भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 174, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 174

१५६ प्रबोधचन्द्रोदयम्

राजा—इहोपविश्यताम् । ( इति स्वसंनिधावुपवेशयति ) संतोप:—( सविनयमुपविश्य ) एष प्रेष्यजनः । आज्ञाप्यतां देवेन । राजा—विदितप्रभाव एव भवान् । तदलमात्र विलम्बेन । लोभं जेतुं वाराणसीं प्रतिष्ठीयताम् । संतोषः—यदाज्ञापयति देवः । सोऽहम्— नानामुखं विजयिनं जगतां त्रयाणां देवद्विजातिवधबन्धनलब्धवृत्तिम् । रक्षोधिनाथमिव दाशरथिः प्रसह्य निर्जित्य लोभमवशं तरसा पिनष्मि ॥ २४ ॥ ( इति निष्क्रान्तः ) एष प्रेष्यजनः—दासोऽयमुपस्थितः इत्यर्थः । आज्ञाप्यताम्-आदिश्यताम् । कर्तव्यमिति शेषः, देवेन-भवता । विदितप्रभावः—अवगतपराक्रमः । अलमत्र विलम्बेन-कालक्षेपो वृथा । वारा- णसी-काशी । अत्र वाराणसीमिति द्वितीया प्रतिशब्दमेकमध्याहृत्योपपाद्या । नानामुखमिति० नानामुखम् बहुविषयम् पक्षे दशवदनम् त्रयाणाम् जगताम् विजयिनम् पराक्रमेण दमयितारम् ( इदं पक्षद्वयेऽपि समानम् ) देवाः अमराः द्विजातयो विप्राश्च तेषाम् वधे मारणे बन्धने संयमने च लब्धवृत्तिम् लोभो देवान् विप्रांश्चापि स्वप्रवणीकरणद्वारा वधे बन्धने च योजयति रावणस्तु राक्षसत्वे तेषां वधबन्धनेऽकरोत् । दाशरथिः राम इव अहं सन्तोषः अवशम् किमपि कर्तुमप्रभवन्तं रक्षोधिनाथं रावणमिव लोभं प्रसह्य बलपूर्वकं तरसा वेगेन निर्जित्य पराजित्य पिनष्मि चूर्णयामि । उपमयाऽनया यथा सगोत्रस्य रावणस्य वधः कृतो दाशरथिना तथा सानुबन्धस्य लोभस्य पराजयः सन्तोषेण करिष्यत इति ध्वन्यते ॥ २४ ॥ राजा—यहां बैठो । ( अपने समीप बैठाता है ) सन्तोष—( नम्रतापूर्वक बैठकर ) यह दास उपस्थित है, श्रीमान् आज्ञा दें । राजा—आपके प्रभावको मैं जानता हूं । देर करना व्यर्थ है । लोभको जीतनेके लिये आप वाराणसी जांय । सन्तोष—महाराजकी जो आज्ञा । मैं— नानामुख ( दशमुख-बहुप्रकारक ) त्रिलोकविजयी, देव-द्विजके वधबन्धन आदि व्यापार वाला इस लोभको-रामने रावणको जैसे जीता-वैसे जीतकर पीस दूंगा ॥ २४ ॥ ( जाता है )

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक) · पृष्ठ 174, कुल 274 में से · BharatKosha