भारतकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

चतुर्थोऽङ्कः १५१ राजा—क्षमे, शृणुमस्तावत्क्रोधविजयोपायम् । क्षमा—देव, विज्ञापयामि । क्रुद्धे स्मेरमुखावधीरणमथाविष्टे प्रसादक्रमो व्याक्रोशे कुशलोक्तिरात्मदुरितोच्छेदोत्सवस्ताडने । धिग्जन्तोर्जितात्मनोऽस्य महती दैवादुपेता विपद्- दुर्वारैति दयारसार्द्रमनसः क्रोधस्य कुत्रोदयः ॥ १८ ॥ राजा—साधु साधु । मन्तम् प्रकिरन्तम् क्रोधम् कात्यायनी गौरी महिषम् तन्नामकमसुरविशेषम् इव विनिपातयामि मारयामि । यथाऽकारणं वेदाध्ययनं ज्योतिष्टोमादिदेवयज्ञं श्राद्धादि- पितृयज्ञं तपस्याचरणञ्च बाधमानं दुराचारं रक्ताक्षं महिषासुरं कात्यायनी हतवती तथाऽहममं क्रोधं हन्मीति भावः । उपमाऽलङ्कारेणाकष्टघात्यताध्वनिः ॥ १७ ॥ क्रोधविजयोपायम्—क्रोधस्त्वया केन विधिना जेय्यते तं विधिं शृणुम इत्यर्थना । क्रुध इति० क्रुद्धे सामान्यतः कुपिते स्मेरमुखावधीरणम् सहास्यमुखेन तत्क्रोधावज्ञा अथ आविष्टे समधिककोपभाजिजने प्रसादक्रमः तत्प्रसादनपरिपाटी, व्याक्रोशे गालि- प्रदाने कुशलोक्तिः कल्याणकामनाप्रकाशः, ताडने क्रुद्धजनककृते प्रहारे आत्मदुरितो- च्छेदोत्सवः मदीयानि पापान्यनेन स्वया कृतेन ताडनेन नष्टानीत्युत्सवप्रदर्शनम् , अस्य क्रोधाश्रयस्य अजितात्मनः अवशेन्द्रियस्य दैवात् भाग्यदोषात् महती दीर्घा दुर्बारा असुखापास्या विपत् उपेता प्राप्ता, धिक् कष्टम् , इति एवं दयारसार्द्रमनसः क्रोधिनं प्रति दयालुहृदयस्य ( पुरः ) क्रोधस्य उदयः प्रकाशीभावः कुत्र ? न कुत्रा- पीत्यर्थः । यदि क्रोधान्धं प्रति प्रोक्तप्रकारेण व्यवह्रियते तदा तस्य क्रोधोऽवश्यमेव विलयं गच्छेदिति तात्पर्यम् ॥ शार्दूलविक्रीडितं वृत्तम् ॥ १८ ॥ दृष्टिसे स्फुलिङ्ग वर्षण करने वाला, इस क्रोधको कात्यायनी ने जिस प्रकार महिषासुरका वध किया था उसी प्रकार मार भगाती हूँ ॥ १७ ॥ राजा—क्षमे, तुमने क्रोधको जीतनेका क्या उपाय सोचा है, सुनूं तो । क्षमा—देव, विज्ञापित करती हूँ । क्रोधीके प्रति हंसकर उपेक्षा करना, आवेशवालेके प्रति प्रसन्नता दिखाना, गाली देने वालोंसे कुशल प्रश्न, मारने पर यह समझना कि हमारा पाप कटा, इसतरह दयायुक्त हृदयमें क्रोधका उदय कहाँसे होगा वह तो यही समझा करेगा कि यह प्राणी अजितात्मा है इसे भाग्य ने यह बड़ी-सी विपत्ति दी है ॥ १८ ॥ राजा--साधु साधु ।

१४२ प्रबोधचन्द्रोदयम् क्षमा—देव, क्रोधस्य विजयादेव हिंसापारुष्यमानमात्सर्यादयोऽपि विजिता एव भविष्यन्ति । राजा—तत्प्रतिष्ठतां भवति विजयाय । क्षमा—यदाज्ञापयति देवः । ( इति निष्क्रान्ता ) राजा—( प्रतीहारीं प्रति ) वेदवति, आहूयतां लोभस्य जेता संतोषः । प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि ) ( इति निष्क्रम्य संतोषण सह प्रविशति ) संतोषः—( विचिन्त्य सानुक्रोशम् ) फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी हिंसा-वधोद्योगः, पारुष्यम्-कठोरता, मानः-दर्पः, मात्सर्यम्-परगुणासहिष्णुता । सर्वेषाममीषां क्रोधमूलतया कारणनाशे कार्यनाशनियमात् क्रोधे जिते तेषामपि जयो जात एवेति भावः । फलमिति० प्रतिवनम् सर्वेषु वनेषु अखेदम् विनाऽऽयासम् स्वेच्छालभ्यम् यदृच्छा- प्राप्यम् क्षितिरुहाम् वृक्षाणाम् फलम् (एतेनाहारचिन्तानिरासः) स्थाने स्थाने यत्र तत्र पुण्यसरिताम् पवित्रसरोवराणाम् शिशिरमधुरम् शीतलं मिष्टञ्च पयः जलं (एतेन पेय- जलचिन्तानिवृत्तिः) सुललितलतापल्लवमयी मनोज्ञवल्ली किसलयनिर्मिता मृदुस्पर्शा कोमला शय्या शयनभूमिः ( एतेनावासचिन्ताव्युदासः) (एवमाहारस्य पेयस्या- क्षमा—देव, क्रोधपर विजय पालेनेसे ही हिंसा, पारुष्य, मान, मात्सर्य आदि भी विजित हो जाते हैं । राजा—तब आप विजयके लिये प्रस्थान करें । क्षमा—जैसी आज्ञा महाराज की । ( जाती है ) राजा—( प्रतीहारीसे ) वेदवति, लोभके विजेता सन्तोषको बुलाओ । प्रतीहारी—महाराजकी जैसी आज्ञा । ( जाकर सन्तोषके साथ पुनः प्रवेश करती है ) सन्तोष—( सोचकर, खेदके साथ ) प्रत्येक वनमें वृक्षोंके फल बिना यत्नसे मिल जाते हैं, पुण्य नदियोंके मधुर-शीतल जल, प्रत्येक स्थानपर मिलता है । लतापल्लवनिर्मित

