मचर्या । क्षपणकः—अर्हन् अर्हन् , अहो घोरपापकारिणा केनापि विप्रलब्धो वराकः । (अलिहन्त अलिहन्त, अहो घोलपावकारिणा केणावि विप्पलद्धो वलाओ) कापालिकः—( सक्रोधम् ) आः पाप पाखण्डापसद, मुण्डितमुण्ड- चूडाकेश, केशलुञ्चक, अरे, विप्रलम्भकः किल चतुर्दशभुवनोत्पत्तिस्थि- तिप्रलयप्रवर्त्तको वेदान्तप्रसिद्धसिद्धान्तविभवो भगवान्भवानीपतिः। दर्श- यामस्तर्हि धर्मस्यास्य महिमानम् ? कीलालानां रक्तानाम् धाराभिः उज्ज्वलैः प्रकाशितैः पुरुषोपहारबलिभिः नरबलिभिः देवः महाभैरवः कालभैरवः नः अस्माकम् अर्च्यः पूज्यः । महाभैरवस्य पूजायां गल- क्षवद्रक्तनरबलिमुपहारीकुर्म इत्युत्तरार्द्धार्थः। अत्र क्षपणकेन पृष्टस्य कीदृशस्तव धर्मो मोक्षश्च तव कीदृश इति प्रश्नद्वयस्य क्रमशॊ दत्तमुत्तरमिति बोध्यम्। तत्राद्य पाद- द्वयेन प्रथमः प्रश्नः समाहितः, सद्यःकृतेत्यादिना च भैरवोपासनावशात्पाप्तकैलास- वास एव मोक्ष इति च प्रतिपादितं द्वितीयप्रश्नस्योत्तरमिति विवेकः। शार्दूलविक्री- डित वृत्तम् ॥ १३ ॥ बुद्ध बुद्धेति स्वेष्टदेवस्मरणं घृणातिशयव्यञ्जनाय, आस्तिकानां बीभत्सदृश्यदर्शने यथा राम रामेति प्रयोगः, दारुणा-कठोरा, नरबलिदानेन दारुणत्वम् । अर्हन्नर्हन्नित्यपि पूर्ववदेव घृणान्वक्तये । घोरपापकारिणा-अतिपापाचारिणा । विप्रलब्धः-वञ्चितः । वराकः-दयनीयोऽम् । पाखण्डापसद्-नीचपाखण्ड । मुण्डितमुण्डचूडाकेश-कर्त्तितसशिखकचराशे, इदं बौद्धमुद्दिश्य संबोधनम् । केशलुञ्चक-लुञ्चितकच, इदं जैनसंबोधनम् । अरे इति क्रोधे संबोधनम् । चतुर्दशभुवनोत्पत्तिस्थितिप्रलयप्रवर्त्तकः-सकलजगतुत्पादनसत्ता- भङ्गप्रयोजकः । वेदान्तप्रसिद्धसिद्धान्तविभवः-उपनिषदभिमतमतः । भगवान्-सर्व- विधसामर्थ्यशाली । भवानीपतिः-शङ्करः । अस्य धर्मस्य-कापालिकाचारस्य । महि- मानम्-प्रभावम् । भिक्षु—बुद्ध, बुद्ध, अरे बडी भयङ्कर धर्मचर्या है । क्षपणक---अर्हन् , अर्हन् , अहा किसी घोर पापीने इस बेचारे को ठग लिया है । कापालिक---( सक्रोध ) आः पापी पाखण्ड, मुण्डितमस्तक, केश लुञ्चक, अरे वञ्चक, चतुर्दश भुवनके उत्पत्तिस्थितिप्रलयके प्रवर्त्तक वेदान्तप्रसिद्धसिद्धान्त भगवान् शिव धूर्त्त हैं ? दिखाएँ हम इस धर्म की महत्ता ? ८ प्र० च०

११४ प्रबोधचन्द्रोदयम् हरिहरसुरज्येष्ठश्रेष्ठान्सुरानहमाहरे वियति वहतां नक्षत्राणां रुणध्मि गतीरपि । सनगनगरीमम्भःपूर्णां विधाय महीमिमां कलय सकलं भूयस्तोयं क्षणेन पिबामि तत् ॥ १४ ॥ क्षपणकः—अरे कापालिक, अत एव भणामि केनापीन्द्रजालिना मायां दर्शयित्वा विप्रलब्धोऽसीति । (अले कावालिअ, अदो जेव्व भणामि केणावि इन्दजालिणा माअं दंसीअ विप्पलद्धोऽसि त्ति) कापालिकः—आः पाप, पुनरपि परमेश्वरमैन्द्रजालिकमित्याक्षिपसि । तन्न मर्षणीयमस्य दौरात्म्यम् । (खड्गमाकृष्य) तदलमस्य । हरिहरेति० अहम् हरिहरौ विष्णुशिवौ सुराः देवा इन्द्रादयः तेषाम् ज्येष्ठान् वयसाऽधिकान् श्रेष्ठान् प्रभावेणाधिकाँश्च सुरान् देवान् आह्वये आकृष्य नयामि ? अपि वा वियति आकाशे वहताम् चलताम् नक्षत्राणाम् ताराणाम् गतीः गमनानि रुणध्मि वारयामि । सनगनगरीम् पर्वतैः पुरैश्चोपेताम् इमाम् महीम् पृथ्वीम् अम्भः- पूर्णाम् विधाय जलप्लावितां कृत्वा = कलय जानीहि—तत् सकलं तोयम् भूयः पुनः क्षणेन पिबामि । देवानां सकलप्रहमाहरणे व्योमचारितारागणतिरोधे जगतो नगनगरगणयुतस्याम्भसा स्थगने तत्पयसः क्षणेन पुनःपाने च प्रभोर्मम प्रभवतः प्रभावं भावयेति भावः । हरिणीवृत्तम्-तल्लक्षणं यथा—'नसमरसला गः षड्वेदैर्हयै- र्हैरिणी मता' इति ॥ १४ ॥ अत एव—तवेदृशप्रभावदर्शनक्षमत्वादेव । इन्द्रजालिना-मायादर्शननिपुणेनै- न्द्रजालिकेन । मायाम्-इन्द्रजालम् । विप्रलब्धः-वञ्चितः । न मर्षणीयम्-न क्षन्त- व्यम् । दौरात्म्यम्-दुष्टता । हरिहर प्रभृति देवश्रेष्ठोंको मैं बुला सकता हूँ, आकाशचारी नक्षत्रोंकी गति रोक दे सकता हूँ । पर्वत तथा गांवों से पूर्ण इस नगरीको जलपूर्ण बनाकर उस सारे पानीको देखो, मैं तुरत पी जाता हूँ ॥ १४ ॥ क्षपणक—अरे कापालिक, इसीसे तो कहता हूँ कि किसी ऐन्द्रजालिकने माया दिखाकर ठग लिया है । कापालिक—पाप, फिर भी तू परमेश्वरको ऐन्द्रजालिक बताकर उनके ऊपर आक्षेप करता है । अब तुम्हारी दुष्टता नहीं सही जाती है । (तलवार खींचकर) अब इसका—

