प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 157, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १३६ शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावली- निर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति । निःसारे मृगतृष्णिकार्णवजले श्रान्तोऽपि मूढः पिव- त्याचामत्यवगाहतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ६ ॥ अथवा संसारचक्रवाहकस्य महामोहस्याबोधो मूलम् । तस्य च तत्त्वावबोधादेव निवृत्तिः । यतः— शान्त इति० मूढः अविवेकी जनः शान्ते अविद्याविक्षेपरहिते अनन्तमहिम्नि इयत्तापरिच्छेदरहिते महिमरूपे निर्मलचिदानन्दे आविद्यकदोषशून्यज्ञानानन्दरूपे तरङ्गावलीनिर्मुक्ते उच्चावचप्रपञ्चाहतविकाररहितेऽमृतसागरस्य निरपायसुधासमु- द्रस्य ब्रह्मानन्दस्याम्भसि जले आध्यात्मिकज्ञाने मग्नः स्वाभेदेन बुडितोऽपि नाचा- मति अंशतोऽपि तमानन्दं नास्वादयति । ( किन्तु ) निस्सारे पारमार्थिकताविरहि- तत्वेनातात्त्विके मृगतृष्णिकार्णवजले मृगमरीचिकातुल्ये सांसारिकसुखरूपपयसि श्रान्तः तत्कृतानेकदुःखबाधितः अपि पिवति आचामति, अवगाहते स्नाति, अभिरमते प्रसीदति, मज्जति अथ उन्मज्जति यथासम्भवं सर्वविधमप्युपयोगं कुर्वाणो विहरति । मूढोऽयं सांसारिको जीवः स्वाभेदेन विभाव्यतया समीपवर्त्तिनि शान्ते सर्वविध- बाह्योत्पातरहिते अनन्तमहिम्नि अनन्तविस्तारे निर्मले तरङ्गकृतबाधाया अभूमौ अमृतसागरे अनि मज्ज्य आत्मानन्दं परित्यज्य सांसारिकसुखरूपमरीचिकाजले सर्वविधमानन्दमनुभवतीत्यतिविचित्रमस्य मूढत्वमिति भावः । अयमात्मरूपोऽ- मृतसागरः शान्तो निरुपद्रवः, अनन्तश्च नित्यत्वात्, निर्मलो देहेन्द्रियादिविषयमल- राहित्यात्, अन्यस्तु सागरो नक्रमकरादिकृतोपद्रवसहितः सीमितो मलवांश्च भव- तीति व्यतिरेकः । अयमस्याशयः—सत्यज्ञानानन्तानन्दात्मकं स्वस्वरूपमजानञ्जीवः संसारदशामापन्नोऽविद्यावशादन्तःकरणधर्मान्दुःखादुरितादीन् प्राणधर्मान् क्षुत्पिपा- सादीन् देहधर्माञ्जरामरणादीन् ममाहमित्यभिमानमूलकान्पुत्रमित्रकलत्रादिगतसा कल्यवैकल्यादीनात्मन्यध्यस्य कष्टमनुभवतीति ॥ ६ ॥ संसारचक्रवाहकस्य-जन्मनः परतोऽन्यजन्मेति संसारपरम्परावाहिनः। अबोधः- शान्त, अनन्तमहिमाशाली, स्वच्छज्ञानस्वरूप, तरङ्गावलीशून्य, अमृतसमुद्रके जलमें डूब कर भी प्यास नहीं बुझाता है और निःसार मृगतृष्णाजलमे मूढ श्रान्त पामरजन पीता है, नहाता है, प्रसन्न होता है और डूबता-उतराता है ॥ ६ ॥ अथवा—संसारचक्रप्रवर्त्तक महामोहका अज्ञान ही मूल है, उसकी निवृत्ति तत्त्वान बोधसे ही होगी । क्योकिः—