प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 166, कुल 274 में से
संदर्भ में पढ़ें१४८ प्रबोधचन्द्रोदयम् सोऽहं प्रकीर्णैः परितो विचारैः शरैरिवोन्मथ्य बलं परेषां । सैन्यं कुरूणामिव सिन्धुराजं गाण्डीवधन्वेव निहन्मि कामम् ॥ १४ ॥ राजा—( सप्रसादम् ) तत्सज्जीभवतु भवाञ्छत्रुविजयाय । वस्तुविचारः—यदादिशति देवः । ( इति प्रणम्य निष्क्रान्तः ) राजा—वेत्रवति, क्रोधस्य विजयाय क्षमैवाहूयताम् । प्रतीहारी—यद्देव आज्ञापयति । ( जं देवो आणवेदि ) ( इति निष्क्रम्य क्षमया सह प्रविशति ) क्षमा— क्रोधान्धकारविकटभ्रुकुटीतरङ्ग- भीमस्य सान्ध्यकिरणारुणरौद्रदृष्टेः । सोऽहमिति० सोऽहम् वस्तुविचारः परितः प्रकीर्णैः वेदशास्त्रपुराणेतिहासादौ व्यस्त- भावेन स्थितैः विचारैः परेषां कामादिजेतव्यानाम् बलम् सामर्थ्यम् उन्मथ्य विद्राव्य गाण्डीवधन्वा अर्जुनः शरैः बाणैः परेषां कौरवाणाम् सैन्यम् ( उन्मथ्यैव ) सिन्धुराजम् इव कामम् निहन्मि । यथाऽर्जुनः प्रतिज्ञातजयद्रथवधः सन् बाणैः शत्रुसैन्यमुन्मथ्य तद्दिने एव तमवधीत्तथैवाहं वस्तुविचारो यत्र तत्र व्यस्तभावेन स्थितैः विचारैः कामस्य सैन्यं विद्राव्य तमद्यैव नाशयामीति भावः ॥ १४ ॥ सज्जीभवतु-सन्नद्धोऽस्तु । क्रोधान्धेति० क्रोधरूपो योऽन्धकारस्तेन विकटा भयजननी या भ्रुकुटी भ्रूको- शरतुल्य बिखरे हुए विचारोंसे शत्रुसेनाको मथित करके , कुरुसेनाको मथकर अर्जुनने जैसे जयद्रथको मारा था उसी तरह कामको मारता हूँ ॥ १४ ॥ राजा—( प्रसन्नतासे ) आप शत्रुसंहारार्थ तैयार हो जांय । वस्तुविचार—महाराजकी जो आज्ञा । ( प्रणाम कर चला जाता है ) राजा—वेत्रवति, क्रोधकी विजय के लिये क्षमा को ही बुलालाओ । वस्तुविचार—महाराजकी जो आज्ञा । ( जाकर फिर क्षमाके साथ प्रवेश करता है ) क्षमा—दुश्मन क्रोधसे भौंहें टेढ़ी करके भयानक चेहरा बनाये हो, उसकी आँखें