तृतीयोऽङ्कः ११५ एतत्करालकरवालनिकृत्तकण्ठ- नालोच्छलद्बहुलफेनिलबुद्बुदौघैः । सार्धं डमड्डमरुडांकृतिकूतभूत- वर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥ १५ ॥ ( इति खड्गमुद्यच्छति ) क्षपणकः—( सभयम् ) महाभाग, अहिंसा परमो धर्मोऽस्ति । ( महा- भाअ, अहिंसापलमो धम्मो त्थि ) ( भिक्षोरङ्कं प्रविशति ) : भिक्षुः—( कापालिकं वारयन् ) भो भो महाभाग, कौतुकप्रयुक्तवाक्कल- हेनायुक्तमेतस्मिंस्तपस्विनि प्रहर्तुम् । एतदिति०—एतदिति हस्तधृतखड्गनिर्देशः, एतेन मम हस्तस्थितेन करालेन भीषणेन करवालेन खड्गेन निकृत्तम् खण्डितं यत्कण्ठनालम् गलधमनी ततः उच्च- लद्भिः ऊर्ध्वप्रवाहिभिः बहुलैः भूरिभिः फेनिलबुद्बुदौघैः वेगप्रवृत्ततया फेनयुक्त- बुद्बुदसमुदयैः रुधिरैः ( करणभूतैः ) डमड्डमरुडांकृतिभिः शब्दायमानडमरुशब्दैः आहूतः आकारितः यः भूतानाम् प्रेतानाम् वर्गः गणः तेन सार्धम् सह भर्गगृहिणीम् शिवाम् धिनोमि तर्पयामि । अनेन भीषणेन कृपाणेन तव शिरसि मया छिद्यमाने त्वत्कण्ठनालात् प्रवृत्तानि यानि सबुद्बुदफेनिलरुधिराणि तैः डमरुनादाहूतभूतसह- चरीं शिवां तर्पयामीत्यर्थः । वसन्ततिलकं वृत्तम् ॥ १५ ॥ उद्यच्छति-प्रहर्तुमुत्थापयति । अहिंसापरमो धर्मोऽस्ति, तेन मा मां हिंसीरिति निवेदनं फलितम् । भिक्षोः-बौद्धतपस्विनः । कापालिकं वारयन्-खड्गनिपातनादवरुन्धन् । कौतुकप्रयुक्तवाक्कलहेन-कुतूहल- प्रवर्त्तितकथोपकथनेन । एतस्मिन्-जैनसाधौ । प्रहर्तुम्-प्रहारं कर्तुम् । इस तलवारसे कण्ठ काटकर कण्ठनालसे निकलते हुए फेनिल बुलबुलोंके समुदायसे डमरुशब्दाहूत भूतगणके साथ शिवभामिनीको तर्पित करता हूँ ॥ १५ ॥ ( तलवार उठाता है ) क्षपणक—(भयपूर्वक) महाभाग, अहिंसा परम धर्म है । ( भिक्षुकी गोदमें पैठ जाता है ) भिक्षु—( कापालिकको रोकता हुआ ) अजी महाशय, कौतुकप्रयुक्त बातचीतके कारण इस तपस्विजनपर प्रहार करना अनुचित है ।

११६ प्रबोधचन्द्रोदयम् कापालिकः- ( खड्गं प्रतिसंहरति ) क्षपणकः- ( समाश्वस्य ) महाभागो यदि संहृतघोररोषावेशः संवृत्त- स्ततोऽहं किमपि प्रष्टुमिच्छामि । (महाभाओ जदि संहलिदघोललोसावेसो संवृत्तो तदो अहं किंपि पुच्छिदुमिच्छेमि ) कापालिकः-पृच्छ । क्षपणकः-श्रुतो युष्माकं परमो धर्मः । अथ कीदृशः सौख्यमोक्षः । ( सुदो तुम्हाणं परमो धम्मो । अध केदिसो सोक्खमोक्खो ) कापालिकः-शृणु- दृष्टं कापि सुखं विना न विषयैरानन्दबोधोज्झिता जीवस्य स्थितिरैव मुक्तिरुपलावस्था कथं प्रार्थ्यते । प्रतिसंहरति-नियच्छति । संहृतघोररोषावेशः-नियन्त्रितभयानककोपावेगः । सौख्यमोक्षः-आनन्दस्वरूपा मुक्तिः । दृष्टं कापीति० क्वापि कुत्रापि विषयैः स्रक्चन्दनवनितादिभिः विना अन्तरेणं सुखम् आनन्दः न दृष्टम् कारणस्यासत्त्वे कार्याभावस्य स्वाभाविकतयाऽऽनन्दकारण- त्वेनाभिमतानां स्रक्चन्दनादीनामभावे सुखमशक्यसम्भावमिति भावः । ननु मोक्षो नानन्दरूपः किन्तु दुःखाभावरूप एव मोक्षः समागतो नैयायिकैस्तत्राह- उपलावस्था प्रस्तरभावेनावस्थानं जीवस्य स्थितिरैव ( मोक्षः ) सा कथं प्रार्थ्यते केन प्रकारेण पुमर्थो भवति, चेतनस्याचेतनत्वापत्तिर्हानिरेव न लाभ इति तादृश्या मुक्तेरप्रार्थनीयत्वमिति भावः । उपहसितोऽयं मोक्षो नैषधीये श्रीहर्षेण-'मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गौतमं तमवेक्ष्यैव यथावित्थ तथैव सः' इति । कापालिक- (तलवारको समेटता है ) क्षपणक- ( आश्वस्त होकर ) यदि आप रोषके वेगको रोक चुके हों तो मैं कुछ पूछना चाहता हूँ। कापालिक-पूछो । क्षपणक-आपके परम धर्मके विषयमें तो सुन लिया, सौख्यमोक्ष आपका कैसा है ? कापालिक-सुनो- विषयोंके बिना आनन्द नहीं प्राप्त होता है और शिलाभावरूप मोक्ष जीव क्यों

