प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 169, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १५१ राजा—क्षमे, शृणुमस्तावत्क्रोधविजयोपायम् । क्षमा—देव, विज्ञापयामि । क्रुद्धे स्मेरमुखावधीरणमथाविष्टे प्रसादक्रमो व्याक्रोशे कुशलोक्तिरात्मदुरितोच्छेदोत्सवस्ताडने । धिग्जन्तोर्जितात्मनोऽस्य महती दैवादुपेता विपद्- दुर्वारैति दयारसार्द्रमनसः क्रोधस्य कुत्रोदयः ॥ १८ ॥ राजा—साधु साधु । मन्तम् प्रकिरन्तम् क्रोधम् कात्यायनी गौरी महिषम् तन्नामकमसुरविशेषम् इव विनिपातयामि मारयामि । यथाऽकारणं वेदाध्ययनं ज्योतिष्टोमादिदेवयज्ञं श्राद्धादि- पितृयज्ञं तपस्याचरणञ्च बाधमानं दुराचारं रक्ताक्षं महिषासुरं कात्यायनी हतवती तथाऽहममं क्रोधं हन्मीति भावः । उपमाऽलङ्कारेणाकष्टघात्यताध्वनिः ॥ १७ ॥ क्रोधविजयोपायम्—क्रोधस्त्वया केन विधिना जेय्यते तं विधिं शृणुम इत्यर्थना । क्रुध इति० क्रुद्धे सामान्यतः कुपिते स्मेरमुखावधीरणम् सहास्यमुखेन तत्क्रोधावज्ञा अथ आविष्टे समधिककोपभाजिजने प्रसादक्रमः तत्प्रसादनपरिपाटी, व्याक्रोशे गालि- प्रदाने कुशलोक्तिः कल्याणकामनाप्रकाशः, ताडने क्रुद्धजनककृते प्रहारे आत्मदुरितो- च्छेदोत्सवः मदीयानि पापान्यनेन स्वया कृतेन ताडनेन नष्टानीत्युत्सवप्रदर्शनम् , अस्य क्रोधाश्रयस्य अजितात्मनः अवशेन्द्रियस्य दैवात् भाग्यदोषात् महती दीर्घा दुर्बारा असुखापास्या विपत् उपेता प्राप्ता, धिक् कष्टम् , इति एवं दयारसार्द्रमनसः क्रोधिनं प्रति दयालुहृदयस्य ( पुरः ) क्रोधस्य उदयः प्रकाशीभावः कुत्र ? न कुत्रा- पीत्यर्थः । यदि क्रोधान्धं प्रति प्रोक्तप्रकारेण व्यवह्रियते तदा तस्य क्रोधोऽवश्यमेव विलयं गच्छेदिति तात्पर्यम् ॥ शार्दूलविक्रीडितं वृत्तम् ॥ १८ ॥ दृष्टिसे स्फुलिङ्ग वर्षण करने वाला, इस क्रोधको कात्यायनी ने जिस प्रकार महिषासुरका वध किया था उसी प्रकार मार भगाती हूँ ॥ १७ ॥ राजा—क्षमे, तुमने क्रोधको जीतनेका क्या उपाय सोचा है, सुनूं तो । क्षमा—देव, विज्ञापित करती हूँ । क्रोधीके प्रति हंसकर उपेक्षा करना, आवेशवालेके प्रति प्रसन्नता दिखाना, गाली देने वालोंसे कुशल प्रश्न, मारने पर यह समझना कि हमारा पाप कटा, इसतरह दयायुक्त हृदयमें क्रोधका उदय कहाँसे होगा वह तो यही समझा करेगा कि यह प्राणी अजितात्मा है इसे भाग्य ने यह बड़ी-सी विपत्ति दी है ॥ १८ ॥ राजा--साधु साधु ।