प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
चतुर्थोऽङ्कः १३६ शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावली- निर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति । निःसारे मृगतृष्णिकार्णवजले श्रान्तोऽपि मूढः पिव- त्याचामत्यवगाहतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ६ ॥ अथवा संसारचक्रवाहकस्य महामोहस्याबोधो मूलम् । तस्य च तत्त्वावबोधादेव निवृत्तिः । यतः— शान्त इति० मूढः अविवेकी जनः शान्ते अविद्याविक्षेपरहिते अनन्तमहिम्नि इयत्तापरिच्छेदरहिते महिमरूपे निर्मलचिदानन्दे आविद्यकदोषशून्यज्ञानानन्दरूपे तरङ्गावलीनिर्मुक्ते उच्चावचप्रपञ्चाहतविकाररहितेऽमृतसागरस्य निरपायसुधासमु- द्रस्य ब्रह्मानन्दस्याम्भसि जले आध्यात्मिकज्ञाने मग्नः स्वाभेदेन बुडितोऽपि नाचा- मति अंशतोऽपि तमानन्दं नास्वादयति । ( किन्तु ) निस्सारे पारमार्थिकताविरहि- तत्वेनातात्त्विके मृगतृष्णिकार्णवजले मृगमरीचिकातुल्ये सांसारिकसुखरूपपयसि श्रान्तः तत्कृतानेकदुःखबाधितः अपि पिवति आचामति, अवगाहते स्नाति, अभिरमते प्रसीदति, मज्जति अथ उन्मज्जति यथासम्भवं सर्वविधमप्युपयोगं कुर्वाणो विहरति । मूढोऽयं सांसारिको जीवः स्वाभेदेन विभाव्यतया समीपवर्त्तिनि शान्ते सर्वविध- बाह्योत्पातरहिते अनन्तमहिम्नि अनन्तविस्तारे निर्मले तरङ्गकृतबाधाया अभूमौ अमृतसागरे अनि मज्ज्य आत्मानन्दं परित्यज्य सांसारिकसुखरूपमरीचिकाजले सर्वविधमानन्दमनुभवतीत्यतिविचित्रमस्य मूढत्वमिति भावः । अयमात्मरूपोऽ- मृतसागरः शान्तो निरुपद्रवः, अनन्तश्च नित्यत्वात्, निर्मलो देहेन्द्रियादिविषयमल- राहित्यात्, अन्यस्तु सागरो नक्रमकरादिकृतोपद्रवसहितः सीमितो मलवांश्च भव- तीति व्यतिरेकः । अयमस्याशयः—सत्यज्ञानानन्तानन्दात्मकं स्वस्वरूपमजानञ्जीवः संसारदशामापन्नोऽविद्यावशादन्तःकरणधर्मान्दुःखादुरितादीन् प्राणधर्मान् क्षुत्पिपा- सादीन् देहधर्माञ्जरामरणादीन् ममाहमित्यभिमानमूलकान्पुत्रमित्रकलत्रादिगतसा कल्यवैकल्यादीनात्मन्यध्यस्य कष्टमनुभवतीति ॥ ६ ॥ संसारचक्रवाहकस्य-जन्मनः परतोऽन्यजन्मेति संसारपरम्परावाहिनः। अबोधः- शान्त, अनन्तमहिमाशाली, स्वच्छज्ञानस्वरूप, तरङ्गावलीशून्य, अमृतसमुद्रके जलमें डूब कर भी प्यास नहीं बुझाता है और निःसार मृगतृष्णाजलमे मूढ श्रान्त पामरजन पीता है, नहाता है, प्रसन्न होता है और डूबता-उतराता है ॥ ६ ॥ अथवा—संसारचक्रप्रवर्त्तक महामोहका अज्ञान ही मूल है, उसकी निवृत्ति तत्त्वान बोधसे ही होगी । क्योकिः—
२४० प्रबोधचन्द्रोदयम् अमुष्य संसारतरोरबोधमूलस्य नोन्मूलविनाशनाय । विश्वेश्वराराधनबीजजातात्तत्त्वावबोधादपरोऽभ्युपायः ॥ ७ ॥ ‘प्रायः सुकृतिनामर्थे देवा यान्ति सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥’ इति तत्त्वविदो व्याहरन्ति । तथा तु देव्या विष्णुभक्त्या संदिष्टं ‘उद्योगः कामादिविजयविषये क्रियताम्’ इति । अहमपि भवदर्थे गृहीत- पक्षेति । तत्र कामस्तावत्प्रथमो वीरो वस्तुविचारेणैव जीयते । तद्भवतु । अज्ञानम् । तत्त्वावबोधात्-स्वरूपज्ञानात्, आत्मबोधरूपब्रह्मसाक्षात्कारात् । नि- वृत्तिः-उपरमः ॥ अमुष्येति० अमुष्य अबोधमूलस्य अज्ञानप्ररूढस्य संसारतरोः भवबन्धनवृक्षस्य उन्मूलविनाशनाय समूलोत्पाटनाय विश्वेश्वरः परमात्मा तस्याराधनं सेवा मन- नादिः तदेव बीजमादिकारणं तस्माज्जातात् उत्पन्नात् तत्त्वावबोधात् आत्मज्ञानात् अपरः उपायः न अस्तीति शेषः । अनादिभावरूपाज्ञविजृम्भितमिमं संसारतरुमुत्पाट- यितुं तत्त्वज्ञानमेव प्रभवति, अज्ञानस्य ज्ञानैकनिवर्त्त्यत्वात्, तच्च तत्त्वज्ञानं विश्वे- श्वराराधनमन्तरा न संभवति, तदुक्तम्—‘ईश्वरचोदनाभिव्यक्ताद्धर्मादेव’ इति कणादसूत्रे । वंशस्थ वृत्तम्, ‘वदन्ति वंशस्थमिदं जतौ जरौ’ इति लक्षणात् ॥ ७ ॥ प्राय इति० सुकृतिनाम् पुण्यकर्मणाम् अर्थे प्रयोजने करणीये देवाः सहायताम् सहायकभावम् यान्ति प्रतिपद्यन्ते, अपन्थानम् निन्दितं वर्त्म गच्छन्तं तु सोदरः अत्यात्मीयः अपि विमुञ्चति साहायकानाचरणरूपं त्यागं करोतीत्यर्थः । देवानां सहायताऽनुकूलपरिस्थित्युत्पादनादिना सामग्रीसमाहरणेन च प्रसिद्धैव रामायणादौ, सोदरैस्त्यागस्यापि तत्रैव रावणचरितनिदर्शनम् ॥ तत्त्वविदः-ज्ञानिनः । व्याहरन्ति-कथयन्ति, व्याहार उक्तिर्लपितं भाषणं वचनं वचः’ इत्यमरः । तथा-तदनुसारम् । भवदर्थे-त्वया करणीये कामादिजये । प्रथमो अज्ञानमूलक इस संसार वृक्षके समूल विनाशमे भगवदाराधनसे जाततत्त्वावबोधके अतिरिक्त कोई उपाय नहीं है ॥ ७ ॥ ‘प्रायः सुकृतियोंके कार्यमें देवता भी सहायता करते हैं और कुमार्ग पर चलने वालोंको सोदर भी छोड़ देते हैं ॥ ऐसा तत्त्वज्ञोंका कहना है । और देवी विष्णुभक्तिने कहा है कि कामादिकी विजयके लिये उद्योग किया जाय । मै भी आपके पक्षमें रहूंगी । उसमें मुख्य वीर कामको तो वस्तु-