तृतीयोऽङ्कः ११७ पार्वत्याः प्रतिरूपया दयितया सानन्दमालिङ्गितो मुक्तः क्रीडति चन्द्रचूडवपुरित्यूचे मृडानीपतिः ॥ १६ ॥ भिक्षुः—महाभाग, अश्रद्धेयमेतदर्वीतरागस्य मुक्तिरिति । क्षपणकः—अरे कापालिक, यदि न कुप्यसि तर्हि भणामि । शरीरी सरागी मुक्त इति विरुद्धम् । ( अले कावालित्र, जइ ण कुप्पसि तदो भणामि । सलीलो सलागी मुक्केति विरुद्धम् ) कापालिकः—( स्वगतम् ) अये, अश्रद्धादूषितमनयोरन्तःकरणम् । भव- त्वेवं तावत् । ( प्रकाशम् ) श्रद्धे, इतस्तावत् । ( ततः प्रविशति कापालिकीरूपधारिणी श्रद्धा ) तन्मवेवं कीदृशो मोक्षस्तवभिमत इति चेत्तत्राह—पार्वत्याः हरभार्याया गौर्याः प्रति- रूपया मूर्त्या पार्वतीभावं प्राप्तया दयितया स्वभार्यया सानन्दम् मद्यादिसेवनोत्से- जनया सहर्षम् आलिङ्गितः आश्लिष्टतनुः मुक्तः पाशापगमेन बन्धरहितः चन्द्रचूड- वपुः शिवाभिन्नः साधकः क्रीडति विहरति इति मृडानीपतिः शिव ऊचे उक्तवान् । कौलागमानुसारं साधकः शिवरूपस्तद्भार्या पार्वतीरूपा, तयाऽऽलिङ्गितस्य विधुवन- विहारजन्माऽऽनन्दधुरेव मोक्ष इति शिवोक्तिरिति तात्पर्यम् । शार्दूलविक्रीडितमेव वृत्तम् ॥ १६ ॥ अर्वीतरागस्य रागयुक्तस्य । रागापगमे एव मुक्तिर्जायते, यदि जायातारागः स्थित एव तदा न मुक्तिसम्भव इति । शरीरी सरागी-देहसम्बन्धवान्, रागयुक्तश्च । अश्रद्धाऽऽक्षिप्तम्-अविश्वासोपहतम् । एतेऽविश्वासोपहता अत एव चेमे मोक्ष- तत्त्वबोद्धुमशक्ता इति भावः । भवत्वेवं तावत्-यथाऽमीषां श्रद्धा स्यात्तथा यत्नः क्रियतामित्यर्थः । चाहेगा ? अतः पार्वतीके प्रतिरूपमे अवस्थित अपनी प्रियतमासे आलिङ्गित होकर शिव- स्वरूप जीव मुक्त हो क्रीडा करता है यह शिवने कहा है ॥ १६ ॥ भिक्षु—इस बात पर श्रद्धा नही हो रही है कि विना विरागके ही मुक्ति होती है । क्षपणक—अरे कपालिक, यदि क्रोध न करो तो पूछता हू कि शरीरी और रागवान् मुक्त होता है यह विरुद्ध है । कापालिक—( स्वगत ) अरे, इन दोनोंका हृदय अश्रद्धासे भरा है । अच्छा रहे । प्रकाश ) श्रद्धे, इधर तो आओ । ( कापालिकीरूपमे श्रद्धाका प्रवेश )

११६ प्रबोधचन्द्रोदयम् करुणा—सखि, पश्य पश्य रजसः सुता श्रद्धा । या एषा— विस्पष्टनीलोत्पललोललोचना नरास्थिमालाकृतचारुभूषणा । नितम्बपीनस्तनभारमन्थरा विभाति पूर्णेन्दुमुखी विलासिनी ॥ १७ ॥ ( सहि, पेक्ख पेक्ख रजससुदा सद्धा । जा एसा— विप्पुट्ठणीलुप्पललोललोअणा नरत्थिमालाकिदचालुभूषणा । णिअम्बपीणत्थणभारमन्थला विहादि पुण्णोन्दुमुही विलासिणी ॥ १७ ॥ ) श्रद्धा—( परिक्रम्य ) एषास्मि । आज्ञापयतु स्वामी । ( एसम्हि । आण- वेदु सामी ) कापालिकः—प्रिये, एनं दुरभिमानिनं भिक्षुं तावद्गृहाण । ( श्रद्धा भिक्षुमालिङ्गति ) रजसः सुता-राजसी । विस्पष्टेति० विस्पष्टे विकसिते ये नीलोत्पले नीलकमले ते इव लोले चपले लोचने यस्याः सा तादृशी विकसितारविन्दस्पर्द्धिचलनयना नरास्थिमालाकृतचारुभूषणा नरास्थिमालाऽलङ्कृता नितम्बयोः श्रोण्योः पीनस्तनयोः स्थूलकुचयोश्च भारेण मन्थरा मन्दगमना पूर्णेन्दुमुखी समग्रशशधरवदना विलासिनी वनिता विभाति शोभते । कापालिक्या नयनशोभाऽलङ्कारसज्जामन्दगतयो नितान्तहृदयङ्गमा अत- श्चेयं विलासिनी, तेन च मदन्तराकर्षिकेति ध्वनितम् । क्वचित्पुस्तके 'विस्पष्टे'त्य- स्य स्थाने 'विनिद्रे'ति पाठः । स्पष्टमन्यत् ॥ १७ ॥ दुरभिमानिनम्-मिथ्याभिमानशालिनम् बौद्धसन्न्यासिनम् । गृहाण-आश्रय । करुणा—सखि, देखो, यह राजसी श्रद्धा है, जो यह— विकसित नीलकमल सदृश आँखों वाली तथा नरास्थिमालाभूषिता, नितम्ब तथा पीनस्तनके भारसे मन्दगामिनी पूर्ण चन्द्रानना विलासिनी दीख रही है ॥ १७ ॥ श्रद्धा—( चलकर ) यहीं तो हूँ, आप आज्ञा दे । कापालिका—प्रिये, इस दुरभिमानी भिक्षुको आलिङ्गित करो । ( श्रद्धा भिक्षुको आलिङ्गन पाशमें बांधती है )

तृतीयोऽङ्कः ११६ भिक्षुः—(सानन्दं परिष्वज्य रोमाञ्चमभिनीय जनान्तिकं ) अहो, सुखस्पर्शा कापालिकी । तथाहि— रण्डाः पीनपयोधराः कति मया चण्डानुरागाद्भुज- द्वन्द्वापीडितपीवरस्तनभरं नो गाढमालिङ्गिताः । बुद्धेभ्यः शतशः शपे यदि पुनः कुत्रापि कापालिकी पीनोत्तुङ्गकुचावगूहनभवः प्राप्तः प्रमोदोदयः ॥ १८ ॥ श्रद्धया गृहीते भिक्षौ तस्य हृदये कापालिकोक्तिषु विश्वासः समुत्पत्स्यते, ततश्च तस्याप्याचारः परिवर्त्तनं यास्यति, तदर्थमेव श्रद्धायै भिक्षोरालिङ्गनायाज्ञाप्रदानम् , सा चेयं राजसी श्रद्धा, सात्त्विकी श्रद्धा स्वेषां पार्श्वे नैवोपसर्पतीति बोध्यम् । सुखस्पर्शा-आनन्दप्रदालिङ्गना । रण्डा इति० मया भिक्षुणा चण्डानुरागात् उत्कटकामावेशवशात् पीनपयोधराः मांसलकुचाः कति रण्डाः चिरमृतपतिकाः स्त्रियः भुजद्वन्द्वेन बाहुभ्याम् आपीडितः यावद्वलं मर्दितः पीवरयोः स्थूलयोः स्तनयोर्भरः भारः यस्यां क्रियायां तत्तथा गाढम् सर्वांशेनालम्ब्य नो आलिङ्गिताः। अनेकशो मयोत्कटभावेनोद्रिक्तकामविक्रियेण बह्वो रण्डाः पीनपयोधरनिर्दयोपमर्दनपूर्वकं यथाविध्याश्लिष्टा इत्यर्थः । बुद्धेभ्यः स्वपरम- गुरुभ्यः शतशः शपे शपथं करोमि, यदि पुनः कुत्रापि कस्मिंश्चिदपि रण्डागालिङ्गने कापालिक्या अस्याः कापालिकदास्याः पीनयोः स्थूलयोः उत्तुङ्गयोः अपतितयोः कुचयोः अवगूहनम् आश्लेषः तद्भवः तदुदितः प्रमोदोदयः आनन्दोद्गमः प्राप्तः प्रत्यक्षीकृतः । बह्वो रण्डा मयाऽऽश्लिष्टाः परमस्याः कापालिक्या आलिङ्गने यः प्रचु- रानन्दः स नान्यत्र कुत्रापि दृष्ट इति बुद्धाय शपमानोऽहं ब्रुवे तन्नात्र मिथ्यात्वमा- शङ्कनीयमित्यर्थः । अत्र स्त्रीसामान्यं विहाय रण्डापदोपादानेन तासां चिरानुपयुक्तत्वं तेन तदङ्गानां सुरते समधिकानन्ददायित्वम्, चण्डानुरागादिति पुंस उद्रिक्तभावेन रतिप्रवृत्तौ रतेः सुखमयत्वम्, गाढमिति सर्वाङ्गसङ्गजन्मा चैत्यात्युत्कृतं प्रकृष्टत्वम्, बुद्धेभ्यः शपे इत्यस्यार्थस्य नितान्तविश्वास्यत्वानुरोधः, कुत्रापीति सर्वरण्डाति- शायिसुरतवत्स्याऽस्या वास्तविकं प्रशस्तसुरतत्वमित्याद्यर्था व्यज्यन्तेऽत्र । शार्दूल- विक्रीडितं वृत्तम् ॥ १८ ॥ भिक्षु—( सानन्द आलिङ्गन करके रोमाञ्चित हो प्रकट हो कर ) अहा, कापालिकीका स्पर्श कितना सुखप्रद है ! क्योंकि— प्रचण्ड अनुरागवश दोनों हाथोंसे दोनों पीनस्तनोंको मसलकर कितनी पीनस्तनी रांडोंको गले लगाया है,—सौ बुद्धोंकी शपथ खाता हूं—कहीं भी इस कापालिकीके पीन तथा उन्नत कुचोंके आलिङ्गनके समान आनन्द नहीं मिला ॥ १८ ॥

