प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
DevanagariHindipublished274 पृष्ठ
पृष्ठ 127, कुल 274 में से
संदर्भ में पढ़ेंपृष्ठ 127
तृतीयोऽङ्कः १०६
क्षपणकः—अरे विहारदासीभुजङ्ग दुष्टपरिव्राजक, दृष्टान्त एष मया
दर्शितः । तत् प्रियं ते विस्रब्धं भणामि । बुद्धानुशासनं परिहृत्यार्हतानु-
शासनमेवानुसृत्य दिगम्बरमतमेव धारयतु भवान् । (अले बिहालदासी-
भुअङ्ग दुट्ठपलिब्वज्जिअ, दिट्टंतो एसो मए दंसिदो । ता पिअं दे विस्सद्धं भणामि ।
बुद्धाणुसासणं पलिहलिअ अलिहन्ताणुसासणं जेव्व अनुसलिअ दिग्गवलमदं जेव्व
धालेदु भवम् )
भिक्षुः—आः पाप, स्वयं नष्टः परानपि नाशयितुमिच्छसि ।
स्वाराज्यं प्राज्यमुत्सृज्य लोके निन्द्यामनिन्दितः ।
अभिवाञ्छति को नाम भवानिव पिशाचताम् ॥ १० ॥
अपि च, आर्हतमपि धर्मवेदनं कः श्रद्दधाति ?
--------------------------------------------------
विहारदासीभुजङ्ग-वेश्याभर्त्तः । दृष्टान्तः-निदर्शनम् । यथा बुद्धोक्तौ विश्वस्य
तदीयां सर्वज्ञतां प्रतिपन्नोऽसि तथा मदीयोक्तौ विश्वस्य स्वस्य मम दासत्वमपि
त्वया स्वीकर्त्तव्यमिति दृष्टान्तो मया दर्शितो न तु वास्तविके तव दासत्वे मम
तात्पर्यमिति ।
विस्रब्धम्-विश्वस्तम् । बुद्धानुशासनम्-बौद्धमतम् । परिहृत्य-त्यक्त्वा । आर्ह-
तानुशासनम्-जैनमतम् । दिगम्बरमतम्-जैनमतैकदेशम् ।
नष्टः—पतितः । नाशयितुम्-पातयितुम् , जैनमतं धारयित्वा भ्रंशयितुमित्यर्थः ।
स्वाराज्यमिति० प्राज्यं प्रकृष्टम् स्वराज्यम् उत्सृज्य त्यक्त्वा भवानिव भवद्वत्
लोकनिन्द्याम् शास्त्रगर्हिताम् पिशाचताम् क्षपणकत्वम् को नाम अभिवाञ्छति ।
यथाभवानिह मते विश्वस्य पिशाचतांगतः तथा कोऽन्यो बौद्धो नित्यस्वातन्त्र्यं
परित्यज्य पिशाचभावं भजतामित्यर्थः ॥ १० ॥
धर्मवेदनम्-धर्मज्ञानम् ।
--------------------------------------------------
क्षपणक—अरे विहारदासीभुजङ्ग, दुष्ट परिव्राजक, मैने यह दृष्टान्त दिखलाया है ।
विश्वसनीय हित तुम्हे कह रहा हू कि बुद्धमत छोडकर जैनमतमें दिगम्बर जैन सिद्धान्तको
अपना लो ।
भिक्षु—अरे पापी, तू खुद पतित है, अब दूसरोंको गिराना चाहता है ।
प्रचुर स्वाराज्य छोड़कर कौन अनिन्दित जन तुम जैसे इस निन्द्य पिशाचताको ग्रहण
करना चाहेगा ॥ १० ॥
और—आर्हत मत पर श्रद्धा ही किसे है ?