चतुर्थोऽङ्कः १५३ सहन्ते संतापं तदपि धनिनां द्वारि कृपणाः ॥ १९ ॥ ( आकाशे ) अरे मूर्ख, लुब्ध, दुरुच्छेदः खल्वयं भवतो व्यामोहः । तथाहि— समारम्भा भग्नाः कति कति न वारांस्तव पशो पिपासोस्तुच्छेऽस्मिन्द्रविणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते मूढ शतधा विदीर्णं यच्चेतो नियतमशनिग्रावघटितम् ॥ २० ॥ वासस्य च चिन्तायां निवृत्तायामपि ) कृपणाः दयनीया इमे वराकाः तदपि तथापि धनिनां द्वारि सन्तापं तत्कृतापमानजन्यपरितापं सहन्ते भुञ्जते । आश्चर्यमिदं यदमी वराका निर्वाहसाधनेऽक्लेशमासाद्यमानेऽपि धनिकद्वारि धनाशया तत्कृतमपमानं सोढुमवतिष्ठन्त इति भावः । शिखरिणीवृत्तम् , लक्षणं प्रागुक्तम् ॥ १९ ॥ मूर्ख-अज्ञान, लुब्ध-लोभग्रस्त, दुरुच्छेदः-छेत्तुमशक्यः, व्यामोहः-भ्रमः । समारम्भा इति० पशो अज्ञानपराहत अस्मिन् द्रविणमृगतृष्णार्णवजले धनमृग- मरीचिकासागरसलिले पिपासोः पातुमिच्छोः तव भ्रान्तस्य समारम्भाः प्रयासाः कति कति वारान् कतिधा न भग्नाः विफलतां गताः, इदं धनमृगतृष्णाजलं तृप्ति- साधनं मत्वा तत्पाने प्रवृत्तस्य भ्रान्तरय तव प्रयासाः कतिधा न विफलतां गताः ? अनेकेषु प्राग्जन्मसु त्वमिदं मृगतृष्णाजलं पीत्वा तृप्तिं कामयमानः प्रायस्थोऽथापि तव तृप्तिर्नाभूत्तस्य मिथ्यात्वेन तृप्तिकार्याक्षमत्वादित्याशयः । तथाऽपि वैफल्यस्या- नेकशोऽनुभूतत्वेऽपि, मूढ-अज्ञानपराहत, ते तव प्रत्याशा प्रचुरद्रव्यावाप्त्यभिलाषः न विरमति न निवर्त्तते, यत् चेतः तव हृदयम् शतधा न विदीर्णम् विशीर्णम् ( तत् तव हृदयम् ) नियतम् निश्चयेन अशनिग्रावघटितम् वज्रशिलानिर्मितम् । अन्य- थैतादृशपुनःपुनर्जायमानप्रवृत्तिव्यासङ्गं प्राप्य न स्थिरं तिष्ठेदित्याशयः । वृत्तमनु- पद्मेवोक्तम् ॥ २० ॥ सुखद शय्या सर्वत्र सुलभ है, फिर भी कृपणजन धनिकोंके दरवाजे पर सन्ताप सहा करते है ॥ १९ ॥ ( आकाशमें ) अरे मूर्ख लुब्ध, तुम्हारा यह भ्रम दुरुच्छेद है, क्योंकि— धनमृगतृष्णाजलसे प्यास बुझाने की तुम्हारी चेष्टा कितनी बार व्यर्थ हो चुकी है फिर भी तुम्हारी आशा नहीं छूटती । अरे मूढ, यदि इससे तुम्हारा हृदय नहीं फटा तो निश्चय यह वज्रसे बना है ॥ २० ॥

१५४ प्रबोधचन्द्रोदयम् इदं च ते लोभान्धस्य चेष्टितं चेतसि चमत्कारमातनोति । यतः— लभ्यं लब्धमिदं च लभ्यमधिकं तन्मूललभ्यं ततो लब्धं चापरमित्यनारतमहो लब्धं धनं ध्यायसि । नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बला- त्सर्वग्रासमियं ग्रसिष्यति महालोभान्धकारावृतम् ॥२१॥ अपि च— धनं तावल्लब्धं कथमपि तवाप्यस्य नियते व्यये वा नाशे वा तव सति वियोगोऽस्त्युभयथा । अनुत्पादः श्रेयान्किमु कथत पथ्योऽथ विलयो लोभान्धस्य-लुब्धस्य । चेष्टितम्-व्यापारः । चेतसि-मम चित्ते । चमत्कारमात- नोति-आश्चर्यं जनयति । लभ्यमिति० लब्धं लभ्यम् प्राप्यमधिगतम्, इदञ्च अधिकं तत्कुसीदरूपम् लभ्यम्, तस्मिं कुसीदे लब्धे तन्मूललभ्यं तन्मूलधनं कृत्वा ततः प्राप्यं कुसी- दान्तरमपरं लब्धम्, इति एवं प्रकारेण अनारतं सततं धनं ध्यायसि चिन्तयसि । अहो आश्चर्यमिदम् । एतत् वक्ष्यमाणम् पुनः न वेत्सि न जानासि यत् इयम् आशा पिशाची धनप्राप्त्याशारूपा राक्षसी महालोभान्धकारावृतम् सातिशयलोभतमश्छन्नम् भवन्तम् बलात् बलपूर्वकम् अचिरात् शीघ्रम् सर्वग्रासं ग्रसिष्यति निःशेषं कवल- यिष्यति । त्वं तु धनस्यार्जने प्रकारभेदं चिन्तयंस्तथा लोभान्धतमसावृत्तोऽसि यथा भाविनमात्मनो नाशं न विभावयसि, तदतिमन्दोऽसीति भावः ॥ २१ ॥ धनमिति० धनं तावत् कथमपि केनाप्युपायेन लब्धम् प्राप्तम्, तथापि अस्य धनस्य नियते अवश्यभाविनि व्यये उपयोगजनिते क्षये नाशेऽपहारादिकृते वाऽपगमे सति जायमाने उभयथा प्रकारद्वयेन तव अर्जयितुः तेन धनेन वियोगः पृथग्भावः अस्ति । प्राप्तस्य धनस्य द्वयीगतिर्व्ययो नाशो वा, तत्रोभयथाऽपि तेन सह भवतो वियोगो भवेदित्यर्थः । (तत्र पृच्छ्यसे) कथय अभिधेहि (अर्थस्य) किम् अनुत्पादः अलाभः श्रेयान् श्रेष्ठः अथवा विलयः नाशः पथ्यः हितः, (धनस्य नाशान्- तुम लोभान्ध हो तुम्हारा यह व्यापार हृदयसे चमत्कार पैदा करता है । क्योंकि— यह धन पा लिया, यह पाना है, इससे अधिक मूललभ्य है, अनन्तर यह मिला, इस लब्ध धनका ध्यान किया करते हो । यह नही समझते कि तुमको आशापिशाची बलपूर्वक ग्रस लेगी क्योंकि तुम लोभान्धकारसे घिरे हुए हो ॥ २१ ॥ और—यदि धन किसीतरह पा लिया तो उसका व्यय अथवा नाश निश्चित है, उभयथा उससे तुमको विछुड़ना है । इस दशामे धनका नहीं पैदा करना ही अच्छा है । विनाश

चतुर्थोऽङ्कः १५५ विनाशो लब्धस्य व्यथयतितरां न त्वनुदयः ॥ २२ ॥ किञ्च— मृत्युर्नृत्यति मूर्ध्नि शश्वदुरगी घोरा जरारूपिणी त्वामेषा ग्रसते परिग्रहमयैर्गृध्रैर्जगद्ग्रस्यते । धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः संतोषामृतसागराम्भसि मनाङ्मग्नः सुखं जीवति ॥ २३ ॥ प्रतीहारी—एष स्वामी । तदुपसर्पतु महाभागः । (एसो सामी । ता उवसप्पदु महाभाओ ) ( तथा कृत्वा ) संतोषः—जयतु जयतु स्वामी । एष संतोषः प्रणमति । त्पाद्योः कस्य श्रेष्ठतेति ब्रूहि ) ( परमार्थे तु विचार्यमाणे धनस्यानुत्पाद एव श्रेयान् यतः ) लब्धस्य विनाशः क्षयः व्यथयति क्लेशयति अनुदयोऽर्थस्यानधिगमस्तु न, तेन वृथा तदर्जनचिन्तयाऽऽत्मपातनमसम्भवी धनवियोगनिरोध इति तात्पर्यम् ॥२२॥ मृत्युरिति० शश्वत् सततम् मूर्ध्नि मस्तके मृत्युः मरणम् नृत्यति आयुरनियत- मिति सदैव मृत्युभयमस्त्येवेत्यर्थः । एषा जरारूपिणी वार्धक्यस्वरूपा घोरा भयङ्करी उरगी सर्पिणी त्वां ग्रसते गिलति, प्रतिदिनं वार्धक्यसर्पिण्या मुखं पदात्पदमुपसर्प- सीत्याशयः । परिग्रहमयैः दानप्रचुरैः स्त्रीपुत्रादिरूपैः गृध्रैः लोभशालित्वसाम्याद्गृ ध्रोपमैः जगद् ग्रस्यते भक्ष्यते । ( तदेवं स्थितौ ) तत् तस्मात् बोधजलैः ज्ञान- वारिभिः अबोधबहुलम् अज्ञानविजृम्भितम् लोभजन्यम् लोभोद्भवम् रजः मालिन्यम् धूत्वा अपसार्य सन्तोषामृतसागराम्भसि सन्तोषसुधासिन्धुवारिणि मनाक् सकृत् मग्नः सुखं जीवति । मृत्योरपरिहार्यतया जरायाः क्रमशः सन्निधानेन पुत्रादिद्वारक- धनापहारप्रभवक्लेशसंभावनया च ज्ञानी लोभं विधूय सन्तोषमालम्बेत, तदेव वरं यन्न नास्ति किमपि भयमिति तात्पर्यम् ॥ २३ ॥ नही, क्योंकि नहीं होना उतना कष्टकर नहीं जितना कि विनाश है ॥ २२ ॥ और—मौतरूपी नागिन सिरपर नाच रही है, भयानक जरा तुम्हें ग्रस्त कर रही है, गृध्रतुल्य पुत्र कलत्र आदि संसारको ग्रस्त कर रहे हैं । ऐसी स्थितिमें ज्ञान जलसे अज्ञान- मय लोभ रजको धोकर संतोषरूप अमृतके समुद्रमें डुबकी लगाओ, सुखसे जियो ॥ २३ ॥ प्रतीहारी—ये महाराज हैं, समीप चलें । ( समीप जाकर ) सन्तोष—जय हो जय हो महाराज की । यह सन्तोष प्रणाम करता है ।

