भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 150, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 150

१३२ प्रबोधचन्द्रोदयम् दंष्ट्राचन्द्रकलाङ्कुरान्तरललज्जिह्वां महाभैरवीं पश्यन्त्या इव मे मनः कदलिकावेवाद्याप्यहो वेपते ॥ १ ॥ मैत्री—( स्वगतम् ) अये, एषा मे प्रियसखी श्रद्धा भयसमुद्भ्रान्त- हृदयाकलितकम्पतरलैरङ्गैः किमपि मन्त्रयन्ती संमुखागतामपि मां न लक्षयति । तस्मादालपिष्यामि तावत् । ( प्रकाशम् ) प्रियसखि श्रद्धे, किमिति त्वमुत्कलितहृदया मामपि न विलोकयसि । ( अए, एसा मे पिअ- सही सद्धा भयसमुब्भान्तहिअआकलिदकम्पतरलेहि अङ्गेहि किवि मन्तअन्ती संमुहागदंवि मं ण लक्खेदि । ता आलविस्सं दाव । पिअसहि सद्दे, किति तुमं उक्कलिदहिअआ मंवि ण विलोएदि ) ङ्कुरविग्रहाम्, दंष्ट्राचन्द्रकलाङ्कुरान्तरललज्जिह्वाम् दंष्ट्राः दन्ताः एव चन्द्रकलाङ्कुराः बालचन्द्रमसः प्ररोहाः तासाम् अन्तरे मध्ये ललन्ती चला जिह्वा रक्ताभ्ररसना यस्याः सा ताम्, महाभैरवीम् कपालिकप्रेरिताम् मदाहरणायागताम् भैरवीं नाम विद्याप्रभेदम् पश्यन्त्याः सद्यो विलोकयन्त्या इव मे मम श्रद्धाया मनः कदलिकावत् रम्भातरुपत्रवत् अद्यापि चिरस्य भयकारणे निवृत्तेऽपि वेपते कम्पते । अयमाशयः- कापालिकेन मदाहरणाय प्रहितां घोरदर्शनां नृकपालकुण्डलभूषणां कपिशवर्णैः कचै- र्विकरालं वपुर्दधतीं चन्द्रकलाङ्कुरोपमदशनमध्यचललोललोहितरसनां तां महाभैरवीं दृष्ट्वा तथाऽहमभैषं यथाऽधुनाऽपि भयकारणीभूताया भैरव्या विष्णुभक्त्या कृतेऽपि मम पश्यन्त्याः पुरत एव विनिपाते सातिशयभीतिकृतो मम मनःकम्पो न निवर्त्तत इति । शार्दूलविक्रीडित वृत्तम् ॥ १ ॥ भयेनि० भयेन भीत्या समुद्भ्रान्तम् अनवस्थितम् यद् हृदयम् चित्तम् तेन आकलितः प्राप्तः यः कम्पः चलत्वम् तेन तरलैः चञ्चलैः । भयसकोपहृदयवशाच्चलद्भिरि- त्यर्थः । मन्त्रयन्ती-मन्दमभिदधाना । संमुखांगताम्-पुरोवर्त्तिनीम् । न लक्षयति- न विभावयति, अन्यमनस्कतया मदागमन न चेतयत इत्यर्थः । आलपिष्यामि- सम्बोध्य किमपि व्याहरिष्यामि, ( येन मदभिमुखीभूतायास्तस्या जायेत मदुप- स्थितिबोधः ) उत्कलितहृदया-अनवस्थितहृदया । मामपीत्यपिनाऽतिसख्यकृतं न्तरूप चन्द्रकलाके बीच रक्ताभ जिह्वाधारिणी, महाभैरवीको जैसे मैं अब भी देखती होऊं उसी प्रकार कदलीकी तरह हमारा मन कांप रहा है ॥ १ ॥ मैत्री— ( स्वगत ) अरे, भयातुर हृदया यह हमारी सखी श्रद्धा भयतरल अङ्गोंसे कुछ कह रही है और समीपमे सम्मुख आजाने पर भी मुझे नहीं देख रही है । मै इसे टोकूंगी । ( प्रकाश ) प्रियसखि श्रद्धे, क्यों तुम इतनी विकल हृदया हो रही हो कि मुझे भी नहीं देख रही हो ।