प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 142, कुल 274 में से
संदर्भ में पढ़ें१२४ प्रबोधचन्द्रोदयम् मलब्ध्वा जानीमः स्पृहयति सुधायै सुरगणः ॥ २१ ॥ क्षपणकः—अरे भिक्षो, मा सर्वं पिब। कापालिकीवदनोच्छिष्टां मदिरां मदर्थमपि धारय । (अले भिक्खुअ, मा सव्वं पिय। कावालिणीवअणोच्छिट्ठं मइरं मदत्थंचि धालेसु ) ( भिक्षुः क्षपणकाय चषकमपनयति ) क्षपणकः—( पीत्वा ) अहो सुराया मधुरत्वम्, अहो स्वादः, अहो सुरभित्वम् । चिरं खलु अर्हदनुशासने निपतितः प्रतिवञ्चितोऽस्मीदृशेन सुरारसेन । अरे भिक्षो, घूर्णन्ति ममाङ्गानि । तर्हि स्वप्स्यामि । (अहो, सुराए महुलत्तणम्, अहा सादो, अहो गन्धो, अहो सुलहित्तणम् । चिरं खु अलि- हन्ताणुसासणे णिवडिदे पडिवञ्चिदोम्हि ईदिसेण सुलालसेण । अले भिक्खुअ, घोल्यन्ति मं अङ्गाइं । ता सुविस्सम् ) भिक्षुः—एवं कुर्वः । ( तथा कुरुतः ) युताम् तु एताम् मदिराम् अलब्ध्वा सुरगणः देववर्गः सुधायै अमृताय स्पृहयतीति जानीमः। एतत्कपालिनीवदनार्पितामनुपमेयरसां मदिरां यदि मे देवावास्वाद्ययन्नत वृथामीषाममृतस्पृहा, यदीमं तां मदिरामास्वादितवन्तोऽभविष्यन् कदापि ततो न्यूनतमरसोत्सुते बद्धादरा नाभविव्यञ्जिति भावः । शिखरिणी वृत्तम्, तल्लक्षणं यथा— 'रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणी' इति ॥ २१ ॥ सर्वम्-निरवशेषम् । कपालिनीवदनोच्छिष्टाम्-एतत्कपालिकीपीतशेषाम् । मदि- राम्-सुराम् । धारय-शेषयित्वा रक्ष । मधुरत्वम्-स्वादयुक्तत्वम् । सुरभित्वम्-सुगन्धः । अर्हदनुशासने-जैनमते । प्रति- वञ्चितः-विमुखीकृतः । सुरारसेन-मदिरास्वादेन । घूर्णन्ति-भ्राम्यन्ति । स्पृहा की होगी यह मैं मानता हूँ ॥ २१ ॥ क्षपणक—अरे क्षपणक, सब मत पी जा। कापालिकी पीतशेष सुरा मेरे लिये भी रहने दो। ( भिक्षु क्षपणकको प्याला देता है ) क्षपणक—(पीकर) अहा सुरा कितनी मीठी है। क्या स्वाद है, क्या गन्ध है, क्या सौरभ है। जैनमतमें पड़कर बहुत दिनों तक इस सुरारस से वञ्चित रहा। अरे भिक्षु, हमारे अङ्ग घूम रहे हैं, सोऊंगा । भिक्षु—ऐसा ही करेंगे। (दोनों सोते हैं )