१५६ प्रबोधचन्द्रोदयम्

राजा—इहोपविश्यताम् । ( इति स्वसंनिधावुपवेशयति ) संतोप:—( सविनयमुपविश्य ) एष प्रेष्यजनः । आज्ञाप्यतां देवेन । राजा—विदितप्रभाव एव भवान् । तदलमात्र विलम्बेन । लोभं जेतुं वाराणसीं प्रतिष्ठीयताम् । संतोषः—यदाज्ञापयति देवः । सोऽहम्— नानामुखं विजयिनं जगतां त्रयाणां देवद्विजातिवधबन्धनलब्धवृत्तिम् । रक्षोधिनाथमिव दाशरथिः प्रसह्य निर्जित्य लोभमवशं तरसा पिनष्मि ॥ २४ ॥ ( इति निष्क्रान्तः ) एष प्रेष्यजनः—दासोऽयमुपस्थितः इत्यर्थः । आज्ञाप्यताम्-आदिश्यताम् । कर्तव्यमिति शेषः, देवेन-भवता । विदितप्रभावः—अवगतपराक्रमः । अलमत्र विलम्बेन-कालक्षेपो वृथा । वारा- णसी-काशी । अत्र वाराणसीमिति द्वितीया प्रतिशब्दमेकमध्याहृत्योपपाद्या । नानामुखमिति० नानामुखम् बहुविषयम् पक्षे दशवदनम् त्रयाणाम् जगताम् विजयिनम् पराक्रमेण दमयितारम् ( इदं पक्षद्वयेऽपि समानम् ) देवाः अमराः द्विजातयो विप्राश्च तेषाम् वधे मारणे बन्धने संयमने च लब्धवृत्तिम् लोभो देवान् विप्रांश्चापि स्वप्रवणीकरणद्वारा वधे बन्धने च योजयति रावणस्तु राक्षसत्वे तेषां वधबन्धनेऽकरोत् । दाशरथिः राम इव अहं सन्तोषः अवशम् किमपि कर्तुमप्रभवन्तं रक्षोधिनाथं रावणमिव लोभं प्रसह्य बलपूर्वकं तरसा वेगेन निर्जित्य पराजित्य पिनष्मि चूर्णयामि । उपमयाऽनया यथा सगोत्रस्य रावणस्य वधः कृतो दाशरथिना तथा सानुबन्धस्य लोभस्य पराजयः सन्तोषेण करिष्यत इति ध्वन्यते ॥ २४ ॥ राजा—यहां बैठो । ( अपने समीप बैठाता है ) सन्तोष—( नम्रतापूर्वक बैठकर ) यह दास उपस्थित है, श्रीमान् आज्ञा दें । राजा—आपके प्रभावको मैं जानता हूं । देर करना व्यर्थ है । लोभको जीतनेके लिये आप वाराणसी जांय । सन्तोष—महाराजकी जो आज्ञा । मैं— नानामुख ( दशमुख-बहुप्रकारक ) त्रिलोकविजयी, देव-द्विजके वधबन्धन आदि व्यापार वाला इस लोभको-रामने रावणको जैसे जीता-वैसे जीतकर पीस दूंगा ॥ २४ ॥ ( जाता है )

चतुर्थोऽङ्कः १५७ ( ततः प्रविशति विनीतवेषः पुरुषः ) पुरुषः—देव, संभृतानि विजयप्रयाणमङ्गलानि । प्रत्यासन्नश्च मौहूर्त्ति- कावेदितः प्रस्थानसमयः । राजा—यद्येवं सेनाप्रस्थानायादिश्यन्तां सेनापतयः । पुरुषः—यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) ( नेपथ्ये ) भोः भोः सैनिकाः, सज्जन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरङ्गाः । कुन्तैर्नीलोत्पलानां वनमिव ककुभामन्तराले सृजन्तः संभृतानि-प्रस्तुतानि । विजयप्रयाणमङ्गलानि-विजययात्रावसरे सन्निधापनीया- नि दधिमत्स्यादिशुभवस्तूनि । प्रत्यासन्नः-समीपमायात: । मौहूर्त्तिकावेदितः-दैवज्ञ- कथितः । प्रस्थानसमयः-यात्राकालः । एवम्-भवदुक्तं यदि सत्यम् तदा । सेनाप्रस्थानाय-बलचलनाय । सेनापतयः- चमूपतयः । सज्जन्तामिति० कुम्भा भित्तय इव कुम्भभित्तयस्ताभ्यश्च्युता ये मदाः दानवारीणि तेषां मदिरा मादकता तयामत्ता उन्मादिता भृङ्गा आलयः यैस्तादृशाः करीन्द्राः सज्जन्ताम् कुथादिपरिधापनभक्तिचित्रणादिविन्यासेन भूष्यन्ताम्, स्यन्दनेषु रथेषु प्रसभं जितः मरुतः वायोश्चण्डवेगः प्रकृष्टो जवो यैस्तादृशा जितवायुवेगाः तुरङ्गाः अश्वाः युज्यन्ताम् यथाविधि बध्यन्ताम्, कुन्तैस्तीक्ष्णाग्रलौहास्त्रविशेषैः ककुभाम् ( नम्रवेशमे पुरुषका प्रवेश ) पुरुष—देव, विजययात्राके सभी मङ्गल कर लिये गये, ज्योतिषी द्वारा कथित प्रस्थान समय समीप आगया । राजा—यदि यह बात है तो सेनाकोप्रस्थापित करने के लिये सेनापतियोंको आदेश दिया जाय । पुरुष—महाराजकी जो आज्ञा । ( जाता है ) ( नेपथ्य में ) अरे ओ सैनिको, कुम्भस्थलसे च्युतमदिरा द्वारा मत्त बनाया है भ्रमरों को जिसने ऐसे मस्त हाथी सजाये जांय, वेगसे हवाको मात देने वाले घोड़े रथमें जोते जायं, भालारूप नील कमल-वन दिगन्तरालमें फैलाकर हाथमें तलवार लिये असवार पैदल