चतुर्थोऽङ्कः १४१ तमेव तावद्विजयार्थमादिशामि। वेदवति, आहूयतां वस्तुविचारः। प्रतीहारी—यद्देव आज्ञापयति। (जं देवो आणवेदि) (इति निष्क्रम्य वस्तुविचारेण सह प्रविशति) वस्तुविचारः—अहो निर्विचारसौन्दर्याभिमानवर्धिष्णुना कामहतकेन वञ्चितं जगत्। अथवा दुरात्मना महामोहेनैव। तथाहि— कान्तेत्युत्पललोचनेति विपुलश्रोणिभरेत्युन्नम- त्पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति। वीरः-मुख्यो योधः। वस्तुविचारेण-वस्तुस्वरूपविचारनामकेन। कामो वस्तुस्वरूप- विचारे क्रियमाणे नावतिष्ठते, आपातरामणीयता हि विषयाणामाकृष्य कामं समे- धयति, विचारेण तु तेषामापातरमणीयता विपरिवर्त्तते वास्तविकरूपे, ततो निव- र्त्तते काम इति वस्तुविचारेण कामजय उक्तः। तमेव-वस्तुविचारमेव। विजया- र्थम्-कामं जेतुम्। आदिशामि-आज्ञापयामि। वेदवतीति प्रतीहार्या नाम। निर्विचारसौन्दर्याभिमानवर्धिष्णुना—विचारान्निर्गतं निर्विचारम्, तादृशो यत्सौन्दर्याभिमानः कमनीयता गर्वस्तेन वर्धिष्णुना वृद्धिशीलेन। विचारणायां कृतायां नार्याः सौन्दर्यमद्यष्टतायां पर्यवस्यतीति तत्सौन्दर्यं निर्विचारसौन्दर्यं तन्त्रा- भिमानेन वर्द्धते काम इति प्रसिद्धमेव। वञ्चितम्-प्रतारितम्, आकृष्य स्वस्मिन्त्रा- सक्तं कृतम्। 'महामोहेनैव' इत्यस्य वञ्चितमिति शेषः, न कामस्यायं प्रभावो यल्लोकस्य कामासक्तिः किन्तु महामोहस्यैवायं प्रभावः, किंवाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्' इति भावः। कान्तेति० अहो आश्चर्यम् मोहस्य दुश्चेष्टितम् मोहस्यानर्थकरः प्रयासभरः ! (यत्प्रभाववशात्) प्रत्यक्षाशुचिपूत्तिकाम् स्फुटामेध्यपुत्तलीरूपाम् मांसग्रन्थिला- लारसरक्तादिक्लत्स्नेनाशुद्धवस्तुनिर्मितक्रीडापुत्तलिकानतिरिक्तस्वभावाम् (अपि) स्त्रियम् नारीम् दृष्ट्वा प्रत्यक्षमालोक्य विद्वान् अधीतबहुशास्त्रोऽपि (मूर्खस्त्वज्ञानेन विचार ही जीत लेगा। अच्छी बात। उसे ही विजयके लिए आदेश देता हूँ। वेदवति, वस्तु- विचारको पुकारो। प्रतीहारी—जैसी महाराजकी आज्ञा। (जाकर वस्तुविचारके साथ प्रवेश करती है) वस्तुविचार—अहो विना विचारके सौन्दर्यसे बढ़ने वाले कामने संसारको वञ्चित कर रखा है। अथवा दुरात्मा कान्ता, कमलनयना, विपुल नितम्बा, पीनोच्चकुचा, सुवदना, सुभ्रू
१५२ प्रबोधचन्द्रोदयम् दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपुत्तिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ ८ ॥ अपि च यथावस्तु विचारयताममन्दमतीनामपि पिशितपङ्कावनद्धा- स्थिपञ्जरमयी स्वभावदुर्गन्धिर्बीभत्सवेषा नारीति नास्ति विरतिः । तदत्र विस्पष्ट एवेतरगुणाध्यासः । तथाहि— मुक्ताहारलता रणन्मणिमया हैमास्तुलाकोटयो रागः कुङ्कुमसंभवः सुरभयः पौष्पा विचित्राः स्रजः । करोतु तत्रानुरागं नासौ तथा चिन्त्यः) कान्ता कमनीया सुन्दरी इति, उत्पल- लोचना कमलाक्षी इति, विपुलश्रोणीभरा विपुलनितम्बा इति, उन्नमत्पीनोत्तुङ्गप- योधरा प्रथिष्ठगवर्धमानस्थूलोच्चकुचा इति, सुमुखाम्भोजा सुन्दरवदनकमला इति, सुभ्रूः सुन्दरभूलता इति (हेतोः) (कृत्वा वा) माद्यति मोहं प्रतिपद्यते, मोदते हृष्यति, अभिरमते परिक्रीडति, प्रस्तौति बहुविधान् तद्गुणान् वर्णयति । पण्डि- तोऽपि मलमूत्राम्लुतशरीरतयाऽशुचिं पुत्तलिकामिवावास्तविकीं नारीं दृष्ट्वा कामा- वेशवशान्मोहमुपयाति, तदाप्त्या हृष्यति, तस्या गुणानां वर्णने चावस्तुभूततत्त- द्गुणानानि सङ्गृह्णाति, तदयं मोहस्य प्रसृमरो महिमा, न कामस्येति तात्पर्यम् । शार्दूलविक्रीडितमेय वृत्तम् ॥ ८ ॥ यथावस्तु-वस्तुस्वरूपयाथात्म्यम् । विचारयताम्-भावयताम् । अमन्दमती- नाम्-प्रवरमेधसाम् । पिशितपङ्कावनद्धास्थिपञ्जरमयी-मांसकर्द्दमखचितास्थिपञ्जर- स्वरूपा । वीभत्सवेषा-घृणितरूपा विरतिः-वैराग्यम् विवेकिनोऽपि स्त्रीणां मांसा- स्थिपञ्जरमयत्वं घृणामयत्वं भावयन्तोऽपि यन्न ताभ्यो विरक्ता भवन्ति तत्र कारणं परगुणारोप इति वक्तुमवतारयति—तत्रेति० इतरगुणाध्यासः-परगुणारोपः, परे सुन्दरपदार्थाः, तेषां ये गुणास्तेषामारोपः कल्पना सा कल्पनाऽऽसहार्याऽपि तथा न प्रतीयते मोहमाहात्म्यादिति भावः । मुक्ताहारलतेति० अहो आश्चर्यमिदम्, मुक्ताहारलताः मौक्तिकाहाराः, रणन्मणि- इस प्रकारसे स्त्रीको देखकर प्रसन्न होता है, मस्त होता है, रति करता है, विद्वान् होकर भी प्रत्यक्ष अपवित्र मूर्ति स्त्रीको इस प्रकार समझता है यह मोहका ही दुश्चेष्टित है ॥ ८ ॥ और वस्तुविचार करने वाले तीक्ष्ण बुद्धि होकर भी मांससे लिपटी हड्डी स्वरूप तथा स्वभावतः दुर्गन्धमय और बीभत्स नारी होती है यह जानकर भी विरक्त नहीं होते हैं । इससे प्रकट होता है कि यहाँ अन्य गुणोंका आरोप होता है । खनखनाते हुए मणिके मुक्ताहार, सोनेके चरणालङ्कार, कुङ्कुमके राग, सुगन्धित पुष्प,
चतुर्थोऽङ्कः १४३ वासश्चित्रदुकूलमल्पमतिभिर्नार्यामहौ कल्पितं बाह्यान्तःपरिपश्यतां तु निरयो नारीति नाम्ना कृतः ॥ ६ ॥ ( आकाशे ) आः पाप कामचण्डाल, किमनालम्बनमेवं भवता व्याकु- लीक्रीयते जनः । तथा ह्ययमेवमभिमन्यते— बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते नीलेन्दीवरलोचना पृथुकुचोत्पीडं समाश्लिष्यति । अरे मूढ, मयाः खनखनायमानमौक्तिकमयः हैमाः स्वर्णकृताः तुलाकोटयः नूपुराणि, कुङ्कुम- संभवः कुङ्कुमाभिधद्रव्यनिर्मितः रागः अङ्गरागः, सुरभयः सुगन्धियुताः पौष्पाः पुष्पघटिताः विचित्राः नानाकृतयः स्रजः माल्यानि, चित्रदुकूलम् नानावर्णम् पट्ट- वस्त्रम् वासः परिधानम्, अल्पमतिभिः सङ्कुचितबुद्धिभिः कामिभिर्मन्दैः नार्याम् कल्पितम् आरोपितम् । न नारी स्वतः सुन्दरी, किन्तु मन्दास्तस्यां मुक्ताहारहेमनु- पुरकुङ्कुमकृताङ्गरागपुष्पमाल्यचित्रवस्त्रादीनां सौन्दर्यमध्यस्य स्वबन्धनं प्रस्तुवन्ती- त्याशयः । बाह्यान्तःपरिपश्यताम् बहिरन्तश्च विचारयतां तु बुद्धिमतां ( मते ) नारीति नाम्ना निरयः नरकः कृतः । विवेकिनां मते नारीनरक इत्यनर्थान्तरम्, मुग्धास्तु तत्र परगुणानध्यस्य प्रमोन्दन्त इति भावः । पूर्वोक्तमेव वृत्तम् ॥ ९ ॥ 'कामचण्डाल' इत्यत्र कामस्य परोपतापकत्वेन चण्डालत्वारोपो बोध्यः । अना- लम्बनम्-निराधारम्, नारीरूपमेव कामस्य प्रलोभनं मतं तदप्यसदेवेति प्रागुक्त- मेव, ततश्च लोकानां नार्यासञ्जनं निराधारमेव लोकानां व्याकुलीकरणमिति भावः । व्याकुलीक्रियते-ताभिः स्त्रीविषयाभिस्तत्सन्ताभिरन्याभिर्वा चिन्ताभिरायास्यते । अयम्-कामपीडितो जनः । एवम्-उक्तेन प्रकारेण । अभिमन्यते-मनसि कल्पयति । बालेति० इन्दुवदना चन्द्रोपममुखी नीलेन्दीवरलोचना नीलकमलतुल्यलोचना इयम् बाला रमणी माम् इच्छति प्रेम्णाऽभिलष्यति, सानन्दम् सहर्षम् उद्वीक्षते विचित्र मालायें, रङ्गबिरङ्गी कपडे इन सब चीजोको मूर्खोंने नारीमें कल्पना कर ली है, किन्तु भीतर बाहर विचारने वालोंके लिये तो स्त्रियां नरक ही है ॥ ९ ॥ ( अकाशकी ओर देखकर ) आः पाप कामचण्डाल, व्यर्थ क्यों तुम अपनी आत्माको व्याकुल कर रहे हो ? यह अभिमान कहता है कि— यह इन्दुवदना सुन्दरी मुझे चाहती है, सानन्द देखती है, नीलकमललोचना यह बाला स्थूल कुचोंसे पीडित करके आलिङ्गन करती है ।
१४४ प्रबोधचन्द्रोदयम् का त्वामिच्छति का च पश्यति पशो मांसास्थिभिर्निर्मिता नारी वेद न किंचिदत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १० ॥ प्रतीहारी—इति आगच्छतु महाभागः । ( इदो आगच्छेदु महाभाओ ) ( इत्युभौ परिक्रामतः ) प्रतीहारी—एष महाराज उपविष्टस्तिष्ठति । तदुपसर्पतु भवान् । ( एसो महाराओ उवविट्ठो चिट्ठदि । ता उवसप्पदु भवम् ) वस्तुविचारः—( उपसृत्य ) जयतु जयतु देवः । एष वस्तुविचारः प्रणमति । राजा—इहोपविश्यताम् । पश्यनि, पृथुकुचोलीऽम् गाढालिङ्गने स्थूलोन्नतौ स्वकुचौ पीडां गमयित्वा समा- श्लिष्यनि आलिङ्गति कामहतो जन एवं भावयति तत्तस्य मिथ्याचिन्तनं वस्तुतत्त्वं त्वेवं बोध्यम् । का त्वाम् इच्छति न कापीत्यर्थः, का त्वां पश्यति न कापीत्यर्थः, पशो इदं कामिसम्बोधनं तस्या ज्ञानं समर्थयितुं स्वासक्तेर्विरागं च समुत्पादयितुम् । मांसास्थिभिः मांसेनास्थिपिञ्जरेण च निर्मिता नारी देहभूता योषित् न किञ्चित् वेद जानाति, कामिनो भवत आसक्तिर्देहभूतनार्थामेव, सा च न किमपि वेद, देहस्या- चेतनावाद्नो भवता कल्पितं तदीक्षणादि सर्वं निराधारमित्यर्थः । नन्वेवं देहेऽज्ञाने कस्तत्रस्थितो वेदेत्यत्राह—अत्र देहे पुनः सः प्रसिद्धः अमूर्त्तः कायरहितः पुमान् साक्षी पश्यति । सर्वं द्रष्टृत्वादिकं साक्षिधर्म एव न देहधर्मस्तदलं देहभूतायां नार्यामासक्तिं कृत्वेति भावः ॥ १० ॥ उपविष्टः-आसनासीनः । अरे मूढ, तू पशु है, कौन तुझे चाहती है ? कौन देखती है ? नारी तो मांस और हड्डीसे बनी है, वह न देखती है, न चाहती है, देखना तो अमूर्त पुरुषका कार्य है ॥ १० ॥ प्रतीहारी—आप इधर पधारें । ( दोनों जाते हैं ) प्रतीहारी—ये महाराज उपस्थित हैं, आप उनके पास चलें । वस्तुविचार—( समीप जाकर ) जय हो जय हो महाराजकी । यह वस्तुविचार प्रणाम करता है । राजा—यहाँ बैठिये ।
चतुर्थोऽङ्कः । १४५
वस्तुविचारः—( उपविश्य ) देव, एष ते किंकरः संप्राप्तः, आज्ञयानु- गृह्यताम् । राजा—महामोहेन सहास्माकं संप्रवृत्तः सङ्ग्रामः। तदत्र कामस्तस्य प्रथमो वीरः । तस्य च प्रतिवीरतयास्माभिर्भवान्निरूपितः । वस्तुविचारः—धन्योऽस्मि । येन स्वामिनाहमेवं संभावितः । राजा—अथ कया शस्त्रविद्यया भवान्कामं जेष्यति । वस्तुविचारः—आः पञ्चशरः कुसुमधन्वा कामो जेतव्य इत्यत्रापि शस्त्रग्रहणापेक्षा । पश्य—
किङ्करः-भृत्यः । 'किङ्कुर्यामिति यः पृच्छेत् तमाहुः किङ्करं बुधाः' इति स्मर- णात् स्फोटोऽस्य व्युत्पत्तिलभ्योऽर्थः । सम्प्राप्तः-आगतः आज्ञयाऽनुगृह्यताम्-आदेश- प्रदानेन कृतार्थ्यताम् । अस्माकम्-विवेकादीनाम् । सम्प्रवृत्तः-प्रारब्धः । सङ्ग्रामः-युद्धम् । तस्य महामोहस्य प्रथमो वीरः-मुख्यो योधः । प्रतिवीरतया-प्रतियोधभावेन भवान्- वस्तुविचारः । निरूपितः-निर्वाचितः । एवं सम्भावितः-कामेन सह योद्धुं वृतः । योद्धारो हि बलवता रिपुणा सह युद्धा- वसरलाभमुत्सवं मन्यन्ते, अत एव वस्तुविचारस्येदमुक्तिः । कया शस्त्रविद्यया-केन शस्त्रप्रयोगेण । जेष्यति-अभिभविष्यति । पञ्चशरः-पञ्चैव शरा यस्य सः पञ्चशरः । बाणाल्पता जेयतां ध्वनयति । नन्वेक- मेव वीर्यवदस्त्रं तस्यापराजयेतां प्रत्याययेत्तत्राह-कुसुमधन्वेति० शस्त्रग्रहणापेक्षा शस्त्रप्रयोगावश्यकता । नास्ति तादृगल्पवीर्यस्य कामस्य जयाय शस्त्रप्रयोगस्यावश्य- कता, मयोपायेनैव तज्जयस्य कर्तुं शक्यत्वादिति भावः ।
वस्तुविचार—( बैठकर ) देव, आपका यह दास उपस्थित है, आज्ञा देकर अनु- गृहीत करें । राजा—महामोहके साथ हमारा युद्ध छिड़ गया है, उसमें काम उसका मुख्य योद्धा है, उसका प्रतियोद्धा हमने आपको चुना है । वस्तुविचार—मैं धन्य हूँ । जिसे स्वामीने इस प्रकार सम्मानित किया है । राजा—आप किस शस्त्रविद्यासे कामको जीतेंगे ? वस्तुविचार—पञ्चशर और पुष्पचाप कामको जीतना है इसमें शस्त्रकी क्या आव- श्यकता है ? देखिये— १० प्र० च०
