भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 151, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 151

चतुर्थोऽङ्कः १३३ श्रद्धा—( विलोक्य सोच्छ्वासम् ) अये, मे प्रियसखी मैत्री। कालरात्रिकरालास्यदन्तान्तर्गतया मया। दृष्टासि सखि सैव त्वं पुनरत्रैव जन्मनि ॥ २ ॥ तदेहि गाढ परिष्वजस्व माम्। मैत्री—( तथा कृत्वा ) सखि, तदा विष्णुभक्तिनिर्भर्त्सितप्रभावाया महाभैरव्याः कस्मात्तेऽद्यापि वेपन्तेऽङ्गानि। (सहि, तधा विण्णुभत्तिणिब्भ- त्थिदप्पभावाए महाभैरवीए कहं दे अज्जवि वेवन्दि अङ्गाईं ) ( श्रद्धा घोरमित्यादि पठति ) विलोकनस्यात्यन्तौचित्यं समर्थ्यते। सोच्छ्वासम्—उच्छ्वासश्चात्र प्रियजनदर्शनजन्मा, तत्रापि विशिष्य सच एव महाऽऽपदुपनिपातस्य जातस्यानुध्यातत्वेन दुःखस्मरणकृतमनःखेदप्रभवो बोध्यः, तथा चोक्तं-‘स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते’ इति। ‘अत्र किमपि मन्त्रयन्ती’ इत्यादिना वितर्कप्रतीतेरूपारूढ्यं तृतीयमङ्गम, ‘रूपं वाक्यं वितर्कमत्’ इति तल्लक्षणात्। कालरात्रीति० कालरात्रेरिब करालम् भयावहमास्यं मुखं तत्र ये दन्ताः तदन्तः तन्मध्ये गतया प्रवेशं गतया मया सैव त्वम् पुनः अत्रैव जन्मनि दृष्टाऽसि। इदं मम सौभाग्यं यन्मृत्योरिव तस्या मुखान्निष्पार्यं निर्याय प्रियसखीं त्वामत्रैव जन्मनि दृशा पिबामीति भावः ॥ २ ॥ तत्-मृत्युसदृशविपदुत्तीर्णाया मम प्रमोदायैम्। एहि-आगच्छ। परिष्वजस्व- आलिङ्ग। तथा कृत्वा-आलिङ्ग्य। विष्णुभक्तिनिर्भर्त्सितप्रभावायाः-देव्या विष्णुभक्त्या दृष्टिपातेन पातयित्वा नाशितायाः, वेपन्ते-कम्पन्ते। श्रद्धा—(देखकर आश्वस्त होकर) अरे, मेरी सखी मैत्री है! महाभैरवीके कालरात्रीकी तरह भयङ्कर मुंह तथा दांतके भीतर जाकर भी पुनः इसी जन्ममें मैंने तुम्हें देखा ॥ २ ॥ अतः आओ, जोरसे तुम्हे गले लगालूं। मैत्री—(वैसा करके) सखि, जब कि विष्णुभक्तिने महाभैरवीके प्रभावको उस तरह दूर कर दिया तब फिर क्यों तुम्हारे अङ्ग अब भी कांप रहे हैं। (श्रद्धा ‘घोराम्’ इत्यादि दुहराती है)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक) · पृष्ठ 151, कुल 274 में से · BharatKosha