१५८ प्रबोधचन्द्रोदयम् पादाताः संचरन्तु प्रसभमसिलसत्पाणयोऽप्यश्ववाराः ॥२५॥ राजा—भवतु । कृतमङ्गलाः प्रतिष्ठामहे । ( पारिपार्श्वकं प्रति ) सारथि- रादिश्यतां साङ्ग्रामिकं रथं सज्जीकृत्यानयेति । पारिपार्श्वकः—यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) ( ततः प्रविशति यथोक्तं रथमादाय सारथिः ) सारथिः—जीव, सज्जीकृतोऽयं रथः । तदारोहतवायुष्मान् । राजा—( कृतमङ्गलविधिरारोहणं नाटयति ) सारथिः—( रथवेगं निरूपयित्वा ) आयुष्मान् , पश्य पश्य । उद्धूतपांसुपटलानुमितप्रबन्ध- धावत्खुराग्रचयचुम्बितभूमिभागाः । दिशाम् अन्तराले मध्ये नीलोत्पलानाम् इन्दीवराणाम् वनम् सृजन्त इव तीक्ष्ण- कुन्तोच्छ्रयेण दिगन्तरालं नीलकमलव्याप्तमिव दर्शयन्तः पादाताः पदातिबलानि सञ्चरन्तु प्रतिष्ठन्ताम्, असिलसत्पाणयः करवालभूषितहस्ताः अश्ववाराः ह्यारूढाः सैनिका अपि प्रसभम् झटिति सञ्चरन्तु इति अन्वयः । तदेवं चतुरङ्गसेना विजय- प्रयाणं करोत्वित्याशयः । स्रग्धरावृत्तम्—'भ्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा- कीर्त्तितेयम्' इति च तल्लक्षणम् ॥ २५ ॥ कृतमङ्गलाः-विहितप्रास्थानिकमङ्गलकृत्याः । प्रतिष्ठामहे-चलामः । सारथिः-रथ- वाहकः । साङ्ग्रामिकम्-युद्धोपयुक्तम् । सज्जीकृत्य-यथावदावश्यकास्त्रादिना प्रसाध्य । सज्जीकृतः-युक्तरथः कृतः । आरोहतु-रथोपर्य्युपविशतु 'आयुष्मान्' 'रथीसूतेन चायुष्मान् पूज्यः शिष्यात्मजानुजैः' इति नाटकनियमाद्राजानं प्रत्याह । उद्धूतपांसुपटलेति० उद्धूतपांसुपटलेन उत्थितधूलीवितानेन अनुमिताः ज्ञान- प्रस्थान करें ॥ २५ ॥ राजा—अस्तु, मङ्गल अनुष्ठान करके यात्रा करे । ( पार्श्ववर्ती अनुचरके प्रति ), सारथिसे कहो कि जङ्गीरथ सजाकर लावे । पारिपार्श्वक—महाराजकी जो आज्ञा । ( जाता है ) ( यथोक्त रथ लेकर सारथिका प्रवेश ) सारथि—जीव, रथ तैयार है, आप आरूढ हो । राजा—( मङ्गलविधि करके चढनेका अभिनय करता है ) सारथि—( रथके वेगका ध्यान करके ) आयुष्मान् , देखिये, देखिये--- ये घोड़े रथको आकाशमें ढोरहे हैं, इनकी हेषा मध्यमान समुद्रकी ध्वनिका अनु-

चतुर्थोऽङ्कः १५६ निर्मथ्यमानजलधिध्वनिघोरहेष- मेते रथं गगनसीम्नि वहन्ति वाहाः ॥ २६ ॥ इयं च नातिदूरे दर्शनपथमवतीर्णा त्रिभुवनपावनी वाराणसी नाम नगरी । अमी धारायन्त्रस्खलितजलझङ्कारमुखरा विभाव्यन्ते भूयः शशिकररुचः सौधशिखराः । विचित्रा यत्रोच्चैः शरदमलमेघान्तविलस- त्तडिल्लेखालक्ष्मीं वितरति पताकावलिरियम् ॥ २७ ॥ विषयीकृताः प्रबन्धेन अविच्छेदेन धावन्तः चलन्तः खुराग्रचयाः खुरशीर्षभागसमु- दयास्तैश्चुम्बितः स्पृष्टो भूमिभागः यैस्ते तथोक्ताः एते वाहाः अश्वाः निर्मथ्यमान- जलधिध्वनिघोरहेषम् मन्थनक्रियाऽऽलोड्यमानसमुद्रशब्दतुल्यशब्दम् यथा स्या- स्तथा गगनसीम्नि अन्तरिक्षे रथं वहति । धूलि उत्पतति येनाश्वानां खुरचयाः प्रत्यक्षगोचरतामनाचामन्तोऽनुमेया एव भवन्ति, सततधावनाद्धरास्पर्शश्च कदाचिदेव जायते, रणोत्काश्चाश्वास्तुलं शब्दं कुर्वते यः शब्दो मध्यमानस्य सागरस्य निर्घो- षमनुहरति, एवंभूता रथ्या आकाशदेश एव रथं कर्षन्तीति भावः । वेगवत्ता ध्वनिरत्र वेगवर्णने कालिदासोऽप्येवमाह—'वियति बहुतरं स्तोकमुर्व्यां प्रयाति' । वसन्त- तिलकं वृत्तम् ॥ २६ ॥ नातिदूरे समीपे । दर्शनपथमवतीर्णा-दृष्टौ समायाता । त्रिभुवनपाविनी-लोक- त्रयपवित्रताकरी । अमी इति० धारायन्त्रेभ्यः कृत्रिमजलप्रपातयन्त्रेभ्यस्खलितानां वेगवत् पततां जलानां झङ्कारेण शब्देन मुखराः सशब्दाः, शशिकररुचः चन्द्रकिरणवद्धवलकान्तयः सौधशिखराः प्रासादशृङ्गाणि भूयः पुनः पुनः विभाव्यन्ते दृश्यन्ते । यत्र सौध- शिखरेषु इयम् प्रत्यक्षीभवन्ती विचित्रा नानावर्णा पताकावलिः ध्वजपङ्क्तिः उच्चैः सातिशयभावेन शरदि तदाख्यऋतौ अमलाः स्वच्छा ये मेघा वारिदास्तेषामन्तर्मध्ये करण करती है, धूल उड रही है उसमे चरणकी आशुगभिताका अनुमान करना पड़ता है, इन घोड़ोंके चरण अग्रभाग-मात्रसे पृथ्वीको छूते है ॥ २६ ॥ यह समीपमें ही देख रही है भुवनपावनी वाराणसी नामकी नगरी । फव्वारेसे निर्गत जलसे झकृत तथा चन्द्रकरधवल सौधशिखर दीख रहे हैं, जिनपर लहराती हुई विचित्र पताकाए शरत्कालिक स्वच्छ मेघमे चमकती हुई विद्युल्लताकी शोभा धारण करती है ॥ २७ ॥

१६० प्रबोधचन्द्रोदयम् एताश्च प्रतिमुकुलं लग्नमधुपावलीरणितमुखरा जृम्भारम्भभरविगलन्म- करन्दबिन्दुदुर्दिनाः कुसुमसुरभयो नातिदूरे श्यामायमानघनच्छदच्छाया- तरवो नगरपर्यन्तोद्यानभूमयः । यत्रैते मरुतोऽपि गृहीतपाशुपतव्रता धूलि- मुद्घूलयन्तस्तापसा इव लक्ष्यन्ते । तथाहि— तोयाद्राः सुरसरितः सिताः परागै- रचन्तश्च्युतकुसुमैरिवेन्दुमौलिम् । विलसन्ती शोभमाना या तडित् विद्युल्लता तस्या लेखा रेखा तस्या लक्ष्मीं शोभां वितरति विस्तारयति । एषां धारायन्त्रजलप्रयातमुखराणां शशिज्योत्स्नाभास्वराणां प्रसादानां शिखरेषु लसन्ती नानावर्णा पताकाराजिः शारदविमलघनमालाऽन्तर्व- र्त्तिविद्युच्छ्रिवं प्रकाशायतीत्यर्थः । शारदघनसादृश्ये न प्रासादानां निर्मलतातिशयः, विद्युत्तुलनया पताकानां चलता, तया च प्रासादानामुच्चता, धारायन्त्रजलपातेन भवनानां मुखरतया तत्र श्रीसमृद्धिरित्यादयोऽर्था व्यज्यन्ते । शिखरिणीवृत्तम्, लक्ष- णमुक्तपूर्वम् ॥ २७ ॥ एताश्चेति० प्रतिमुकुलं प्रत्येकत्र कोशे लग्ना या मधुपावलिः अमरपरम्परा तस्याः रणितेन शब्देन मुखराः सशब्दाः, ( इदमकं नगरपर्यन्तोद्यानभूमिविशेषणम् ) जृम्भायाः विकासस्य आरम्भः आद्या क्रिया तस्य भरः समुदयः सर्वतो विकास- आरम्भस्तस्मात् (पुष्पेभ्यः) विगलन् पतन् यः मकरन्दः पुष्परसः तस्य विन्दवः पृषताः तैः दुर्दिनं वृष्टिर्यासु तादृश्यः पुष्पविकासप्रारम्भे ततः स्रवन्मकरन्दवृष्टिमत्य इत्यर्थः । कुसुममुरभयः-सुगन्धिपुष्पाः, नातिदूरे-समीपे, श्यामायमानाः कृष्णवर्णाः घनच्छदाः सान्द्रपत्राः छायातरवः छायाप्रधानवृक्षा यत्र तादृश्यः । नगरपर्यन्तोद्या- नभूमयः-पुरीपरिसरारामभुवः । मरुतः-वायवः गृहीतपाशुपतव्रताः-आलम्बिता- शैवभावाः । धूलिमुद्धूलयन्तः-रजः प्रसारयन्तः । तापसाः-तपोरताः । वायवो धूलिमुत्पातयन्ति मन्ये ते पशुपतिभक्तिभरेणेव विभूतिं स्वतनों लिम्पन्ति, तेनैव पाशुपतव्रतग्रहीतृत्वमुत्प्रेक्षितम् ॥ तोयार्द्रा इति० वायूनां गृहीतपाशुपतत्वप्रयुक्तं तापसत्वमुत्प्रेक्षितमनुपदपातिना यह है नगर परिसरवर्ती उद्यान, जिनकी प्रत्येक कली पर भौरे गुञ्जार करते हैं, विकासके साथ मकरन्द वृष्टि हो रही है, कुसुमकी सुगन्ध फैल रही है, काले मेघकी तरह छाया- युत वृक्ष हैं। जहाँ पर वायु भी पाशुपत व्रत लेकर धूलिधूसर हो रही है, मानों तापस हो। क्योंकि— गङ्गाजलसे स्नान कर परागरूप विभूति लपेट कर वृक्षच्युत कुसुमोंसे शिवार्चन-सा

