प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 145, कुल 274 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः १२७ कापालिकः-एवं भवतु । ( इति स्वमुखोच्छिष्टं ताम्बूलं क्षपणकाय ददाति ) क्षपणकः-( स्वस्थीभूय ) आचार्य, इदं पृच्छामि । यादृशी युष्माकं सुराया आहरणसिद्धिः किं तादृशी सिद्धिः स्त्रीषु पुरुषेष्वप्यस्ति । ( आचा- लिय्य, एव्वं पुच्छिस्सम् । जादिसी तुम्हाणं सुलाए आहलणसिद्धी किं तादिसी सिद्धी इत्थिआसु पुलिसेसु अवि अत्थि ) कापालिकः-किं विशेषेण पृच्छयते । पश्य- विद्याधरीं वाथ सुराङ्गनां वा नागाङ्गनां चाप्यथ यक्षकन्याम् । यद्यन्ममेष्टं भुवनत्रयेऽपि विद्याबलात्तत्तदुपाहरामि ॥ २३ ॥ क्षपणकः-भो, इदं मया गणितेन ज्ञातम् । यत्सर्वेऽपि वयं महामो- हस्य किङ्करा इति । ( भो, एदं मए गणिदेण ण्णादं । जं सव्वेवि अम्हे महा- मोहस्स किंकले त्ति ) किं विशेषेण पृच्छयते-सामान्यतः सर्वाहरणे क्षमं प्रति विशेषाहरणक्षमत्वपर्यनु- योगो नोचित इति भावः । विद्याधरीमिति० विद्याधरीम्-विद्याधरस्त्रियम्, अथवा सुराङ्गनाम् देवललनाम् , वा नागाङ्गनाम् नागपत्नीम् , अथवा यक्षकन्याम् अकृतविवाहाम् यक्षीम्-भुवन- त्रितये त्रिभुवने यद्यन्मम इष्टम् अभिलषितम् तत्तत् विद्याबलात् आकर्षणप्रयोजक- मन्त्रसिद्धिप्रभावात् उपाहरामि समीपे नयामि, स्पष्टमन्यत् ॥ २३ ॥ सर्वेऽपि वयम्-त्वं कापालिकः, अयं भिक्षुः, अहं क्षपणकश्चेति वयम् । कापालिक-ऐसा करो ( अपना जूठा पान क्षपणकको देता है ) क्षपणक-( स्वस्थ होकर ) आचार्ये, यह पूछता हू, जिस प्रकार आप सुराका आह- रण कर सकते हैं उसी प्रकार क्या स्त्रियों और पुरुषोंका भी आहरण कर सकते हैं । कापालिक-खास खास वस्तुके लिये क्या पूछते हो ? देखो- विद्याधरी, देवाङ्गना, नागाङ्गना अथवा यक्षकन्या कोई हो, संसारमें जिसे चाहूँ अपनी विद्याके बलसे आहृत कर सकता हूं ॥ २३ ॥ क्षपणक-गणितके द्वारा मै यह जानता हूँ कि सभी हम महामोहके किङ्कर हैं ।