१२० प्रबोधचन्द्रोदयम् अहो पुण्यं कापालिकचरितमहो श्लाघ्यः सोमसिद्धान्तः । आश्चर्योऽयं धर्मः । भो महाभाग, सर्वथा बुद्धानुशासनमस्माभिरुत्सृष्टम् । प्रविष्टाः स्मः पारमेश्वरं सिद्धान्तम् । तदाचार्यस्त्वं शिष्योऽहम् । प्रवेशय मां पार- मेश्वरीं दीक्षाम् । क्षपणकः—अरे भिक्षो, कापालिकीस्पर्शदूषितस्त्वम् । तद्दूरमपसर । ( अले भिक्खुअ, कावालिणीपलसदूसिदं तुमम् । ता दूलं अपसल ) भिक्षुः—आः पाप, वञ्चितोऽसि रे कापालिक्या परिरम्भमहोत्सवेन । कापालिकः—प्रिये, क्षपणकं गृहाण । ( कापालिकी क्षपणकमालिङ्गति ) क्षपणकः—( सरोमाञ्चम् ) अहो अर्हन् ! अहो अर्हन् ! कापालिक्याः स्पर्शसुखम् । सुन्दरि, देहि देहि पुनरप्यङ्कपालीम् । ( स्वगतम् ) अरे, महान् खल्विन्द्रियविकार उपस्थितः । तद्येस्ति कोऽप्युपायः । किमत्र युक्तम् । भवतु पिच्छिकया छादयिष्यामि । पुण्यम्-पवित्रम्, श्लाघ्यः-प्रशंसनीयः, सच एवासाधारणानन्दप्रदतया श्ला- घ्यत्वं बोध्यम् । उत्सृष्टम्-त्यक्तम् । पारमेश्वरम्-शैवागमोक्तम् कापालिकसिद्धा- न्तम् । दीक्षाम्-उपासनाप्रक्रियार्हतासम्पादनाय गुरुमन्त्रोपदेशम् । कापालिकीस्पर्शदूषितः-कापालिक्या सह गात्रसम्पर्केण पतितः । अपसर-गच्छ, मा मां स्प्रान्क्षीरित्यर्थः । परिरम्भमहोत्सवेन-आलिङ्गनजनितेन प्रमोदेन । अङ्कपालीम्-उरावुपवेश्यालिङ्गनम् । इन्द्रियविकारः—ध्वजोत्थानादिरूपः । अहा ! धन्य है कापालिकचरित, प्रशंसनीय है सोमसिद्धान्त । महाशय, मैने सर्वथा बौद्धमत छोड़ दिया । पारमेश्वर मतको मानता हूँ । तुम आचार्य हुए, मै शिष्य रहा । मुझे परमेश्वर मतकी दीक्षा दो । क्षपणक—अरे भिक्षु, तू कापालिकी स्पर्शसे दूषित हो चुका है, दूर हट । भिक्षु—आः पाप, तू अभागा है कि कापालिकीके आलिङ्गनसे वञ्चित है। कापालिक—प्रिये, क्षपणकसे लिपट जा । ( कापालिकी क्षपणकसे लिपटती है ) क्षपणक —( रोमा ञ्चपूर्वक ) अहो अर्हन्, अहो अर्हन् , कापालिकीके स्पर्शमे कितना सुख हे । सुन्दरि, दो दो फिरसे आलिङ्गन । ( स्वगत ) अरे, महान् इन्द्रियविकार उपस्थित है । क्या इसका कोई उपाय है । क्या किया जाय ? अच्छा, पिच्छिकासे आच्छादित कर लेता हू ।

तृतीयोऽङ्कः १२१

अयि पीनघनस्तनशोभने परित्रस्तकुरङ्गविलोचने । यदि रमसे कापालिकीभावैः श्रावकाः किं करिष्यन्तोति ॥ १६ ॥ अहो कापालिकदर्शनमेवैकं सौख्यमोक्षसाधनम् । भो कापालिक, अहं तव सांप्रतं दासः संवृत्तः। मामपि महाभैरवानुशासने दीक्षय । ( अहो अरिहन्त, अहो अरिहन्त, कापालिनीए पलससुहं । सुन्दलि, देहि देहि पुणोवि अङ्कपालीम् । अरे, महन्तो क्खु इन्द्रियविच्चालो उवत्थिदो । ता अत्थि कोवि उवाओ । किं एत्थ जुत्तम् । भोदु । पिच्छिआए ढंकिस्सम् । अयि पीणघणत्थणसोहणि पलितत्थकुलङ्गविलोअणि । जइ लमसि कावालिणीभावेहि सावका किं कलिस्र्दि ॥ अहो कावालिअदंसणं जेव्व इदकं रौक्खमोक्खसाहणम् । भो कावालिअ, हग्गे तुहके सम्पंदं दासो संवृत्तो । मंपि महाभैरवाणुसासणे दिक्खय ) कापालिकः—उपविश्यताम् ।

