भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 149, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 149

चतुर्थोऽङ्कः ( ततः प्रविशति मैत्री ) मैत्री—श्रुतं मया मुदितायाः सकाशाद्यथा महाभैरवीसङ्ग्रसनसंभ्र- माद्भगवत्या विष्णुभक्त्या परित्राता प्रियसखी श्रद्धेति । तदुत्कण्ठितेन हृदयेन प्रियसखीं श्रद्धां कदा प्रेक्षिष्ये । ( सुदं मए मुदिताए सकासादो जहा महाभैरवीसङ्गसणसम्भमादो भअवदीए विण्हुभत्तीए परित्तादा पिअसही सद्धेत्ति । ता उक्कण्ठिदेण हिअएण पिअसहीं सद्धां कदा पेक्खिसम् ) ( परिक्रामति ) ( ततः प्रविशति श्रद्धा ) श्रद्धा—( सभयोत्कम्पम् ) घोरां नारकपालकुण्डलवतीं विद्युच्छटां दृष्टिभि- र्मुञ्चन्तीं विकरालमूर्तिमनलज्वालापिशङ्गैः कचैः । मैत्री—मैत्रीकरुणामुदितोपेक्षा नाम चतस्रो वृत्तयो मताः, तास्वेकतया मैत्री । महाभैरवीसङ्ग्रसनसम्भ्रमात्-महाभैरवी कापालिकप्रेषिता पिशाची श्रद्धामाहर्त्तु- मायाता तया सङ्ग्रसनं पीडनमाहरणार्थं बलाद्ग्रहणम् , ततः संभ्रमः भयम् , तस्मात् । उत्कण्ठितेन-उत्कलिकाऽऽकुलेन । कस्या अपि सख्या महतोऽनर्थकराद्- व्यसनात्राणे जाते श्रुततदीयवृत्तान्तायास्तदीयायाः सख्यास्तद्दर्शनोत्कण्ठास्वभाव- सिद्धा समाजोचिता चेति प्रसिद्धेरनुरोधेनायं ग्रन्थः । सभयोत्कम्पम्-भयकृतेन कम्पेन सह । भयनिवृत्तावपि भयकृतः कम्पश्चिरमनु- वर्त्तत इति श्रद्धायाः कम्पो वर्ण्यते । घोरमिति० घोराम् भीषणाकृतिम् , नारकपालकुण्डलवतीम् नृमुण्डकृतकुण्डल- भूषणाम् , दृष्टिभिः उग्रदृष्टिपातैः विद्युच्छटाम् शम्पासम्पातम् मुञ्चन्तीम् बहिर्भाव- यन्तीम् , अनलज्वालापिशङ्गैः वह्निशिखाकपिलैः कचैः केशैः विकरालमुर्त्तिम् भय- ( मैत्रीका प्रवेश ) मैत्री—मैने मुदिताके मुहसे सुना है कि महाभैरवी द्वारा ग्रस्त होनेसे श्रद्धाको भगवती विष्णुभक्तिने बचा लिया है । अतः उत्कण्ठित हृदयसे प्रियसखी श्रद्धाको कब देखूंगी । ( चलती है ) ( श्रद्धाका प्रवेश ) श्रद्धा—( भयसे कम्पित होकर ) भयानक नरकपालका कुण्डल धारण करने वाली, दृष्टिसे विद्युच्छटा प्रकट करने वाली, विकराल मूर्त्ति, आगकी लपट सदृश केशधारिणी,