प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 158, कुल 274 में से
संदर्भ में पढ़ें२४० प्रबोधचन्द्रोदयम् अमुष्य संसारतरोरबोधमूलस्य नोन्मूलविनाशनाय । विश्वेश्वराराधनबीजजातात्तत्त्वावबोधादपरोऽभ्युपायः ॥ ७ ॥ ‘प्रायः सुकृतिनामर्थे देवा यान्ति सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥’ इति तत्त्वविदो व्याहरन्ति । तथा तु देव्या विष्णुभक्त्या संदिष्टं ‘उद्योगः कामादिविजयविषये क्रियताम्’ इति । अहमपि भवदर्थे गृहीत- पक्षेति । तत्र कामस्तावत्प्रथमो वीरो वस्तुविचारेणैव जीयते । तद्भवतु । अज्ञानम् । तत्त्वावबोधात्-स्वरूपज्ञानात्, आत्मबोधरूपब्रह्मसाक्षात्कारात् । नि- वृत्तिः-उपरमः ॥ अमुष्येति० अमुष्य अबोधमूलस्य अज्ञानप्ररूढस्य संसारतरोः भवबन्धनवृक्षस्य उन्मूलविनाशनाय समूलोत्पाटनाय विश्वेश्वरः परमात्मा तस्याराधनं सेवा मन- नादिः तदेव बीजमादिकारणं तस्माज्जातात् उत्पन्नात् तत्त्वावबोधात् आत्मज्ञानात् अपरः उपायः न अस्तीति शेषः । अनादिभावरूपाज्ञविजृम्भितमिमं संसारतरुमुत्पाट- यितुं तत्त्वज्ञानमेव प्रभवति, अज्ञानस्य ज्ञानैकनिवर्त्त्यत्वात्, तच्च तत्त्वज्ञानं विश्वे- श्वराराधनमन्तरा न संभवति, तदुक्तम्—‘ईश्वरचोदनाभिव्यक्ताद्धर्मादेव’ इति कणादसूत्रे । वंशस्थ वृत्तम्, ‘वदन्ति वंशस्थमिदं जतौ जरौ’ इति लक्षणात् ॥ ७ ॥ प्राय इति० सुकृतिनाम् पुण्यकर्मणाम् अर्थे प्रयोजने करणीये देवाः सहायताम् सहायकभावम् यान्ति प्रतिपद्यन्ते, अपन्थानम् निन्दितं वर्त्म गच्छन्तं तु सोदरः अत्यात्मीयः अपि विमुञ्चति साहायकानाचरणरूपं त्यागं करोतीत्यर्थः । देवानां सहायताऽनुकूलपरिस्थित्युत्पादनादिना सामग्रीसमाहरणेन च प्रसिद्धैव रामायणादौ, सोदरैस्त्यागस्यापि तत्रैव रावणचरितनिदर्शनम् ॥ तत्त्वविदः-ज्ञानिनः । व्याहरन्ति-कथयन्ति, व्याहार उक्तिर्लपितं भाषणं वचनं वचः’ इत्यमरः । तथा-तदनुसारम् । भवदर्थे-त्वया करणीये कामादिजये । प्रथमो अज्ञानमूलक इस संसार वृक्षके समूल विनाशमे भगवदाराधनसे जाततत्त्वावबोधके अतिरिक्त कोई उपाय नहीं है ॥ ७ ॥ ‘प्रायः सुकृतियोंके कार्यमें देवता भी सहायता करते हैं और कुमार्ग पर चलने वालोंको सोदर भी छोड़ देते हैं ॥ ऐसा तत्त्वज्ञोंका कहना है । और देवी विष्णुभक्तिने कहा है कि कामादिकी विजयके लिये उद्योग किया जाय । मै भी आपके पक्षमें रहूंगी । उसमें मुख्य वीर कामको तो वस्तु-