पिच्छिकया-मयूरपुच्छकृतया मार्गमार्जनसाधनतया जैनैरुपयुक्तया 'पिच्छिका' इति प्रसिद्धया । छादयामि-पुंव्यञ्जनमिति शेषः । अयीति० अयि पीनघनस्तनशोभने पीनौ स्थूलौ घनौ परस्परमिलितौ यौ स्तनौ ताभ्यां शोभने हृद्ये, परित्रस्तकुरङ्गविलोचने भीतहरिणनयने, यदि (त्वम्) कापा- लिकीभावैः शृङ्गारचेष्टाभिः रमसे मया सह विहरसि, श्रावकाः जैनमतावलम्बिनो गृहस्थाः किङ्करिष्यन्ति न किमपीत्यर्थः । कुत्रापि यान्तु श्रावकाः, यत्तेभ्यो रोचेत कुर्वन्तु तत्ते, दत्तो मया जलाञ्जलिस्तेभ्यो यदि त्वं मया सह शृङ्गारचेष्टाभी रमसे तदेत्यर्थः ॥ १९ ॥ सौख्यमोक्षसाधनम्—सौख्यमिश्रितस्यापवर्गस्य । रतेरेव मोक्षतया सौख्ययुत एषां मोक्ष इत्याशयः । महाभैरवानुशासने-शैवागमे । दीक्षय-दीक्षितं कुरु, मन्त्र- प्रदानेन प्रवेशयेत्यर्थः ।

ओ पीन और स्थूल कुचवाली, भयभीतहरिणलोचने कापालिकी, यदि तुम इसी तरह मुझे आलिङ्गन देती रही तो मुझे श्रावकोसे क्या लेना देना है ॥ १९ ॥ कापालिकका साक्षात्कार ही सोख्य तथा मोक्षका साधन है । अजी कापालिक, मैं अबसे तुम्हारा दास हू । मुझे भी महाभैरवानुशासनमे दीक्षित कर लो । कापालिक—बैठो । (दोनो बैठते हैं )

१२२ प्रबोधचन्द्रोदयम् ( उभौ तथा कुरुतः ) ( कापालिको भाजनं समादाय ध्यानं नाटयति ) श्रद्धा—भगवन्, सुरया पूरितं भाजनम् । (भअव्वं, सुलाए पूलितं भाअणम्) कापालिकः—( पीत्वा शेषं भिक्षुक्षपणकयोरर्पयति ) इदं पवित्रममृतं पीयतां भवभेषजम् । पशुपाशसमुच्छेदकारणं भैरवोदितम् ॥ २० ॥ ( उभौ विमृशतः ) क्षपणकः—अस्माकमार्हतानुशासने सुरापानं नास्ति । (अम्हाणं अलि- हन्ताणुसासणे सुरापाणं णत्थि ) भिक्षुः—कथं कापालिकोच्छिष्टां सुरां पास्यामि ? तथा कुरुतः—उपविशत इत्यर्थः । भाजनम्-पानपात्रम् । सुरया-मद्येन । पूरितम्-भृतम् । ध्यानमात्रया सुरया स्वयमागत्य पूरितं तव पात्रमित्यर्थः । इदमिति० पवित्रम् स्वभावपूतम् अमृतम् सुधोपमम् ( सर्वविधसन्तापहरत्वेन सुधासाम्यम् ) भवभेषजम् संसारस्यागमनादिप्रवाहस्य जन्मजरामरणादिरूपक्लेश- परम्पराया इत्यर्थः, भेषजम् औषधरूपं निवर्त्तकम्, भैरवोदितम् सर्वज्ञमहाभैरवोप- दिष्टम् पशुपाशसमुच्छेदकारणम् पशुर्बद्धो जीवस्तस्य पाशो बन्धस्तस्य समुच्छेदे आत्यन्तिकविनाशे कारणम् इदम् सुरारूपम् पीयताम् आस्वाद्यताम् । इयमामन्त्र- णोक्तिः सुरापायिनां पानभाजनग्रहणानन्तरं कर्तव्यतया प्रथते ॥ २० ॥ आर्हतानुशासने-जैनागमे । कापालिकोच्छिष्टाम्-कापालिकपीतावशेषाम् । ( कापालिक पानपात्र लेकर ध्यानका अभिनय करता है ) श्रद्धा—भगवन्, प्यालेमे शराब भर दी गई । कापालिक—( पीकर शेष भिक्षु और क्षपणकको देता है ) यह पवित्र अमृत तथा भवभेषज पीलो, जिसे भैरवने पशुपाशसमुच्छेदका कारण कहा है ॥ २० ॥ ( दोनों सोचने लगते है ) क्षपणक—हमारे जैन मतमें सुरापान नहीं है । भिक्षु—कापालिककी उच्छिष्ट सुरा कैसे पिऊंगा ?

तृतीयोऽङ्कः १२३ कापालिकः- (विमृश्य जनान्तिकम्) किं विमृशसि श्रद्धे, पशुत्व- मनयोर्नाद्याप्यपनीयते । तेनास्मद्रदनसंसर्गदोषादपवित्रां सुरामेतौ मन्येते । तद्भवती स्ववक्त्रासवपूतां कृत्वाऽनयोरुपनयतु । यतस्तैर्थिका अपि वदन्ति 'स्त्रीमुखं तु सदा शुचि' इति । श्रद्धा—यदगवानाज्ञापयति । (जं भअवं आणवेदि) (पानपात्रं गृहीत्वा पीतशेषमुपनयति) भिक्षुः—महाप्रसादः (इति चषकं गृहीत्वा पिबति) अहो सुरायाः सौन्दर्यम् । निपीता वेश्याभिः सह न कतिवारान्सुवदना- मुखोच्छिष्टास्माभिर्विकचवकुलामोदमधुरा । कपालिन्या वक्त्रासवसुरभिसेतां तु मदिरा- विमृशसि-विचारयसि । अद्यापि-भवत्या कृतालिङ्गनतया कृतार्थने जातेऽपि पशुत्वम्-मूर्खत्वम् अज्ञानम् । अपनीयते-दूरीक्रियते । अस्मद्रदनसंसर्गदोषात्-मदु- च्छिष्टताकलङ्कात् । एतौ भिक्षुक्षपणकौ । स्ववक्त्रासवपूताम्-स्ववक्त्रे कापालिकी- मुखे य आसवः मद्यम् तेन पूतां पवित्राम् । उपनयतु-ददातु । स्ववदने निधाय पावयित्वोपहरत्वित्यर्थः । तैर्थिकाः-स्मार्त्ताः । महाप्रसादः-सुमहाननुग्रहः । सौन्दर्यम् अत्र स्वादप्रकर्षपर्यवसायि । निपीता इति० अस्माभिः बौद्धभिक्षुतां बिभ्रद्भिः वेश्याभिः वाराङ्गनाभिः सह कति वारान् अनेकधा सुवदना मुखोच्छिष्टा सुन्दरी पीतशेषा विकचवकुलामोदमधुरा विकसितबकुलकुसुमामोदिनी सुरा न पीता आस्वादिता, बहुधा सुरा पीतेति काक्का ध्वनितम् । कपालिन्याः कापालिक्या अस्याः वक्त्रासवसुरभिम् सुखमदिरासुगन्ध- कापालिक—(सोचकर, प्रकाशरूपमे) क्या सोचती हो ? श्रद्धे, आज भी इनका पशुत्व दूर नहीं हुआ है । इसीलिये ये हमारी उच्छिष्ट सुराको अपवित्र मानते हैं । इसलिये तुम इसे अपने मुंह लगाकर पवित्र कर दो और इन्हें पिलाओ । क्योंकि शास्त्रकारोंके कथनानुसार स्त्रीमुख सदा पूत है । श्रद्धा—आपकी जो आज्ञा । (पानपात्र लेकर जूठा करके देती है) भिक्षु—महाप्रसाद है । (प्याला लेकर पीता है) अहा कितनी अच्छी मदिरा है । वेश्याओके साथ स्त्रीमुखोच्छिष्ट बकुलसुगन्धित मदिरा कई बार पी थी, किन्तु कापालिकीके मुखारविन्दसे सुगन्धित इस सुराको नही पानेके कारण हीं देवोने अमृतकी