चतुर्थोऽङ्कः १६१ प्रोद्गीतां मधुपरुतैः स्तुतिं पठन्तो नृत्यन्ति प्रचललताभुजैः समीराः ॥ २८ ॥ राजा— ( सानन्दमालोक्य ) सैषान्तर्दधती तमोविघटनादानन्दमात्मप्रभं चेतः कर्षति चन्द्रचूडवसतिर्विद्येव मुक्तेः पदम् । भूमेः कण्ठविलम्बिनीव कुटिला मुक्तावलिर्जाह्नवी यत्रैवं हसतीव फेनपटलैर्वक्रां कलामैन्दवीम् ॥ २६ ॥ गद्यखण्डेन, सम्प्रति तदेव विशद्यते, तोयार्द्राः जलकणवाहिनः, एतेन शैत्यं सिद्धम् , ध्वन्यते च तपस्विजनोचितं गङ्गास्नानम्, परागैः पुष्पधूलिभिः सिताः धवलाः, एतेन सुगन्धवत्ता, चन्दनचर्चितवपुष्ट्वं च । च्युतकुसुमैः वृक्षादधःपातिभिः पुष्पैः इन्दुमौलिम् शिवम् अर्चन्तः आराधयन्त इव, एतेन पुष्पोद्यानाधःसंचरणकृतं हृद्य- त्वम् , कृतशिवपूजनत्वञ्च मधुपरुतैः भ्रमरशब्दैः प्रोद्गीताम् स्फुटोच्चारिताम् स्तुतिम् शिवस्तोत्रम् पठन्तः, एतेन भ्रमरशब्दवत्तयोत्तेजकता कृतहरस्तोत्रपाठत्वञ्च सुर- सरितः समीराः गङ्गावायवः प्रचललताभुजैः चञ्चलवल्लीबाहुभिः नृत्यन्तीव । शिव- भक्ता हि स्नाताङ्गुलिप्ताः कृतहरपूजाः स्तोत्राणि पठित्वा तदनुकूल्या तदाराधनाय नृत्यन्तीति कृत्वा महति तापसे सर्वमारोपितम् ॥ प्रहर्षिणीवृत्तम्—'त्र्याशाभिर्मनज- रगाः प्रहर्षणीयम्' इति च तल्लक्षणम् ॥ २८ ॥ सैषेति० विद्या आत्मज्ञानम् इव अन्तस्तमोविघटनात् अज्ञानविनाशात् आत्म- प्रभम् स्वप्रकाशम् आनन्दम् प्रमोदम् दधती वर्धयन्ती मुक्तेः मोक्षस्य पदम् कारणम् सा प्रसिद्धा एषा इयम् चन्द्रचूडवसतिः शिवपुरी चेतः हृदयं कर्षति आकर्षति, इत्थ शिवपुरी अज्ञानं विनाशय मोक्षप्रदततया विद्यासादृश्यं भजन्ती हृदयमाकर्षतीति भावः । एवं किञ्च यत्र शिवपुर्याम् भूमेः धरित्र्याः कण्ठविलम्बिनी गले लम्बमाना कुटिला वक्रा मुक्तावलिः मुक्तामाला इव जाह्नवी गङ्गा फेनपटलैः फेनसमुदयैः वक्राम् अपूर्णतयाऽसरलाम् ऐन्दवीम् चान्द्रमसीम् कलां लेखाम् हसतीव । यत्र करती हुई, भ्रमरध्वनिरूप स्तुतिपाठ करनेवाली वायु लतारूप भुजोंसे नाचती रही है ॥२८॥ राजा— ( सानन्द देखकर ) अज्ञानको दूर कर आत्मानन्दको अभ्यन्तरमें जगाती हुई वाराणसी नामक यह शिवनगरी विद्याकी तरह मुक्ति प्रदान करती है, यहाँ की कुटिल गङ्गाधारा पृथ्वीके गलेकी मुक्तामाला सदृश प्रतीत होती है और वह गङ्गा फेनसे वक्रचन्द्रकलाका उपहास-सा करती है ॥ २९ ॥ ११ प्र० च०

१६२ प्रबोधचन्द्रोदयम् सूतः—( परिक्रम्य ) आयुष्मन्, पश्य पश्य । तदिदं सुरसरित्परिसरा- लङ्कारभूतं भगवतः पावनमनादेरादिकेशवस्य विष्णोरायतनम् । राजा—( सहर्षम् ) अरे, एष देवः पुराविद्भिः क्षेत्रस्यात्मेति गीयते । अत्र देहं समुत्सृज्य पुण्यभाजो विशन्ति यम् ॥ ३० ॥ सूतः—आयुष्मन्, पश्य पश्य । एते तावत्कामक्रोधलोभादयोऽस्म- दर्शनमात्रादितो देशाद्दूरमतिक्रामन्ति । वाराणस्यां प्रवहन्ती गङ्गा भूमेर्मुक्तावलिरिव भासमाना स्वफेनैः चान्द्रीं कलां हसती वेत्युत्प्रेक्षा । शार्दूलविक्रीडितं वृत्तम् , लक्षणं प्रागुक्तम् ॥ २९ ॥ सुरसरित्परिसरालङ्कारभूतम्-गङ्गातीरालङ्कारायमाणम् । पावनम्-पवित्रताक- रम् । भगवतः-सर्वसामर्थ्यशालिनः । आदिकेशवनाम्ना प्रथितस्य विष्णोरायत- नम्-स्थानम् । इदमेकभागेऽवस्थितं विष्णुमन्दिरमतिप्रसिद्धं स्थानं यद्विषये स्मर्यते- ‘लोलार्ककेशवौ कोटी गङ्गाज्या नगरं धनुः । कलिर्लक्ष्यः शरोधर्मः शिवो धन्वी पुनातु माम्’ इति । एष देव इति० एष देवः आदिकेशवः पुराविद्भिः प्राग्भवकथातत्त्वज्ञैः क्षेत्रस्य काशीधाम्नः आत्मा सारभूतः गीयते सादरमुद्घोष्यते, यम् आदिकेशवम् विष्णुम् अत्र वाराणस्यां देहं समुत्सृज्य मृत्वा पुण्यभाजः पुण्यकर्माणो योगिनो विशन्ति तदात्मतां प्रतिपद्यन्ते । इदमेव तत्तीर्थं यत्र मृतानां विष्णुप्राप्तिः सुलभा भवतीति तात्पर्यार्थम् । यथोक्तं काशीखण्डे-‘आदौ पादोदके तीर्थे विद्धि मामादिकेशवम् । अग्निविन्दोर्महाप्राज्ञ भक्तानां मुक्तिदायकम् ॥ अविमुक्तेऽमृतक्षेत्रे येऽर्चयन्त्यादि- केशवम् । तेऽमृतत्वं भजन्त्येवं सर्वदुःखविवर्जिताः' । इति ॥ ३० ॥ अस्मद्दर्शनमात्रात्-केवलदस्माकं विलोकनात् । दूरमतिक्रामन्ति-विप्रकृष्टे देशे पलायन्ते । एवमेतत्-त्वदुक्तं सत्यमित्यर्थः । स्वाभीष्टसिद्धये-निजाभिमतलाभार्थम् । सूत—(चलकर) आयुष्मन्, देखिये देखिये, गङ्गाके तटका अलङ्कारभूत यह भगवान् आदिकेशवका पवित्र मन्दिर है । राजा—(हर्षसे) अरे— पुराने लोग इन्हींको इस क्षेत्र (देह) की आत्मा कहते हैं, यहाँ शरीरत्याग करने वाले पुण्यात्मा जिस आत्मामें लीन हुआ करते हैं ॥ ३० ॥ सूत—आयुष्मन्, देखिये देखिये, ये काम-क्रोध-लोभ आदि हमारे दर्शनमात्रसे इस देशसे दूर भागे जा रहे हैं ।

