प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 148, कुल 274 में से
संदर्भ में पढ़ें१३० प्रबोधचन्द्रोदयम् मूलं देवी सिद्धये विष्णुभक्ति- स्तां च श्रद्धानुव्रता सत्त्वकन्या । कामान्मुक्तस्तत्र धर्मोऽप्यभूच्चे- त्सिद्धं मन्ये तद्विवेकस्य कृत्यम् ॥ २६ ॥ तथापि तावदसुव्ययेनापि स्वामिनः प्रयोजनमनुष्ठेयम् । तन्महाभैरवीं विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयामः । ( इति निष्क्रान्ताः सर्वे ) शान्तिः—आवामप्येवं हताशानां व्यवसायं देव्यै विष्णुभक्त्यै निवेदयावः । ( इति निष्क्रान्ते ) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके तृतीयोऽङ्कः ॥ ३ ॥ मूलमिति० सिद्धये बोधोदयरूपकार्यनिष्पत्तये मूलम् आदिकारणम् देवी विष्णु- भक्तिः, ताम् विष्णुभक्तिञ्च सत्त्वकन्या सात्त्विकी श्रद्धा अनुव्रता अनुगता । चेत् यदि कामान्मुक्तः निष्कामः धर्मोऽपि तत्र विष्णुभक्तिश्रद्धयोः स्थाने तत् तदा विवे- कस्य कृत्यम् सिद्धं जातम् मन्ये उत्प्रेक्षे । निष्कामकर्मानुतिष्ठतां सात्त्विकश्रद्धाशा- लिनाम् विष्णुभक्त्याऽन्तःकरणशुद्धिद्वारा विद्योदयो जायत इति तात्पर्यम् ॥ २६ ॥ असुव्ययेन-प्राणपणेन । स्वामिनः-मोहस्य । प्रयोजनम्-सात्त्विकश्रद्धाविष्णु- भक्त्योर्विघटनम् । अनुष्ठेयम्-कर्त्तव्यम् । आहरणाय-आनयनाय, बलादाकृष्यात्रा- नयनायेति भावः । एवम्-ईदृशम् , धर्मश्रद्धयोराहरणप्रवृत्तिरूपम् । व्यवसायम्-प्रवृत्तिम् । इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते प्रबोधचन्द्रोदय'प्रकाशे' तृतीयाङ्क'प्रकाशः' ॥ सिद्धिका मूल है विष्णु भक्ति, उसके साथ सात्त्विकी श्रद्धा है, कामसे मुक्त होकर धर्म भी अगर वहाँ पहुँच जाय तो समझना चाहिये कि विवेकका कार्य सिद्ध हो गया ॥ २६ ॥ तथापि प्राणव्यय करके भी स्वामीका कार्य करना ही है। अतः धर्म और श्रद्धाको आहूत करने के लिये महाभैरवी विद्याको भेजता हूं । ( सबका प्रस्थान ) शान्ति—हम दोनों भी इन अभागोकी गतिविधिका देवी विष्णुभक्तिसे निवेदित करें । ( दोनों जाती हैं ) तृतीय अङ्क समाप्त