प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 175, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १५७ ( ततः प्रविशति विनीतवेषः पुरुषः ) पुरुषः—देव, संभृतानि विजयप्रयाणमङ्गलानि । प्रत्यासन्नश्च मौहूर्त्ति- कावेदितः प्रस्थानसमयः । राजा—यद्येवं सेनाप्रस्थानायादिश्यन्तां सेनापतयः । पुरुषः—यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) ( नेपथ्ये ) भोः भोः सैनिकाः, सज्जन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरङ्गाः । कुन्तैर्नीलोत्पलानां वनमिव ककुभामन्तराले सृजन्तः संभृतानि-प्रस्तुतानि । विजयप्रयाणमङ्गलानि-विजययात्रावसरे सन्निधापनीया- नि दधिमत्स्यादिशुभवस्तूनि । प्रत्यासन्नः-समीपमायात: । मौहूर्त्तिकावेदितः-दैवज्ञ- कथितः । प्रस्थानसमयः-यात्राकालः । एवम्-भवदुक्तं यदि सत्यम् तदा । सेनाप्रस्थानाय-बलचलनाय । सेनापतयः- चमूपतयः । सज्जन्तामिति० कुम्भा भित्तय इव कुम्भभित्तयस्ताभ्यश्च्युता ये मदाः दानवारीणि तेषां मदिरा मादकता तयामत्ता उन्मादिता भृङ्गा आलयः यैस्तादृशाः करीन्द्राः सज्जन्ताम् कुथादिपरिधापनभक्तिचित्रणादिविन्यासेन भूष्यन्ताम्, स्यन्दनेषु रथेषु प्रसभं जितः मरुतः वायोश्चण्डवेगः प्रकृष्टो जवो यैस्तादृशा जितवायुवेगाः तुरङ्गाः अश्वाः युज्यन्ताम् यथाविधि बध्यन्ताम्, कुन्तैस्तीक्ष्णाग्रलौहास्त्रविशेषैः ककुभाम् ( नम्रवेशमे पुरुषका प्रवेश ) पुरुष—देव, विजययात्राके सभी मङ्गल कर लिये गये, ज्योतिषी द्वारा कथित प्रस्थान समय समीप आगया । राजा—यदि यह बात है तो सेनाकोप्रस्थापित करने के लिये सेनापतियोंको आदेश दिया जाय । पुरुष—महाराजकी जो आज्ञा । ( जाता है ) ( नेपथ्य में ) अरे ओ सैनिको, कुम्भस्थलसे च्युतमदिरा द्वारा मत्त बनाया है भ्रमरों को जिसने ऐसे मस्त हाथी सजाये जांय, वेगसे हवाको मात देने वाले घोड़े रथमें जोते जायं, भालारूप नील कमल-वन दिगन्तरालमें फैलाकर हाथमें तलवार लिये असवार पैदल