चतुर्थोऽङ्कः १६३ राजा—एवमेतत् । तद्भवतु । स्वाभीष्टसिद्धये भगवन्तं नमस्यामः । ( रथादवतीर्य प्रविश्यावलोक्य च ) जय जय भगवन्, अमरचयचक्रचूडा- मणिश्रेणिनीराजितोपान्तपादद्वयाम्भोज, राजन्नखद्योतखद्योतकिर्मीरितस्व- र्णपीठस्फुरद्वैतविभ्रान्तिसंतानसंतप्तवन्दारुसंसारनिद्रापहारैकदक्ष, क्ष्मा- मण्डलोद्धारसंभारसंघट्टदंष्ट्राग्रकोटिस्फुरच्छैलचक्र, क्रमाक्रान्तलोकत्रय, प्रबलभुजबलोद्धृतगोवर्धनच्छत्रनिवारिताखण्डलोयोजिताकाण्डचण्डा- अमरचयचक्रम्-देवसमूहः, तस्य चूडामणिश्रेणी-मस्तकालङ्कारपरम्परा, तया नीराजितोपान्तम् कृतारार्त्तिकम् पादद्वयाम्भोजम् कमलरूपचरणयुगलम् यस्य तस्य सम्बुद्धौ अम्भोजान्तमेकं पदम् । देवगणा यस्य पादद्वयरूपमम्भोजं प्रणमन्ति तैस्तथाऽऽचर्यमाणे तन्मस्तकालङ्कारभूतमणिगणप्रभया भगवच्चरणकमलप्रान्तो नीराजित इव भवतीति कृत्येषमुत्प्रेक्षा । राजन्तः शोभमानाः ये नखाः कररुहाः तेषां द्योताः प्रकाशा एव खद्योतास्तैःकिर्मीरितं चित्रीकृतम् स्वर्णपीठम् स्वर्णमय- मासनं यस्य तादृश, इदं पीठान्तमेकं पृथक् सम्बोधनपदम् । स्फुरन्ती चिरानुवर्त्त- माना या द्वैतविभ्रान्तिः भ्रमरूपं द्वैतज्ञानं तस्य सन्तानेन परम्परया सन्तप्तानाम् पीडितानां वन्दारूणाम् स्तुतिकराणां संसारनिद्रा संसारस्वरूपोऽबोधस्तस्या अप- हारे विनाशने एकदक्ष सहायान्तरनिरपेक्षभावेन समर्थ, दक्षान्तमपरं सम्बो- धनम् , तस्य द्वैतभ्रान्तिपरम्परापतितजनानां स्तुतिपराणां संसारवासना निवर्त्तन- पटो इत्यर्थः फलति । एतेन बुद्धस्य भगवतः स्तुतिः कृता क्ष्मा पृथिवी तस्या मण्डलं वलयस्तस्य उद्धारसंभारे सलीलादुद्धरणप्रयासे यः सङ्घट्टः स्पर्शः तत्र दंष्ट्राग्रकोटौ दन्ताग्रभागे स्फुरन्ति प्रकाशमानानि शैलचक्राणि यस्य तादृश, एतेन वराहावतारः स्तुतः, स हि धरामण्डलं जले प्रलयकालिके मग्नमुद्धृतवान् , तथा- कुर्वतस्तस्य दंष्ट्राग्रभागे शैला अभासन्तेत्याशयः । उक्तश्चायमर्थः प्रकारान्तरेण गीत- गोविन्दे-‘लसति दशनशिखरे धरणी तव लग्ना, शशिनि कलङ्ककलेव निमग्ना' इति । क्रमेण पादविन्यासेन आक्रान्तम् लोकत्रयं येन तादृश, इयं वामनस्तुतिः राजा—यही बात है । अस्तु, अपने अभीष्ट वस्तुकी सिद्धिके लिये भगवान्‌को प्रणाम कर लें । (रथसे उतरकर प्रवेश करके तथा देखकर) जय जय भगवन्, देवगणकी चूडामणि- श्रेणीसे नीराजित पादकमलयुगलवाले, शोभमान नखकी द्युतिसे चित्रवर्ण स्वर्णपीठ, द्वैत- विभ्रमसे सन्तप्त तथा प्रगत देवगणकी संसार-वासनाको दूर करनेमे निपुण, पृथ्वीमण्डलके उद्धारप्रयासमे दन्ताग्रशोभित शैल, चरणन्याससे लोकत्रयको आक्रान्त कर लेने वाले, प्रबल भुजसे गोवर्धन उठाकर उसी गोवर्धनको छत्र बनाकर इन्द्रद्वारा आयोजित घोर वृष्टिको त्रस्त

१६४ प्रबोधचन्द्रोदयम् म्बुवाहातिवर्षत्रसद्गोकुलत्राणविस्मापिताशेषविश्व, प्रभो, विबुधरिपुवधूवर्ग- सीमन्तसिन्दूरसन्ध्यामयूखच्छटोन्मार्जनोद्दामधामाधिप, त्रस्तदैत्येन्द्रव- क्षस्तटीपाटनाकुण्ठभास्वन्नखश्रेणिपाणिद्वयस्रस्तविस्तारिरक्तार्णवामग्नलोक- त्रय, त्रिभुवनरिपुकैटभोद्दण्डकण्ठास्थिकूटस्फुटोन्मार्जितोद्दामचक्रस्फुरज्ज्यो- स्पष्टा । प्रबलेन भुजबलेन बाहुपराक्रमेण उद्धृतः उत्थापितो यः गोवर्द्धनस्तदाख्यो गिरिः स एव छत्रम् ( वर्षनिवारकत्वेन छत्रत्वारोपः ) तेन निवारितः निरुद्धः आखण्डलोयोजितः इन्द्रकृतः अकाण्डे अकाले चण्डाम्बुवाहातिवर्षः प्रचण्डमेघ- कृता भीषणावृष्टिः, ततः त्रसतः भयाकुलस्य गोकुलस्य त्राणेन रक्षया विस्मापितम् आश्चर्यं गमितम् अशेषविश्वम् समस्तसंसारो येन तादृश, इदं विश्रान्तमेकमपरं सम्बोधनं यन्न कृष्णावतारस्तुतिः । पुरा कुपित इन्द्रः संवर्त्तकादिमेघान्प्रबलवृष्टये समादिश्य व्रजमुत्पीडयितुं प्रवृत्तस्तदा गोकुलमुत्थाप्य छत्रमिव कृत्वा गोकुलं कृष्णोऽरक्षदिति कथैवात्र स्तुतौ निबद्धा बोध्या । विबुधा देवास्तेषां रिपवः शत्रवो राक्षसास्तेषां वधूवर्गस्य स्त्रीसमूहस्य सीमन्तसिन्दूरम् भालवर्त्तिनीसिन्दूररेखा पति- सनाथताचिह्नभूता सैव सन्ध्यामयूखच्छटा सायं किरणप्रभासमा, तस्या उन्मार्जने प्रोञ्छने उद्दामस्य दृप्तस्य धाम्नः तेजसोऽधिप स्वामिन्, येन राक्षसान् व्यापाद्य तद्वधूसिन्दूरमार्जना कृता तादृश, इति रामस्तुतिः, त्रस्तः भीतो यो दैत्येन्द्रः हिर- ण्यकशिपुस्तस्य वक्षस्तट्याः उरोदेशस्य पाटने विदारणे अकुण्ठा अप्रतिहता या भास्वन्नखश्रेणिः प्रभामयनखरराजिः तद्युक्तं यत्पाणिद्वयं तेन स्रस्तम् प्रवाहितं यद् विस्तारिप्रसरणशील रक्तम् तस्यार्णवे समुद्रे आमग्नं बुडितं लोकत्रयं येन तादृश, इयं नृसिंहस्तुतिः । नृसिंहो हि भक्तवत्सलतया हिरण्यकशिपोरुरो विदार्य तच्छोणितं प्रवाहयामास, तदेवात्रोत्प्रेक्षितं बोध्यम् । त्रिभुवनरिपोः त्रिलोकीशत्रोः कैटभस्य तदाख्यस्य यदुद्दण्डकण्ठास्थिकूटम् भयङ्करकण्ठास्थिसङ्घातः तत्र स्फुटो- न्मार्जितम् प्रकटप्रहृतम् यदुद्दामचक्रम् अतितीक्ष्णं चक्रास्त्रम् ततः स्फुरता ज्योतिषा तेजसा उल्लासितं प्रकाशितमुद्दामं भीषणं दोर्दण्डं बाहुद्वयं यस्य तादृश, इयं कैट- गोकुलका त्राण करके लोकको विलपमें डालने वाले, प्रभो, दानवललनावर्गके भाल स्थलमें जो सिन्दूररूप सन्ध्या उसे दूर करनेमें सूर्यरूप, भीत हिरण्यकशिपुकी छातीको चीरनेमे नहीं रुकने वाले चमकदार नखवाले पाणिद्वयसे चूनेवाले रक्तप्रवाहमें लोकत्रयको डुबा देने वाले, त्रिभुवनवैरी कैटभके उद्दण्डकण्ठरूप अस्थिकूट पर तीक्ष्णधार किया गया जो उद्दाम चक्र उसकी ज्योतिसे जिसके बाहु चमक उठे, एतादृश, चन्द्रशेखरके प्रीतिपात्र, समर्थ