दृढतरमपिधाय द्वारमारात्कथंचि- त्स्मरणमपरिवृत्तौ दर्शने योषितां च । परिणतिविरसत्वं देहबीभत्सतां वा प्रतिमुहुरनुचिन्त्योन्मूलयिष्यामि कामम् ॥ ११ ॥ राजा—साधु साधु । वस्तुविचारः—अपि च— विपुलपुलिनाः कल्लोलिन्यो नितान्तपतज्झरी- मसृणितशिलाः शैलाः सान्द्रद्रुमा वनभूमयः । यदि शमगिरो वैयासिक्यो बुधैश्च समागमः क्व पिशितवसामय्यो नार्यस्तथा क्व च मन्मथः ॥ १२ ॥ दृढतरमिति० आरात् समीपे अविलम्बेनेति तात्पर्यम् योषितां स्त्रीणाम् दर्शने अवलोकने च अपरिवृत्तौ ततोऽपरावर्त्तने तदासक्तावित्यर्थः द्वारम् मार्गभूतम् स्मर- णम् कथञ्चित् केनापि प्रकारेण दृढतरम् अतिदृढभावेन अपिधाय मुद्रयित्वा परिणति- विरसत्वम् सम्भोगान्तकाले वैरस्यावहत्वं वार्द्धके वा तथात्वम्, देहबीभत्सताम् नारी- देहस्य मलमूत्राद्याविलत्वं वा प्रतिमुहुः भूयः अनुचिन्त्य भावयित्वा कामम् काम- विकारम् उन्मूलयिष्यामि नाशयिष्यामि, अनतिविलम्बेनैवाहं स्त्रीणां दर्शने तदा- सक्तौ च मार्गभूतं स्मरणमतिदृढभावेन विधास्यामि, तदनन्तरं च परिणामवैरस्य- देहबीभत्सताद्यनुभावनेन कामस्यात्यन्तिकमुच्छेदं विधास्यामीत्यर्थः । अधिबलं वृत्तम्, तल्लक्षणं यथा-‘तोटकस्याप्यथा वाच्यं ब्रुवतेऽधिबलं बुधाः ॥ ११ ॥ विपुलपुलिना इति० यदि विपुलपुलिनाः विस्तारिततटभूमयः कल्लोलिन्यः नद्यः, नितान्तं बहुलं पतन्तीभिः स्खलन्तीभिः झरीभिः निर्झरैः मसृणिताः स्निग्धतां प्रापिताः शिलाः प्रस्तरखण्डाः येषाम् तादृशाः पतन्निर्झरस्निग्धाः शैलाः पर्वताः, सान्द्रद्रुमाः घनवृक्षमालापरीता वनभूमयः काननभुवः वैयासिक्यः व्यासप्रोक्ताः शमगिरः शान्तिकथाः, बुधैः पण्डितैश्च समागमः मिलनम्, ( स्युः ) ( तदा ) किसी प्रकारसे स्मरणरूप द्वारको दृढ रूपसे मूंद कर स्त्रियोंमे आसक्ति छोड़कर, उनके दर्शनमें प्रतिक्षण उनके सम्भोगको परिणतिविरसता तथा देहकी बीभत्सताका विचार करके कामको उन्मूलित कर दूंगा ॥ ११ ॥ राजा—साधु साधु । वस्तुविचार—और—यदि चौड़े तटवाली नदियाँ, वर्षाके जलसे चिकनी शिला वाले पर्वत, घना झाड़ोंवाले वनस्थल और व्यासकी शान्तिमयी वाणी है तो फिर मांसवसामयी स्त्रिया और काम क्या करेंगे ॥ १२ ॥
चतुर्थोऽङ्कः १४७ नारीति नाम प्रधानमङ्गं कामस्य । तेन तस्यां जितायां तत्सहायाः सर्व एव विफलारम्भा भङ्गमासादयिष्यन्ति । तथाहि— चन्द्रश्चन्दनमिन्दुधामधवला रात्रिर्द्विरेफावली- झङ्कारोन्मुखरा विलासविपिनोपान्ता वसन्तोदयः । मन्द्रध्वानघनोदयाश्च दिवसा मन्दाः कदम्बानिलाः शृङ्गारप्रमुखाश्च कामसुहृदो नार्यां जितायां जिताः ॥ १३ ॥ तदलमतिविलम्बेन । आदिशतु स्वामी । पिशितवसामय्यः मांसमज्जप्रचुराः नार्यः स्त्रियः क्व तथा मन्मथश्च क्व ? नामुयोः कोऽपि प्रभावः स्यादिति भावः । विपुलपुलिनकल्लोलिनीलाभाद्-विविक्ततया चित्त- स्थैर्यम् , निर्झरस्निग्धशिलोपलब्ध्या विचारभूमिप्राप्तिः, सान्द्रद्रुमवनभूमिलाभाज्जी- वनौपयिकफलाहरणसंभावना, वैयासिकीनां शमगिरां लाभाच्छ्रवणोत्तरभाविचिन्त- नावसरप्राप्तिः, बुधैः समागम इति जायमानशङ्काभ्युदारास्तदेवं स्थितौ कामस्य कामिन्या वा प्रभावो न प्रसर्तुमर्ह इति भावः । हरिणीवृत्तम् ॥ १२ ॥ प्रधानम्-मुख्यम् । तस्याम्-नार्याम् । तत्सहायाः-कामस्य पोषकाः । विफला- रम्भाः-निष्फलप्रयासाः । भङ्गम्-पराजयम् । आसादयिष्यन्ति-प्राप्स्यन्ति । चन्द्र इति० चन्द्रः शशी, चन्दनम् आलेपनम् , इन्दुधामधवला रात्रिः चन्द्र- किरणोज्ज्वला निशा, झङ्कारोन्मुखरा झङ्कारपरायणा द्विरेफावली भ्रमरमाला, विलासविपिनोपान्ताः क्रीडाकाननपरिसराः, वसन्तोदयः मधुसमयसमागमः, मन्द्र- ध्वानघनोदयाः गभीरशब्दयुतमेघश्यामाः दिवसाः, मन्दाः मन्थरचारिणः कदम्बा- निलाः कदम्बवनवायवः, शृङ्गारप्रमुखाः शृङ्गारो वेशभूषादिरतत्प्रधानाः (काम- सहायाः) नार्यां स्त्रियाम् जितायां परास्तायाम् जिताः परास्ताः । आलम्बने जिते उद्दीपनानां निरालम्बनतयैव जेयत्वादिति भावः ॥ १३ ॥ अतिविलम्बेन-कालक्षेपेण । नारी ही कामका प्रधान अङ्ग है । नारीको जीतलें तो सभी उसके सहायक विफल प्रयास होकर हार मानेंगे । क्योंकि— चन्द्रमा, चन्दन, चांदनी रातें, भ्रमरमुखरित विलासवनका प्रान्त, वसन्तोदय, घन- गर्जनयुक्त दिवस, कदम्बाकार वायु, शृङ्गार प्रमुख कामके मित्र नारीको जीतनेसे जीत लिये जाते हैं ॥ १३ ॥ इसलिये अधिक विलम्ब करनेकी आवश्यकता नहीं है । महाराज आज्ञा दें ।
४. चतुर्थ अङ्क: विवेक-उद्यम एवं यम-नियम सेना-संग्रह
१४८ प्रबोधचन्द्रोदयम् सोऽहं प्रकीर्णैः परितो विचारैः शरैरिवोन्मथ्य बलं परेषां । सैन्यं कुरूणामिव सिन्धुराजं गाण्डीवधन्वेव निहन्मि कामम् ॥ १४ ॥ राजा—( सप्रसादम् ) तत्सज्जीभवतु भवाञ्छत्रुविजयाय । वस्तुविचारः—यदादिशति देवः । ( इति प्रणम्य निष्क्रान्तः ) राजा—वेत्रवति, क्रोधस्य विजयाय क्षमैवाहूयताम् । प्रतीहारी—यद्देव आज्ञापयति । ( जं देवो आणवेदि ) ( इति निष्क्रम्य क्षमया सह प्रविशति ) क्षमा— क्रोधान्धकारविकटभ्रुकुटीतरङ्ग- भीमस्य सान्ध्यकिरणारुणरौद्रदृष्टेः । सोऽहमिति० सोऽहम् वस्तुविचारः परितः प्रकीर्णैः वेदशास्त्रपुराणेतिहासादौ व्यस्त- भावेन स्थितैः विचारैः परेषां कामादिजेतव्यानाम् बलम् सामर्थ्यम् उन्मथ्य विद्राव्य गाण्डीवधन्वा अर्जुनः शरैः बाणैः परेषां कौरवाणाम् सैन्यम् ( उन्मथ्यैव ) सिन्धुराजम् इव कामम् निहन्मि । यथाऽर्जुनः प्रतिज्ञातजयद्रथवधः सन् बाणैः शत्रुसैन्यमुन्मथ्य तद्दिने एव तमवधीत्तथैवाहं वस्तुविचारो यत्र तत्र व्यस्तभावेन स्थितैः विचारैः कामस्य सैन्यं विद्राव्य तमद्यैव नाशयामीति भावः ॥ १४ ॥ सज्जीभवतु-सन्नद्धोऽस्तु । क्रोधान्धेति० क्रोधरूपो योऽन्धकारस्तेन विकटा भयजननी या भ्रुकुटी भ्रूको- शरतुल्य बिखरे हुए विचारोंसे शत्रुसेनाको मथित करके , कुरुसेनाको मथकर अर्जुनने जैसे जयद्रथको मारा था उसी तरह कामको मारता हूँ ॥ १४ ॥ राजा—( प्रसन्नतासे ) आप शत्रुसंहारार्थ तैयार हो जांय । वस्तुविचार—महाराजकी जो आज्ञा । ( प्रणाम कर चला जाता है ) राजा—वेत्रवति, क्रोधकी विजय के लिये क्षमा को ही बुलालाओ । वस्तुविचार—महाराजकी जो आज्ञा । ( जाकर फिर क्षमाके साथ प्रवेश करता है ) क्षमा—दुश्मन क्रोधसे भौंहें टेढ़ी करके भयानक चेहरा बनाये हो, उसकी आँखें
चतुर्थोऽङ्कः १४६ निष्कम्पनिर्मलगभीरपयोधिधीरा धीराः परस्य परिवादगिरः सहन्ते ॥ १५ ॥ (सश्लाघमात्मानं निर्वर्ण्य) अहो, अहम् । क्लमो न वाचां शिरसो न शूलं न चित्ततापो न तनोर्विमर्दः । न चापि हिंसादिरनर्थयोगः श्लाघ्या परं क्रोधजयेऽहमेका ॥ १६ ॥ (इत्युभे परिक्रामतः) टिल्यम् सैव तरङ्गः तेन भीमस्य भयङ्करस्य सान्ध्यकिरणारुणरौद्रदृष्टेः सायङ्कालिक- सूर्यकराभक्त्वेपरक्तनयनस्य परस्य परिवादगिरः अधिक्षेपवचनानि निष्कम्पनिर्मल- गम्भीरपयोधिधीराः शान्तस्वच्छातलसागरवद्धैर्यवन्तः वीराः परापमानसहनक्षम- त्वात् वीराः इव सहन्ते क्षमन्ते । क्रोधिनो रक्ताक्षस्य शत्रोरधिक्षेपवचनानि ते वीरा एव सहन्ते ये सागरवद्गभीरा भवन्तीति भावः । उक्तश्चायमेवार्थः प्रकारान्तरेण विष्णुशर्मणा—'न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया' इति ॥ १५ ॥ क्लमो नेति० वाचाम् वाग्व्यापाराणाम् क्लमः ग्लानिः न, शिरसः शूलम् शिरो- व्यथा न, चित्ततापः मानसिकः क्लेशः न, तनोर्विमर्दः अङ्गभङ्गः न, हिंसादिः अनर्थ- योगः कुकृत्यसंबन्धः अपि न, (एवम्) एका सहायान्तरनिरपेक्षा अहम् क्षमा क्रोधजये क्रोधोपरि विजये परम् अत्यर्थम् श्लाघ्या । अन्यत्र जये तदुद्योगे वाग्व्या- पारेण महती ग्लानिर्भवति, शिरो व्यथते, मनस्ताप उपजायते, शरीरमर्दश्च प्रादु- र्भास्ते, हिंसा च कर्त्तव्या भवति, परं श्लाघ्याहं क्षमा यथा क्रोधे जितेनैषां दोषाणां स्पर्शोऽपीति भावः ॥ १६ ॥ सायकालिक सूर्यके सदृश रक्त वर्ण हों, फिर भी उसके क्रोध युक्त वचनोंको निस्तरङ्ग समुद्रकी तरह धीर रहने वाले वीर सहन करते हैं ॥ १५ ॥ (गौरवसे अपनी ओर देखकर) अहो, धन्य हू मै । न वचनको तकलीफ देनी पडती है, न माथा दुखाना पडता है, न हृदयको सन्ताप, न देह को कष्ट और न हिंसादि अनर्थसे योग, फिर भी मै क्रोधपर विजय प्राप्त करनेके कारण श्लाघ्य हूं ॥ १६ ॥ (दोनोंका प्रस्थान)
१५० प्रबोधचन्द्रोदयम् प्रतीहारी—एष देवः। तदुपसर्पतु प्रियसखी। (एसो देवो। ता उव- सप्पदु पिअसही) क्षमा—(उपसृत्य) जयतु जयतु देवः। एषा देवस्य दासी क्षमा साष्टाङ्गं प्रणमति। राजा—क्षमे, अत्रोपविश्यताम्। क्षमा—(उपविश्य) आज्ञापयतु देवः। किमर्थमाहूतो दासीजनः। राजा—अस्मिन् सङ्ग्रामे दुरात्मा क्रोधस्त्वया जेतव्यः। क्षमा—देवस्याज्ञया महामोहमपि जेतुं पर्याप्तास्मि कि पुनः क्रोधं तनुचरमात्रम्। तदहमचिरादेव— तं पापकारिणमकारणबाधितारं स्वाध्यायदेवपितृयज्ञतपःक्रियाणाम्। क्रोधं स्फुलिङ्गमिव दृष्टिभिरुद्धमन्तं कात्यायनीव महिषं विनिपातयामि ॥ १७ ॥ उपसर्पतु-समीपमुपैतु। किमर्थम्-केनोद्देश्येन। आहूतः-आकारितः। देवस्य-भवतः। पर्याप्ता-क्षमा। तदनुचरमात्रम्-केवलं मोहभृत्यम्। अचि- रात्-शीघ्रम्। त पापेति० पापकारिणम् दुराचारपरायणम् स्वाध्यायदेवपितृयज्ञतपःक्रियाणाम् वेदाध्ययनदेवयज्ञस्वरूपज्योतिष्टोमादिपितृयज्ञरूपश्राद्धादितपस्यानाम् अकारणबा- धितारम् अहेतुकविरोधिनम् दृष्टिभिः नयनव्यापारैः स्फुलिङ्गमग्निकणम् उद्ध- प्रतीहारी—ये महाराज हैं, सखि, उनके पास जाओ। क्षमा—(समीप जाकर) जय हो, जय हो, महाराज की। श्रीमान् की दासी यह क्षमा साष्टाङ्ग प्रणाम करती है। राजा—क्षमे, यहाँ बैठो। क्षमा—(बैठकर) महाराज, आदेश दें, इस दासीको क्यों बुलाया गया है। राजा—इस युद्धमें दुरात्मा क्रोधको तुम जीतना। क्षमा—महाराजकी आज्ञासे महामोहको भी जीत सकती हूँ उसके अनुचर क्रोधकी क्या बात? अतः मैं शीघ्र ही— अकारण कष्ट देने वाला, पापकारी, स्वाध्याय, देवयज्ञ और पितृयज्ञ आदिके विरोधी,
चतुर्थोऽङ्कः १५१ राजा—क्षमे, शृणुमस्तावत्क्रोधविजयोपायम् । क्षमा—देव, विज्ञापयामि । क्रुद्धे स्मेरमुखावधीरणमथाविष्टे प्रसादक्रमो व्याक्रोशे कुशलोक्तिरात्मदुरितोच्छेदोत्सवस्ताडने । धिग्जन्तोर्जितात्मनोऽस्य महती दैवादुपेता विपद्- दुर्वारैति दयारसार्द्रमनसः क्रोधस्य कुत्रोदयः ॥ १८ ॥ राजा—साधु साधु । मन्तम् प्रकिरन्तम् क्रोधम् कात्यायनी गौरी महिषम् तन्नामकमसुरविशेषम् इव विनिपातयामि मारयामि । यथाऽकारणं वेदाध्ययनं ज्योतिष्टोमादिदेवयज्ञं श्राद्धादि- पितृयज्ञं तपस्याचरणञ्च बाधमानं दुराचारं रक्ताक्षं महिषासुरं कात्यायनी हतवती तथाऽहममं क्रोधं हन्मीति भावः । उपमाऽलङ्कारेणाकष्टघात्यताध्वनिः ॥ १७ ॥ क्रोधविजयोपायम्—क्रोधस्त्वया केन विधिना जेय्यते तं विधिं शृणुम इत्यर्थना । क्रुध इति० क्रुद्धे सामान्यतः कुपिते स्मेरमुखावधीरणम् सहास्यमुखेन तत्क्रोधावज्ञा अथ आविष्टे समधिककोपभाजिजने प्रसादक्रमः तत्प्रसादनपरिपाटी, व्याक्रोशे गालि- प्रदाने कुशलोक्तिः कल्याणकामनाप्रकाशः, ताडने क्रुद्धजनककृते प्रहारे आत्मदुरितो- च्छेदोत्सवः मदीयानि पापान्यनेन स्वया कृतेन ताडनेन नष्टानीत्युत्सवप्रदर्शनम् , अस्य क्रोधाश्रयस्य अजितात्मनः अवशेन्द्रियस्य दैवात् भाग्यदोषात् महती दीर्घा दुर्बारा असुखापास्या विपत् उपेता प्राप्ता, धिक् कष्टम् , इति एवं दयारसार्द्रमनसः क्रोधिनं प्रति दयालुहृदयस्य ( पुरः ) क्रोधस्य उदयः प्रकाशीभावः कुत्र ? न कुत्रा- पीत्यर्थः । यदि क्रोधान्धं प्रति प्रोक्तप्रकारेण व्यवह्रियते तदा तस्य क्रोधोऽवश्यमेव विलयं गच्छेदिति तात्पर्यम् ॥ शार्दूलविक्रीडितं वृत्तम् ॥ १८ ॥ दृष्टिसे स्फुलिङ्ग वर्षण करने वाला, इस क्रोधको कात्यायनी ने जिस प्रकार महिषासुरका वध किया था उसी प्रकार मार भगाती हूँ ॥ १७ ॥ राजा—क्षमे, तुमने क्रोधको जीतनेका क्या उपाय सोचा है, सुनूं तो । क्षमा—देव, विज्ञापित करती हूँ । क्रोधीके प्रति हंसकर उपेक्षा करना, आवेशवालेके प्रति प्रसन्नता दिखाना, गाली देने वालोंसे कुशल प्रश्न, मारने पर यह समझना कि हमारा पाप कटा, इसतरह दयायुक्त हृदयमें क्रोधका उदय कहाँसे होगा वह तो यही समझा करेगा कि यह प्राणी अजितात्मा है इसे भाग्य ने यह बड़ी-सी विपत्ति दी है ॥ १८ ॥ राजा--साधु साधु ।
१४२ प्रबोधचन्द्रोदयम् क्षमा—देव, क्रोधस्य विजयादेव हिंसापारुष्यमानमात्सर्यादयोऽपि विजिता एव भविष्यन्ति । राजा—तत्प्रतिष्ठतां भवति विजयाय । क्षमा—यदाज्ञापयति देवः । ( इति निष्क्रान्ता ) राजा—( प्रतीहारीं प्रति ) वेदवति, आहूयतां लोभस्य जेता संतोषः । प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि ) ( इति निष्क्रम्य संतोषण सह प्रविशति ) संतोषः—( विचिन्त्य सानुक्रोशम् ) फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी हिंसा-वधोद्योगः, पारुष्यम्-कठोरता, मानः-दर्पः, मात्सर्यम्-परगुणासहिष्णुता । सर्वेषाममीषां क्रोधमूलतया कारणनाशे कार्यनाशनियमात् क्रोधे जिते तेषामपि जयो जात एवेति भावः । फलमिति० प्रतिवनम् सर्वेषु वनेषु अखेदम् विनाऽऽयासम् स्वेच्छालभ्यम् यदृच्छा- प्राप्यम् क्षितिरुहाम् वृक्षाणाम् फलम् (एतेनाहारचिन्तानिरासः) स्थाने स्थाने यत्र तत्र पुण्यसरिताम् पवित्रसरोवराणाम् शिशिरमधुरम् शीतलं मिष्टञ्च पयः जलं (एतेन पेय- जलचिन्तानिवृत्तिः) सुललितलतापल्लवमयी मनोज्ञवल्ली किसलयनिर्मिता मृदुस्पर्शा कोमला शय्या शयनभूमिः ( एतेनावासचिन्ताव्युदासः) (एवमाहारस्य पेयस्या- क्षमा—देव, क्रोधपर विजय पालेनेसे ही हिंसा, पारुष्य, मान, मात्सर्य आदि भी विजित हो जाते हैं । राजा—तब आप विजयके लिये प्रस्थान करें । क्षमा—जैसी आज्ञा महाराज की । ( जाती है ) राजा—( प्रतीहारीसे ) वेदवति, लोभके विजेता सन्तोषको बुलाओ । प्रतीहारी—महाराजकी जैसी आज्ञा । ( जाकर सन्तोषके साथ पुनः प्रवेश करती है ) सन्तोष—( सोचकर, खेदके साथ ) प्रत्येक वनमें वृक्षोंके फल बिना यत्नसे मिल जाते हैं, पुण्य नदियोंके मधुर-शीतल जल, प्रत्येक स्थानपर मिलता है । लतापल्लवनिर्मित
चतुर्थोऽङ्कः १५३ सहन्ते संतापं तदपि धनिनां द्वारि कृपणाः ॥ १९ ॥ ( आकाशे ) अरे मूर्ख, लुब्ध, दुरुच्छेदः खल्वयं भवतो व्यामोहः । तथाहि— समारम्भा भग्नाः कति कति न वारांस्तव पशो पिपासोस्तुच्छेऽस्मिन्द्रविणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते मूढ शतधा विदीर्णं यच्चेतो नियतमशनिग्रावघटितम् ॥ २० ॥ वासस्य च चिन्तायां निवृत्तायामपि ) कृपणाः दयनीया इमे वराकाः तदपि तथापि धनिनां द्वारि सन्तापं तत्कृतापमानजन्यपरितापं सहन्ते भुञ्जते । आश्चर्यमिदं यदमी वराका निर्वाहसाधनेऽक्लेशमासाद्यमानेऽपि धनिकद्वारि धनाशया तत्कृतमपमानं सोढुमवतिष्ठन्त इति भावः । शिखरिणीवृत्तम् , लक्षणं प्रागुक्तम् ॥ १९ ॥ मूर्ख-अज्ञान, लुब्ध-लोभग्रस्त, दुरुच्छेदः-छेत्तुमशक्यः, व्यामोहः-भ्रमः । समारम्भा इति० पशो अज्ञानपराहत अस्मिन् द्रविणमृगतृष्णार्णवजले धनमृग- मरीचिकासागरसलिले पिपासोः पातुमिच्छोः तव भ्रान्तस्य समारम्भाः प्रयासाः कति कति वारान् कतिधा न भग्नाः विफलतां गताः, इदं धनमृगतृष्णाजलं तृप्ति- साधनं मत्वा तत्पाने प्रवृत्तस्य भ्रान्तरय तव प्रयासाः कतिधा न विफलतां गताः ? अनेकेषु प्राग्जन्मसु त्वमिदं मृगतृष्णाजलं पीत्वा तृप्तिं कामयमानः प्रायस्थोऽथापि तव तृप्तिर्नाभूत्तस्य मिथ्यात्वेन तृप्तिकार्याक्षमत्वादित्याशयः । तथाऽपि वैफल्यस्या- नेकशोऽनुभूतत्वेऽपि, मूढ-अज्ञानपराहत, ते तव प्रत्याशा प्रचुरद्रव्यावाप्त्यभिलाषः न विरमति न निवर्त्तते, यत् चेतः तव हृदयम् शतधा न विदीर्णम् विशीर्णम् ( तत् तव हृदयम् ) नियतम् निश्चयेन अशनिग्रावघटितम् वज्रशिलानिर्मितम् । अन्य- थैतादृशपुनःपुनर्जायमानप्रवृत्तिव्यासङ्गं प्राप्य न स्थिरं तिष्ठेदित्याशयः । वृत्तमनु- पद्मेवोक्तम् ॥ २० ॥ सुखद शय्या सर्वत्र सुलभ है, फिर भी कृपणजन धनिकोंके दरवाजे पर सन्ताप सहा करते है ॥ १९ ॥ ( आकाशमें ) अरे मूर्ख लुब्ध, तुम्हारा यह भ्रम दुरुच्छेद है, क्योंकि— धनमृगतृष्णाजलसे प्यास बुझाने की तुम्हारी चेष्टा कितनी बार व्यर्थ हो चुकी है फिर भी तुम्हारी आशा नहीं छूटती । अरे मूढ, यदि इससे तुम्हारा हृदय नहीं फटा तो निश्चय यह वज्रसे बना है ॥ २० ॥