१२४ प्रबोधचन्द्रोदयम् मलब्ध्वा जानीमः स्पृहयति सुधायै सुरगणः ॥ २१ ॥ क्षपणकः—अरे भिक्षो, मा सर्वं पिब। कापालिकीवदनोच्छिष्टां मदिरां मदर्थमपि धारय । (अले भिक्खुअ, मा सव्वं पिय। कावालिणीवअणोच्छिट्ठं मइरं मदत्थंचि धालेसु ) ( भिक्षुः क्षपणकाय चषकमपनयति ) क्षपणकः—( पीत्वा ) अहो सुराया मधुरत्वम्, अहो स्वादः, अहो सुरभित्वम् । चिरं खलु अर्हदनुशासने निपतितः प्रतिवञ्चितोऽस्मीदृशेन सुरारसेन । अरे भिक्षो, घूर्णन्ति ममाङ्गानि । तर्हि स्वप्स्यामि । (अहो, सुराए महुलत्तणम्, अहा सादो, अहो गन्धो, अहो सुलहित्तणम् । चिरं खु अलि- हन्ताणुसासणे णिवडिदे पडिवञ्चिदोम्हि ईदिसेण सुलालसेण । अले भिक्खुअ, घोल्यन्ति मं अङ्गाइं । ता सुविस्सम् ) भिक्षुः—एवं कुर्वः । ( तथा कुरुतः ) युताम् तु एताम् मदिराम् अलब्ध्वा सुरगणः देववर्गः सुधायै अमृताय स्पृहयतीति जानीमः। एतत्कपालिनीवदनार्पितामनुपमेयरसां मदिरां यदि मे देवावास्वाद्ययन्नत वृथामीषाममृतस्पृहा, यदीमं तां मदिरामास्वादितवन्तोऽभविष्यन् कदापि ततो न्यूनतमरसोत्सुते बद्धादरा नाभविव्यञ्जिति भावः । शिखरिणी वृत्तम्, तल्लक्षणं यथा— 'रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणी' इति ॥ २१ ॥ सर्वम्-निरवशेषम् । कपालिनीवदनोच्छिष्टाम्-एतत्कपालिकीपीतशेषाम् । मदि- राम्-सुराम् । धारय-शेषयित्वा रक्ष । मधुरत्वम्-स्वादयुक्तत्वम् । सुरभित्वम्-सुगन्धः । अर्हदनुशासने-जैनमते । प्रति- वञ्चितः-विमुखीकृतः । सुरारसेन-मदिरास्वादेन । घूर्णन्ति-भ्राम्यन्ति । स्पृहा की होगी यह मैं मानता हूँ ॥ २१ ॥ क्षपणक—अरे क्षपणक, सब मत पी जा। कापालिकी पीतशेष सुरा मेरे लिये भी रहने दो। ( भिक्षु क्षपणकको प्याला देता है ) क्षपणक—(पीकर) अहा सुरा कितनी मीठी है। क्या स्वाद है, क्या गन्ध है, क्या सौरभ है। जैनमतमें पड़कर बहुत दिनों तक इस सुरारस से वञ्चित रहा। अरे भिक्षु, हमारे अङ्ग घूम रहे हैं, सोऊंगा । भिक्षु—ऐसा ही करेंगे। (दोनों सोते हैं )

कापालिकः— प्रिये, अमूल्यक्रीतं दासद्वयं लब्धम् । तन्नृत्यावस्तावत् । ( उभौ नृत्यतः ) **क्षपणकः—**अरे भिक्षुक, एष कापालिकोऽथवाचार्यः कापालिक्या सार्धं शोभनं नृत्यति । तस्मादेताभ्यां सार्धमावामपि नृत्यावः । ( अहो भिक्खुअ, एसो कावालिओ अहवा आवालिओ कानालिनीए सद्धं सोहणं णच्चेदि । ता एदाए सद्धं अम्हेवि णच्चावः ) **भिक्षुः—**आचार्य, महाश्चर्यमेतद्दर्शनम् । यत्राक्लेशमभिमतार्थसिद्धयः संपद्यन्ते । ( मदस्खलितं नृत्यतः ) क्षपणकः— ( अयि 'पीनस्तनि' इत्यादि पूर्वमेवोक्त्वा ) **कापालिकः—**कियदेतदाश्चर्यं पश्यसि । अत्रानुज्झितचक्षुरादिविषयासङ्गेऽपि सिध्यन्त्यमूर्- रत्यासन्नमहोदयाः प्रणयिनावष्टौ महासिद्धयः । **आवाम्-**भिक्षुक्षपणकौ । **महदाश्चर्यम्-**अत्याश्चर्यकरम् । **अक्लेशम्-**विनैव कायखेदम् । अभिमतार्थसि- **द्धयः-**ईप्सितपदार्थसिद्धयः । **कियदेतत्-**अत्यल्पमिदम् । अत्रानुज्झितेति० अत्र कापालिकमते प्रणयिना समासक्तेन साधकेन अनुज्झित- चक्षुरादिविषयासङ्गेऽपि रूपादि争प्साऽपरित्यागेऽपि अमूः तास्ताः अष्टौ महासिद्धयः अणिमाद्याः अत्यासन्नमहोदयाः समीपतरवर्तिमहाफलाः सत्यः सिद्ध्यन्ति सिद्धा जा- **कापालिक—**बिना दामके दो दास मिल गये हैं, चलो, हम दोनों नाचे । ( दोनों नाचते हैं ) **क्षपणक—**अरे भिक्षु, यह कापालिक अथवा आचार्य कापालिकीके साथ बडी अच्छी तरह नाच रहा है, इन दोनोंके साथ हम दोनों भी नाचें । **भिक्षु—**आचार्य, यह तो अद्भुतदर्शन है जिसमें बिना कष्टके अभिमत सिद्धि हो जाती है । ( मस्तीमें गिरते पड़ते नाचते हैं ) क्षपणक—( 'अयि पीनस्तनि' इत्यादि पूर्वोक्त कहकर ) **कापालिक—**इतने ही में क्या आश्चर्य देखते हो । इस मतमे विषयके साथ सम्बन्ध कायम रखने पर भी महोदययुत सभी सिद्धियाँ