चतुर्थोऽङ्कः १६५ तिरुल्लासितोद्दामदोर्दण्डखण्डेन्दुचूडप्रिय, प्रौढदोर्दण्डविभ्रान्तमन्थाचल- क्षुब्धदुग्धाम्बुधिप्रोत्थितश्रीभुजवल्लीसंश्लेषसंक्रान्तपीनस्तनाभोगपत्रावली- लाञ्छितोरस्थल, स्थूलमुक्ताफलोदारहारप्रभामण्डलस्फुरत्कण्ठ, वैकुण्ठ, भक्तस्य लोकस्य संसारमोहच्छिदं देहि बोधोदयं देव तुभ्यं नमः। (निर्गमनं नाटयित्वा विलोक्य च) साधुरयमेवास्माकं निवासोचितो देशः। तदत्रैव स्कन्धावारं निवेशयामः। (इति निष्क्रान्तौ) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके विवेकोद्योगो नाम चतुर्थोऽङ्कः ॥ ४ ॥ भारैः स्तुतिः। प्रौढाभ्यां बलातिशयशालिभ्यां दोर्दण्डाभ्यां बाहुदण्डाभ्यां विभ्रान्तः चालितो यो मन्थाचलः समुद्रमन्थने मथानभावेनोपयुज्यमानः पर्वतस्तेन क्षुब्धात् आलोडितात् दुग्धाम्बुधेः क्षीरसागरात् प्रोत्थिता निःसृता या श्रीः लक्ष्मीः तस्याः भुजवल्ली बाहुलता तया संश्लेपः आलिङ्गनं तेन संक्रान्ता या पीनस्तनाभोगपत्रा- वली स्थूलकुचविस्तारचित्रावली तया लाञ्छितं युक्तमुरःस्थलं वक्षोदेशो यस्य तादृश, इदं सामान्येन विष्णुसम्बोधनम्। स्थूलम् बृहत् मुक्ताफलम् मुक्ता तत्कृतो य उदारः दीर्घः हारस्तस्य प्रभामण्डलेन कान्त्या स्फुरन् भासमानः कण्ठो यस्य तादृश, मुक्तामालादीपितकण्ठेत्यर्थः। संसारमोहच्छिदं-भववासनानिवर्त्तकम्। बोधोदयम्-ज्ञानप्रकाशम्। स्कन्धावारम्-कटकम्। निवेशयामः-स्थापयामः। इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते प्रबोधचन्द्रोदय'प्रकाशे' चतुर्थाङ्क-'प्रकाशः' बाहुदण्ड द्वारा घुमाया गया जो मन्थाचल उससे सञ्चालित दुग्ध-समुद्रसे उठी लक्ष्मीके आलिङ्गनसे उसके स्तनों में बनी पत्रावलीसे युक्त है वक्ष प्रदेश जिसका, एतादृश, जिसके गर्दनमें बड़ी बड़ी मुक्तामालायें अपनी प्रभा फैला रही हैं एतादृश, वैकुण्ठ, भक्त- जनके संसारमोहको दूर करने वाले बोधोदयको प्रकट करें, देव, आपको नमस्कार है। (निकलनेका अभिनय करके और देखकर) यही हमलोगोंके रहने लायक देश है। यहीं पर सेनाका पड़ाव डालते हैं। (दोनोंका प्रस्थान) चतुर्थ अङ्क समाप्त

पञ्चमोऽङ्कः ( ततः प्रविशति श्रद्धा ) श्रद्धाः—( विचिन्त्य ) प्रसिद्धः खल्वयं पन्थाः । यतः— निर्दहति कुलविशेषं ज्ञातीनां वैरसंभवः क्रोधः । वनमिव घनपवनाहततरुवरसंघट्टसंभवो दहनः ॥ १ ॥ ( सास्रम् ) अहो दुर्वारो दारुणः सोदर्यव्यसनजन्मा शोकानलः, यो विवेकजलधरशतैरपि न मन्दीक्रियते । तथाहि— प्रसिद्धः-ख्यातः । पन्थाः-मार्गः । निर्दहतीति० ज्ञातीनाम् सगोत्रबन्धूनाम् वैरसम्भवः विरोधजनितः क्रोधः कोपः कुलविशेषम् किमपि गोत्रम् घनपवनेन प्रचण्डवायुना आहतानाम् आन्दोलि- तानाम् तरुवराणाम् वृक्षाणाम् सङ्घट्टेन सङ्घर्षेण सम्भवो जन्म यस्य तादृशः दहनः पावकः वनमिव निर्दहति अशेषं विनाशयति यथा प्रचण्डपवनान्दोलिततरुशा- खान्तर्निघर्षजन्मावह्निरखिलं वनं दहति तद्वद्वन्धुविरोधभवोऽपि क्रोधोऽशेषं कुलं दहतीत्यर्थः । उक्तमन्यत्र यथा—'अखिलं हि हिनस्ति भूधरं तरुशाखान्तर्निघर्ष- जोऽनलः' इति । बन्धुविरोधस्य भयावहत्वमुक्तं महाभारते यथा—'धूमायन्ते व्यपेतानि संहतानि ज्वलन्ति च उल्मुकानीव दृश्यन्ते ज्ञातयो भरतर्षभ' । आर्या- भेदो वृत्तम्—तल्लक्षणं यथा—'यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या' इति ॥ १ ॥ दुर्वारः-कठिननिरोधः । दारुणः-भयङ्करः । सोदर्यव्यसनजन्मा-बन्धुविनाश- प्रभवः । शोकानलः-दुःखपावकः । विवेकजलधरशतैः-अनेकज्ञानजलदैः । अन्यो वह्निरेकेनापि मेघेनामूलं विनाशयतेऽयन्तु शोकपावकः शतशो हृदयमारोपितैरपि भूरिभिरपि ज्ञानमेघैर्मन्दीभावमपि न लम्भ्यते इति दारुणत्वमस्येतरवह्न्यति- शायीति भावः । मन्दीक्रियते-लघूक्रियते । ( श्रद्धाका प्रवेश ) श्रद्धा—( सोचकर ) यह मार्ग तो प्रशस्य ही है, क्योंकि— ज्ञातियोंमे वैरसे उत्पन्न क्रोध समस्त कुलका संहार कर देता है जैसे जोरकी हवासे चलित वृक्षशाखा सङ्घर्षजन्मा अनल सम्पूर्ण वनको जला डालता है ॥ १ ॥ ( रोकर ) सोदरकी मृत्युसे उत्पन्न शोकानल अतिदारुण होता है, जिसे सौ विवेक मेघ भी नहीं शान्त कर पाते हैं ।