१५४ प्रबोधचन्द्रोदयम् इदं च ते लोभान्धस्य चेष्टितं चेतसि चमत्कारमातनोति । यतः— लभ्यं लब्धमिदं च लभ्यमधिकं तन्मूललभ्यं ततो लब्धं चापरमित्यनारतमहो लब्धं धनं ध्यायसि । नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बला- त्सर्वग्रासमियं ग्रसिष्यति महालोभान्धकारावृतम् ॥२१॥ अपि च— धनं तावल्लब्धं कथमपि तवाप्यस्य नियते व्यये वा नाशे वा तव सति वियोगोऽस्त्युभयथा । अनुत्पादः श्रेयान्किमु कथत पथ्योऽथ विलयो लोभान्धस्य-लुब्धस्य । चेष्टितम्-व्यापारः । चेतसि-मम चित्ते । चमत्कारमात- नोति-आश्चर्यं जनयति । लभ्यमिति० लब्धं लभ्यम् प्राप्यमधिगतम्, इदञ्च अधिकं तत्कुसीदरूपम् लभ्यम्, तस्मिं कुसीदे लब्धे तन्मूललभ्यं तन्मूलधनं कृत्वा ततः प्राप्यं कुसी- दान्तरमपरं लब्धम्, इति एवं प्रकारेण अनारतं सततं धनं ध्यायसि चिन्तयसि । अहो आश्चर्यमिदम् । एतत् वक्ष्यमाणम् पुनः न वेत्सि न जानासि यत् इयम् आशा पिशाची धनप्राप्त्याशारूपा राक्षसी महालोभान्धकारावृतम् सातिशयलोभतमश्छन्नम् भवन्तम् बलात् बलपूर्वकम् अचिरात् शीघ्रम् सर्वग्रासं ग्रसिष्यति निःशेषं कवल- यिष्यति । त्वं तु धनस्यार्जने प्रकारभेदं चिन्तयंस्तथा लोभान्धतमसावृत्तोऽसि यथा भाविनमात्मनो नाशं न विभावयसि, तदतिमन्दोऽसीति भावः ॥ २१ ॥ धनमिति० धनं तावत् कथमपि केनाप्युपायेन लब्धम् प्राप्तम्, तथापि अस्य धनस्य नियते अवश्यभाविनि व्यये उपयोगजनिते क्षये नाशेऽपहारादिकृते वाऽपगमे सति जायमाने उभयथा प्रकारद्वयेन तव अर्जयितुः तेन धनेन वियोगः पृथग्भावः अस्ति । प्राप्तस्य धनस्य द्वयीगतिर्व्ययो नाशो वा, तत्रोभयथाऽपि तेन सह भवतो वियोगो भवेदित्यर्थः । (तत्र पृच्छ्यसे) कथय अभिधेहि (अर्थस्य) किम् अनुत्पादः अलाभः श्रेयान् श्रेष्ठः अथवा विलयः नाशः पथ्यः हितः, (धनस्य नाशान्- तुम लोभान्ध हो तुम्हारा यह व्यापार हृदयसे चमत्कार पैदा करता है । क्योंकि— यह धन पा लिया, यह पाना है, इससे अधिक मूललभ्य है, अनन्तर यह मिला, इस लब्ध धनका ध्यान किया करते हो । यह नही समझते कि तुमको आशापिशाची बलपूर्वक ग्रस लेगी क्योंकि तुम लोभान्धकारसे घिरे हुए हो ॥ २१ ॥ और—यदि धन किसीतरह पा लिया तो उसका व्यय अथवा नाश निश्चित है, उभयथा उससे तुमको विछुड़ना है । इस दशामे धनका नहीं पैदा करना ही अच्छा है । विनाश
चतुर्थोऽङ्कः १५५ विनाशो लब्धस्य व्यथयतितरां न त्वनुदयः ॥ २२ ॥ किञ्च— मृत्युर्नृत्यति मूर्ध्नि शश्वदुरगी घोरा जरारूपिणी त्वामेषा ग्रसते परिग्रहमयैर्गृध्रैर्जगद्ग्रस्यते । धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः संतोषामृतसागराम्भसि मनाङ्मग्नः सुखं जीवति ॥ २३ ॥ प्रतीहारी—एष स्वामी । तदुपसर्पतु महाभागः । (एसो सामी । ता उवसप्पदु महाभाओ ) ( तथा कृत्वा ) संतोषः—जयतु जयतु स्वामी । एष संतोषः प्रणमति । त्पाद्योः कस्य श्रेष्ठतेति ब्रूहि ) ( परमार्थे तु विचार्यमाणे धनस्यानुत्पाद एव श्रेयान् यतः ) लब्धस्य विनाशः क्षयः व्यथयति क्लेशयति अनुदयोऽर्थस्यानधिगमस्तु न, तेन वृथा तदर्जनचिन्तयाऽऽत्मपातनमसम्भवी धनवियोगनिरोध इति तात्पर्यम् ॥२२॥ मृत्युरिति० शश्वत् सततम् मूर्ध्नि मस्तके मृत्युः मरणम् नृत्यति आयुरनियत- मिति सदैव मृत्युभयमस्त्येवेत्यर्थः । एषा जरारूपिणी वार्धक्यस्वरूपा घोरा भयङ्करी उरगी सर्पिणी त्वां ग्रसते गिलति, प्रतिदिनं वार्धक्यसर्पिण्या मुखं पदात्पदमुपसर्प- सीत्याशयः । परिग्रहमयैः दानप्रचुरैः स्त्रीपुत्रादिरूपैः गृध्रैः लोभशालित्वसाम्याद्गृ ध्रोपमैः जगद् ग्रस्यते भक्ष्यते । ( तदेवं स्थितौ ) तत् तस्मात् बोधजलैः ज्ञान- वारिभिः अबोधबहुलम् अज्ञानविजृम्भितम् लोभजन्यम् लोभोद्भवम् रजः मालिन्यम् धूत्वा अपसार्य सन्तोषामृतसागराम्भसि सन्तोषसुधासिन्धुवारिणि मनाक् सकृत् मग्नः सुखं जीवति । मृत्योरपरिहार्यतया जरायाः क्रमशः सन्निधानेन पुत्रादिद्वारक- धनापहारप्रभवक्लेशसंभावनया च ज्ञानी लोभं विधूय सन्तोषमालम्बेत, तदेव वरं यन्न नास्ति किमपि भयमिति तात्पर्यम् ॥ २३ ॥ नही, क्योंकि नहीं होना उतना कष्टकर नहीं जितना कि विनाश है ॥ २२ ॥ और—मौतरूपी नागिन सिरपर नाच रही है, भयानक जरा तुम्हें ग्रस्त कर रही है, गृध्रतुल्य पुत्र कलत्र आदि संसारको ग्रस्त कर रहे हैं । ऐसी स्थितिमें ज्ञान जलसे अज्ञान- मय लोभ रजको धोकर संतोषरूप अमृतके समुद्रमें डुबकी लगाओ, सुखसे जियो ॥ २३ ॥ प्रतीहारी—ये महाराज हैं, समीप चलें । ( समीप जाकर ) सन्तोष—जय हो जय हो महाराज की । यह सन्तोष प्रणाम करता है ।
१५६ प्रबोधचन्द्रोदयम्