१२६ प्रबोधचन्द्रोदयम् वश्याकर्षविमोहनप्रशमनप्रक्षोभणोच्चाटन- प्रायाः प्राकृतसिद्धयस्तु विदुषां योगान्तरायाः परम् ॥२२॥ क्षपणकः—अरे कापालिक, (विमृश्य) अथवा आचार्य, आचार्यराज, कुलाचार्य। (अले कापालिअ, अहवा आचालिअ, आचालिअराअ, कुलाचालिअ) भिक्षुः—(विहस्य) अयमनभ्यासातिशयपीतया मदिराया दूरमुन्मनी- कृतस्तपस्वी। तत्क्रियतामस्य मदापनयनम्। यन्ते। वश्यम् वशीकरणम्, आकर्ष-आकर्षणम्, मोहनं भ्रान्त्युत्पादनम्, प्रशम- नम् सकलप्राक्तनज्ञानभ्रंशः, प्रक्षोभणम्-मनसश्चलीकरणम्, उच्चाटनम् स्थानभ्रंशः, तत्प्रायाः तत्प्रभृतयः प्राकृतसिद्धयः साधारणाः सिद्धयस्तु विदुषाम् विवेकिनाम् परम् अत्यर्थम् योगान्तरायाः योगविघ्नभूताः भवन्तीति शेषः। अत्र कापालिकमते सम्यग् वर्त्तमानेन वैषयिकसुखसमुदयापरित्यागेऽपि तास्ता अणिमादयोऽष्टौ सिद्धयः प्राप्यन्ते यासां महान्ति फलानि समीपतरवर्त्तीनि भवन्ति, प्राकृतसिद्धिषु वशी- करणादिषु तु विदुषानास्था तासां योगप्रतिबन्धकत्वादिति भावः। 'अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः' इति सि- द्धिनामानि, तत्र येनैश्वर्येणाणुर्भवति सोऽणिमा, येन महान् भवति स महिमा, येन पर्वतादिवद्गुरुर्भवति स गरिमा, येनातिलघु भवति स लघिमा, येनाङ्गुल्यग्रेण चन्द्रं स्पृशति स प्राकाम्यनामा, येनैश्वर्येण भूतभौतिकादीनां नियन्ता भवति तदीशत्वम्, येन चेन्द्रियाणि वश्यानि भवन्ति तद्वशित्वम् ॥ २२ ॥ आचार्य—गुरो, आचार्यराज-गुरुवर। 'कुलाचार्य' इदं तान्त्रिकाणां स्वाचार्य- सम्बोधनम्। अनभ्यासातिशयपीतया—सातिशयपीतया अनभ्यासपीतया च। दूरम्-अत्य- र्थम्। उन्मनीकृतः-अचेतनतां गमितः। मदापनयनम्-मददूरीक्रिया। आहरणसिद्धिः-आनयनक्षमता। 'स्त्रीषु' इति यथा भवान्मन्त्रोच्चारणमात्रेण सुरामाहृतवान् तथैव किं भवान् स्त्रियः पुरुषांश्चापि समाहर्त्तुं क्षमत इति प्रश्नार्थः। मिलती हैं, वे सिद्धियाँ हैं-वशीकरण, आकर्षण, मोहन, प्रशमन, क्षोभण, उच्चाटन। साधारण सिद्धियाँ तो विद्वानोंके योगमें विघ्न कर ही होती हैं ॥ २२ ॥ क्षपणक—अरे कापालिक, (सोचकर) अथवा आचार्य, आचार्यराज, कुलाचार्य। भिक्षु—(हंसकर) बिना आदतके इसने अधिक मदिरा पी ली है अतः पागल हो रहा है, इसकी नशा दूर कीजिये।

तृतीयोऽङ्कः १२७ कापालिकः-एवं भवतु । ( इति स्वमुखोच्छिष्टं ताम्बूलं क्षपणकाय ददाति ) क्षपणकः-( स्वस्थीभूय ) आचार्य, इदं पृच्छामि । यादृशी युष्माकं सुराया आहरणसिद्धिः किं तादृशी सिद्धिः स्त्रीषु पुरुषेष्वप्यस्ति । ( आचा- लिय्य, एव्वं पुच्छिस्सम् । जादिसी तुम्हाणं सुलाए आहलणसिद्धी किं तादिसी सिद्धी इत्थिआसु पुलिसेसु अवि अत्थि ) कापालिकः-किं विशेषेण पृच्छयते । पश्य- विद्याधरीं वाथ सुराङ्गनां वा नागाङ्गनां चाप्यथ यक्षकन्याम् । यद्यन्ममेष्टं भुवनत्रयेऽपि विद्याबलात्तत्तदुपाहरामि ॥ २३ ॥ क्षपणकः-भो, इदं मया गणितेन ज्ञातम् । यत्सर्वेऽपि वयं महामो- हस्य किङ्करा इति । ( भो, एदं मए गणिदेण ण्णादं । जं सव्वेवि अम्हे महा- मोहस्स किंकले त्ति ) किं विशेषेण पृच्छयते-सामान्यतः सर्वाहरणे क्षमं प्रति विशेषाहरणक्षमत्वपर्यनु- योगो नोचित इति भावः । विद्याधरीमिति० विद्याधरीम्-विद्याधरस्त्रियम्, अथवा सुराङ्गनाम् देवललनाम् , वा नागाङ्गनाम् नागपत्नीम् , अथवा यक्षकन्याम् अकृतविवाहाम् यक्षीम्-भुवन- त्रितये त्रिभुवने यद्यन्मम इष्टम् अभिलषितम् तत्तत् विद्याबलात् आकर्षणप्रयोजक- मन्त्रसिद्धिप्रभावात् उपाहरामि समीपे नयामि, स्पष्टमन्यत् ॥ २३ ॥ सर्वेऽपि वयम्-त्वं कापालिकः, अयं भिक्षुः, अहं क्षपणकश्चेति वयम् । कापालिक-ऐसा करो ( अपना जूठा पान क्षपणकको देता है ) क्षपणक-( स्वस्थ होकर ) आचार्ये, यह पूछता हू, जिस प्रकार आप सुराका आह- रण कर सकते हैं उसी प्रकार क्या स्त्रियों और पुरुषोंका भी आहरण कर सकते हैं । कापालिक-खास खास वस्तुके लिये क्या पूछते हो ? देखो- विद्याधरी, देवाङ्गना, नागाङ्गना अथवा यक्षकन्या कोई हो, संसारमें जिसे चाहूँ अपनी विद्याके बलसे आहृत कर सकता हूं ॥ २३ ॥ क्षपणक-गणितके द्वारा मै यह जानता हूँ कि सभी हम महामोहके किङ्कर हैं ।

१२८ प्रबोधचन्द्रोदयम् उभौ—यथा ज्ञातमायुष्मता। एवमेतत्। क्षपणकः—तर्हि राजकार्यं किमपि मन्त्रितव्यम्। (ता लाअकज्जं किवि मन्तिदव्वम्) कापालिकः—कि तत्। क्षपणकः—सत्त्वस्य सुता श्रद्धा महाराजस्याज्ञयाह्रियतामिति । (सत्तस्स सुदा सद्धा महालाअस्स आणए आहलिअदु त्ति) कापालिकः—कथय क्वासौ दास्याः पुत्री। एष तानचिरमेव विद्या- बलादुपाहरामि। (क्षपणकः खटिकामादाय गणयति) शान्तिः—सखि, अम्बागतमिव हताशानामालापं शृणोमि तदवधा- नेन तावदाकर्णयावः। करुणा—सखि, एवं कुर्मः! (सहि एव्वं करेम्ह) (उभे तथा कुरुतः) क्षपणकः—(गाथां गणयित्वा) यथा ज्ञातम्-सत्यमवगतम्। राजकार्यम्-मोहस्येष्टसिद्धं कर्म। मन्त्रयितव्यम्-चिन्तनीयम्। सत्त्वस्य सुता-सात्त्विकी, श्रद्धेत्यस्य विशेषणम्। आह्रियताम्-आकृष्य समीपं प्राप्यताम्। दास्याः पुत्रीति निन्दायाम्। अम्बागतम्-मन्मातुः श्रद्धासम्बन्धे। हताशानाम्-नीचानाम्। आलापम्- वार्त्ताम्। अवधानेन-सावधानतया। दोनों—जैसा तुमने समझा है, ठीक है। क्षपणक—तो फिर कुछ राजकार्य सोचना चाहिये। कापालिक—वह क्या? क्षपणक—सत्त्वसुता श्रद्धा महाराजकी आज्ञासे आहृत की जाय। कापालिक—बताओ, वह अभागी कहाँ है? मै अभी उसे विद्याबलसे आहृत करता हूँ। (क्षपणक खल्लीसे गणना करता है) शान्ति—सखि, अपनी मांके विषयकी इन अभागोंकी बातें सुन रही हूं, ध्यानसे सुनें। करुणा—सखि, वैसा ही करें (दोनो सुनती हैं) क्षपणक—(गाथा गिनकर).