राजा—इहोपविश्यताम् । ( इति स्वसंनिधावुपवेशयति ) संतोप:—( सविनयमुपविश्य ) एष प्रेष्यजनः । आज्ञाप्यतां देवेन । राजा—विदितप्रभाव एव भवान् । तदलमात्र विलम्बेन । लोभं जेतुं वाराणसीं प्रतिष्ठीयताम् । संतोषः—यदाज्ञापयति देवः । सोऽहम्— नानामुखं विजयिनं जगतां त्रयाणां देवद्विजातिवधबन्धनलब्धवृत्तिम् । रक्षोधिनाथमिव दाशरथिः प्रसह्य निर्जित्य लोभमवशं तरसा पिनष्मि ॥ २४ ॥ ( इति निष्क्रान्तः ) एष प्रेष्यजनः—दासोऽयमुपस्थितः इत्यर्थः । आज्ञाप्यताम्-आदिश्यताम् । कर्तव्यमिति शेषः, देवेन-भवता । विदितप्रभावः—अवगतपराक्रमः । अलमत्र विलम्बेन-कालक्षेपो वृथा । वारा- णसी-काशी । अत्र वाराणसीमिति द्वितीया प्रतिशब्दमेकमध्याहृत्योपपाद्या । नानामुखमिति० नानामुखम् बहुविषयम् पक्षे दशवदनम् त्रयाणाम् जगताम् विजयिनम् पराक्रमेण दमयितारम् ( इदं पक्षद्वयेऽपि समानम् ) देवाः अमराः द्विजातयो विप्राश्च तेषाम् वधे मारणे बन्धने संयमने च लब्धवृत्तिम् लोभो देवान् विप्रांश्चापि स्वप्रवणीकरणद्वारा वधे बन्धने च योजयति रावणस्तु राक्षसत्वे तेषां वधबन्धनेऽकरोत् । दाशरथिः राम इव अहं सन्तोषः अवशम् किमपि कर्तुमप्रभवन्तं रक्षोधिनाथं रावणमिव लोभं प्रसह्य बलपूर्वकं तरसा वेगेन निर्जित्य पराजित्य पिनष्मि चूर्णयामि । उपमयाऽनया यथा सगोत्रस्य रावणस्य वधः कृतो दाशरथिना तथा सानुबन्धस्य लोभस्य पराजयः सन्तोषेण करिष्यत इति ध्वन्यते ॥ २४ ॥ राजा—यहां बैठो । ( अपने समीप बैठाता है ) सन्तोष—( नम्रतापूर्वक बैठकर ) यह दास उपस्थित है, श्रीमान् आज्ञा दें । राजा—आपके प्रभावको मैं जानता हूं । देर करना व्यर्थ है । लोभको जीतनेके लिये आप वाराणसी जांय । सन्तोष—महाराजकी जो आज्ञा । मैं— नानामुख ( दशमुख-बहुप्रकारक ) त्रिलोकविजयी, देव-द्विजके वधबन्धन आदि व्यापार वाला इस लोभको-रामने रावणको जैसे जीता-वैसे जीतकर पीस दूंगा ॥ २४ ॥ ( जाता है )
चतुर्थोऽङ्कः १५७ ( ततः प्रविशति विनीतवेषः पुरुषः ) पुरुषः—देव, संभृतानि विजयप्रयाणमङ्गलानि । प्रत्यासन्नश्च मौहूर्त्ति- कावेदितः प्रस्थानसमयः । राजा—यद्येवं सेनाप्रस्थानायादिश्यन्तां सेनापतयः । पुरुषः—यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) ( नेपथ्ये ) भोः भोः सैनिकाः, सज्जन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरङ्गाः । कुन्तैर्नीलोत्पलानां वनमिव ककुभामन्तराले सृजन्तः संभृतानि-प्रस्तुतानि । विजयप्रयाणमङ्गलानि-विजययात्रावसरे सन्निधापनीया- नि दधिमत्स्यादिशुभवस्तूनि । प्रत्यासन्नः-समीपमायात: । मौहूर्त्तिकावेदितः-दैवज्ञ- कथितः । प्रस्थानसमयः-यात्राकालः । एवम्-भवदुक्तं यदि सत्यम् तदा । सेनाप्रस्थानाय-बलचलनाय । सेनापतयः- चमूपतयः । सज्जन्तामिति० कुम्भा भित्तय इव कुम्भभित्तयस्ताभ्यश्च्युता ये मदाः दानवारीणि तेषां मदिरा मादकता तयामत्ता उन्मादिता भृङ्गा आलयः यैस्तादृशाः करीन्द्राः सज्जन्ताम् कुथादिपरिधापनभक्तिचित्रणादिविन्यासेन भूष्यन्ताम्, स्यन्दनेषु रथेषु प्रसभं जितः मरुतः वायोश्चण्डवेगः प्रकृष्टो जवो यैस्तादृशा जितवायुवेगाः तुरङ्गाः अश्वाः युज्यन्ताम् यथाविधि बध्यन्ताम्, कुन्तैस्तीक्ष्णाग्रलौहास्त्रविशेषैः ककुभाम् ( नम्रवेशमे पुरुषका प्रवेश ) पुरुष—देव, विजययात्राके सभी मङ्गल कर लिये गये, ज्योतिषी द्वारा कथित प्रस्थान समय समीप आगया । राजा—यदि यह बात है तो सेनाकोप्रस्थापित करने के लिये सेनापतियोंको आदेश दिया जाय । पुरुष—महाराजकी जो आज्ञा । ( जाता है ) ( नेपथ्य में ) अरे ओ सैनिको, कुम्भस्थलसे च्युतमदिरा द्वारा मत्त बनाया है भ्रमरों को जिसने ऐसे मस्त हाथी सजाये जांय, वेगसे हवाको मात देने वाले घोड़े रथमें जोते जायं, भालारूप नील कमल-वन दिगन्तरालमें फैलाकर हाथमें तलवार लिये असवार पैदल
१५८ प्रबोधचन्द्रोदयम् पादाताः संचरन्तु प्रसभमसिलसत्पाणयोऽप्यश्ववाराः ॥२५॥ राजा—भवतु । कृतमङ्गलाः प्रतिष्ठामहे । ( पारिपार्श्वकं प्रति ) सारथि- रादिश्यतां साङ्ग्रामिकं रथं सज्जीकृत्यानयेति । पारिपार्श्वकः—यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) ( ततः प्रविशति यथोक्तं रथमादाय सारथिः ) सारथिः—जीव, सज्जीकृतोऽयं रथः । तदारोहतवायुष्मान् । राजा—( कृतमङ्गलविधिरारोहणं नाटयति ) सारथिः—( रथवेगं निरूपयित्वा ) आयुष्मान् , पश्य पश्य । उद्धूतपांसुपटलानुमितप्रबन्ध- धावत्खुराग्रचयचुम्बितभूमिभागाः । दिशाम् अन्तराले मध्ये नीलोत्पलानाम् इन्दीवराणाम् वनम् सृजन्त इव तीक्ष्ण- कुन्तोच्छ्रयेण दिगन्तरालं नीलकमलव्याप्तमिव दर्शयन्तः पादाताः पदातिबलानि सञ्चरन्तु प्रतिष्ठन्ताम्, असिलसत्पाणयः करवालभूषितहस्ताः अश्ववाराः ह्यारूढाः सैनिका अपि प्रसभम् झटिति सञ्चरन्तु इति अन्वयः । तदेवं चतुरङ्गसेना विजय- प्रयाणं करोत्वित्याशयः । स्रग्धरावृत्तम्—'भ्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा- कीर्त्तितेयम्' इति च तल्लक्षणम् ॥ २५ ॥ कृतमङ्गलाः-विहितप्रास्थानिकमङ्गलकृत्याः । प्रतिष्ठामहे-चलामः । सारथिः-रथ- वाहकः । साङ्ग्रामिकम्-युद्धोपयुक्तम् । सज्जीकृत्य-यथावदावश्यकास्त्रादिना प्रसाध्य । सज्जीकृतः-युक्तरथः कृतः । आरोहतु-रथोपर्य्युपविशतु 'आयुष्मान्' 'रथीसूतेन चायुष्मान् पूज्यः शिष्यात्मजानुजैः' इति नाटकनियमाद्राजानं प्रत्याह । उद्धूतपांसुपटलेति० उद्धूतपांसुपटलेन उत्थितधूलीवितानेन अनुमिताः ज्ञान- प्रस्थान करें ॥ २५ ॥ राजा—अस्तु, मङ्गल अनुष्ठान करके यात्रा करे । ( पार्श्ववर्ती अनुचरके प्रति ), सारथिसे कहो कि जङ्गीरथ सजाकर लावे । पारिपार्श्वक—महाराजकी जो आज्ञा । ( जाता है ) ( यथोक्त रथ लेकर सारथिका प्रवेश ) सारथि—जीव, रथ तैयार है, आप आरूढ हो । राजा—( मङ्गलविधि करके चढनेका अभिनय करता है ) सारथि—( रथके वेगका ध्यान करके ) आयुष्मान् , देखिये, देखिये--- ये घोड़े रथको आकाशमें ढोरहे हैं, इनकी हेषा मध्यमान समुद्रकी ध्वनिका अनु-