तृतीयोऽङ्कः १२६ नास्ति जले नास्ति स्थले, नास्ति गिरिगह्वरेषु नास्ति पाताले । सा विष्णुभक्त्या सहिता, वसति हृदये महात्मनाम् ॥ २४ ॥ (णत्थि जले णत्थि थले, णत्थि गिलिगव्व्हलेसु णत्थि पाआले । सा विण्णुभत्तिसहिदा, वसदि हिअए महम्माणम् ॥) करुणा— (सानन्दम्) सखि, दिष्ट्या वर्धसे विष्णुभक्त्या देव्याः पार्श्ववर्तिनी श्रद्धेति । (सहि दिट्ठिआ वड्ढसि विण्णुभत्तिए देवीए पास्सवरि- तणी सद्धेत्ति) (शान्तिः हर्षं नाटयति) भिक्षुः—अथ धर्मस्य कामादपक्रान्तस्य कुत्र प्रवृत्तिः ? क्षपणकः— (पुनर्गणयित्वा) नास्ति जले नास्ति वने, नास्ति गिरिह्वरेषु नास्ति पाताले । विष्णुभक्त्या सहितो, वसति हृदये महात्मनाम् ॥ २५ ॥ (णत्थि जले णत्थि वणे, णत्थि गिलिगव्व्हलेसु णत्थि पाआले । विण्णुभत्तीए सहिदो, वसदि हिअए, महम्माणम् ॥) कापालिकः—(सविषादम्) अहो महत्कष्टमापतितं महाराजस्य । तथाहि— नास्तीति० गिरिगह्वरेषु-पर्वतकन्दरासु । विष्णुभक्तिसहिता-विष्णुभक्तिसहचरी सात्त्विकी श्रद्धा । महात्मनां तपस्विनां भक्तानां हृदये वसतीत्यर्थः ॥ २४ ॥ पार्श्ववर्त्तिनी-समीपस्था । कामादपक्रान्तस्य-निष्कामभावेन कृतस्य । प्रवृत्तिः-उपलब्भः । नास्तीति० पूर्ववत् । महात्मान एव निष्कामधर्मचारिणोऽतो निष्कामो धर्मस्तेषा- मेव हृदये स्थातुमर्हतीति भावः ॥ २५ ॥ महत्कष्टम्-अतिदुःखम् । न जलमे है, न स्थलमें है, न काननकन्दरामें है, न पातालमे है। वह विष्णुभक्तिके साथ महात्माओंके हृदयमें वास करती है ॥ २४ ॥ करुणा--(आनन्दसे) सखि, तुम बड़ी भाग्यवती हो, श्रद्धा विष्णुभक्तिकी पार्श्ववर्त्तिनी है । (शान्ति हर्ष प्रकट करती है) भिक्षु—और धर्मसे अपक्रान्त कामकी क्या खबर है ? क्षपणक—(फिर गिनकर) न स्थलमें है, न जलमें है न काननकन्दरामें है, न पातालमें हैं, विष्णुभक्तिके साथ महात्माओंके हृदयमें है ॥ २५ ॥ कापालिक—(विषादके साथ) महाराजको महान् कष्ट उपस्थित है, क्योंकि— १६ प्र० च०

१३० प्रबोधचन्द्रोदयम् मूलं देवी सिद्धये विष्णुभक्ति- स्तां च श्रद्धानुव्रता सत्त्वकन्या । कामान्मुक्तस्तत्र धर्मोऽप्यभूच्चे- त्सिद्धं मन्ये तद्विवेकस्य कृत्यम् ॥ २६ ॥ तथापि तावदसुव्ययेनापि स्वामिनः प्रयोजनमनुष्ठेयम् । तन्महाभैरवीं विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयामः । ( इति निष्क्रान्ताः सर्वे ) शान्तिः—आवामप्येवं हताशानां व्यवसायं देव्यै विष्णुभक्त्यै निवेदयावः । ( इति निष्क्रान्ते ) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके तृतीयोऽङ्कः ॥ ३ ॥ मूलमिति० सिद्धये बोधोदयरूपकार्यनिष्पत्तये मूलम् आदिकारणम् देवी विष्णु- भक्तिः, ताम् विष्णुभक्तिञ्च सत्त्वकन्या सात्त्विकी श्रद्धा अनुव्रता अनुगता । चेत् यदि कामान्मुक्तः निष्कामः धर्मोऽपि तत्र विष्णुभक्तिश्रद्धयोः स्थाने तत् तदा विवे- कस्य कृत्यम् सिद्धं जातम् मन्ये उत्प्रेक्षे । निष्कामकर्मानुतिष्ठतां सात्त्विकश्रद्धाशा- लिनाम् विष्णुभक्त्याऽन्तःकरणशुद्धिद्वारा विद्योदयो जायत इति तात्पर्यम् ॥ २६ ॥ असुव्ययेन-प्राणपणेन । स्वामिनः-मोहस्य । प्रयोजनम्-सात्त्विकश्रद्धाविष्णु- भक्त्योर्विघटनम् । अनुष्ठेयम्-कर्त्तव्यम् । आहरणाय-आनयनाय, बलादाकृष्यात्रा- नयनायेति भावः । एवम्-ईदृशम् , धर्मश्रद्धयोराहरणप्रवृत्तिरूपम् । व्यवसायम्-प्रवृत्तिम् । इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते प्रबोधचन्द्रोदय'प्रकाशे' तृतीयाङ्क'प्रकाशः' ॥ सिद्धिका मूल है विष्णु भक्ति, उसके साथ सात्त्विकी श्रद्धा है, कामसे मुक्त होकर धर्म भी अगर वहाँ पहुँच जाय तो समझना चाहिये कि विवेकका कार्य सिद्ध हो गया ॥ २६ ॥ तथापि प्राणव्यय करके भी स्वामीका कार्य करना ही है। अतः धर्म और श्रद्धाको आहूत करने के लिये महाभैरवी विद्याको भेजता हूं । ( सबका प्रस्थान ) शान्ति—हम दोनों भी इन अभागोकी गतिविधिका देवी विष्णुभक्तिसे निवेदित करें । ( दोनों जाती हैं ) तृतीय अङ्क समाप्त