पञ्चमोऽङ्कः १६७ ध्रुवं ध्वंसो भावी जलनिधिमहीशैलसरिता- मतो मृत्योः शीर्यत्तृणलघुषु का जन्तुषु कथा । तथाप्युच्चैर्बन्धुव्यसनजनितः कोऽपि विषमो विवेकप्रोन्माथी दहति हृदयं शोकदहनः ॥ २ ॥ येन तथा कुलप्रकृतिष्वपि, भ्रातृषु कामक्रोधादिषु कथाशेषतांगतेषु । निकृन्ततीव मर्माणि देहं शोषयतीव मे । दहतीवान्तरात्मानं क्रूरः शोकाग्निरुच्छिखः ॥ ३ ॥ ध्रुवमिति० जलनिधयः सागराः, मही पृथिवी, शैलाः पर्वताः, सरितः नद्यः- एषाम् ध्वंसः आत्यन्तिकविनाशः ध्रुवं निश्चयेन भावी भविष्यति, अतः अस्मात् शीर्यत्तृणलघुषु त्रुट्यत्तृणतुच्छेषु जन्तुषु साधारणप्राणि मृत्योः का कथा ? मरण- विषये को विचारः ? निश्चित एव हि प्राणिनां मृत्युस्तेषामतितुच्छत्वात् यदि सागरमहीशैलसरितोऽपि हि नाशभाजस्तदेषां तुच्छानां प्राणिनां मृत्योः का कथेति । तथा चानुमानप्रयोगः-भूधरादिकं कार्यम् सावयवत्वात् , यद्यच्च साव- यवं कार्यं तत्तद्विनाशीति' । अनुगृहीतश्चायमनुमानप्रयोगो भगवद्वाक्येनापि- 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च' इति । तथापि एतादृशशास्त्रयुक्तिपरि- ज्ञानेऽपि विवेकप्रोन्माथी ज्ञानभ्रंशकरः विषमः अतिसन्तापकः कोऽपि अनिर्वर्ण- नीयस्वरूपः उच्चैः भयङ्करः बन्धुव्यसनजनितः ज्ञातिविनाशजन्मा शोकदहनः दुःखपावकः हृदयम् चित्तं दहति बलवद्व्यथयति । यद्यपि शास्त्रयुक्तिभिः संसार- स्यानित्यत्वमास्थीयते तथापि ज्ञानं तिरयन्बन्धुवियोगवह्निर्हृदयमतितरां तापयती- त्याशयः । शिखरिणीवृत्तम् , लक्षणं प्रागुक्तम् ॥ २ ॥ कुलप्रकृतिषु-वंशपरम्पराप्रवर्त्तकेषु कथाशेषतांगतेषु-स्मरणीयतां प्राप्तेषु मृते- ष्वित्यर्थः । निकृन्ततीवेति० क्रूरः अत्यर्थतापकतया कठोरः उच्छिखः समुत्थितज्वालः शोकाग्निः बन्धुवधजन्यखेदपावकः मे मम मर्माणि हृदयदेशान् निकृन्तति छिनत्ति इव, देहं कायं शोषयति सन्तापेन कदर्थयति इव, अन्तरात्मानम् दहति ज्वलयति इव, सागर, पृथ्वी, शैल और सरित्का नाश अवश्यंभावी है, फिर मौतके डरसे सिहरने वाले तृणतुल्य इन जन्तुओं की क्या बात है ? फिर भी प्रियबन्धुके व्यसनोंसे पैदा होने वाला विवेकापहारी विषम शोकवह्नि हृदयको झुलसा देता है ॥ २ ॥ जिससे कुलतन्तुप्रवर्त्तक भाई कामक्रोध आदिके मरनेसे- क्रूर तथा दहकती हुई यह शोकवह्नि मर्मको चीर रही है-देहको शुष्क कर रही है और अन्तरात्माको जला-सी रही है ॥ ३ ॥

१६८ प्रबोधचन्द्रोदयम् ( विचिन्त्य ) आदिष्टास्मि देव्या विष्णुभक्त्या । वत्से श्रद्धे, अहमत्र हिंसाप्रायसमरदर्शनपराङ्मुखी । तेन वाराणसीमुत्सृज्य शालिग्रामाभि- धाने भगवतः क्षेत्रे कंचित्कालमतिपालयामि । त्वं तु यथावृत्तमागत्य मे निवेदयिष्यसीति । तदहं देव्याः सकाशं गत्वा सर्वमेतत्समरवृत्तान्तमा- वेदयामि । ( परिक्रम्यावलोक्य च ) एतच्चक्रतीर्थम् । यत्रासौ संसारसागरो- त्तारतरणिकर्णधारो भगवान् हरिः स्वयं प्रतिवसति । ( प्रणम्य ) इयं च महामुनिभिरुपास्यमाना भगवती विष्णुभक्तिः शान्त्या सह किमपि मन्त्र- यते । यावदुपसर्पामि । ( इति परिक्रामति ) ( ततः प्रविशति विष्णुभक्तिः शान्तिश्च ) शान्तिः—देवि, प्रबलचिन्ताकुलहृदयामिव भवतीमालोकयामि । बन्धुवधजन्मशोकाग्निर्ममान्तःकरणं छिन्दन् कायं क्लिश्यन् अन्तरात्मानञ्च दहन्निव प्रवर्धत इत्यर्थः ॥ ३ ॥ हिंसाप्रायसमरदर्शनपराङ्मुखी-हिंसामययुद्धावलोकनविमुखी । तेन-वैमुख्येन अतिपातयामि-गमयामि । वृत्तम्-समाचारः । समरवृत्तान्तम्-युद्धसमाचारम् । आवेदयामि-सूचयामि । संसार एव सागरः समुद्रस्तत उत्तारः पारगमनं तत्र या तरणिः नौः तस्याः कर्णधारः नाविकः । यः संसारसागरादुद्धारकः, यमाश्रित्य जनो भवभयादुद्धारमवाप्नोतीति तात्पर्यम् । महामुनिभिः-महर्षिभिः, उपास्यमाना- सेव्यमाना । मन्त्रयते-विचारयति । प्रबलचिन्ताकुलहृदयाम्-महत्या चिन्तया व्याकुलमनसम् । ( सोचकर ) देवी विष्णुभक्तिने आदेश दिया है—वत्से श्रद्धे, मै हिंसाप्रधान युद्ध नहीं देख सकती । अतः वाराणसी छोड़कर शालग्राम नामक क्षेत्रमें कुछ दिन प्रतीक्षा करूंगी । तुम आकर यथावृत्त समाचार मुझे बताती रहना । और मै देवीके समीप जाकर सारा युद्ध वृत्तान्त बताऊ गी । ( चलकर और देखकर ) यही तो है चक्रतीर्थ । जहाँ संसारसागरसे पार उतारने वाले स्वयं भगवान् हरि निवास करते हैं । ( प्रणाम करके ) ये हैं महामुनियोंसे आराधित भगवती विष्णुभक्ति जो शान्तिके साथ कुछ बातें कर रही हैं, जब तक समीप जाता हूं । ( समीप जाती है ) ( विष्णु भक्ति और शान्तिका प्रवेश ) शान्ति—देवि, आपको प्रबल चिन्तासे युक्त हृदय देख रही हूँ ।

पञ्चमोऽङ्कः १६६ विष्णुभक्तिः—वत्से, एतस्मिन् वीरवरक्षये महति संप्राये जाते न जाने बलवता महामोहेनाभियुक्तस्य वत्सस्यविवेकस्य कीदृशो वृत्तान्त इति दुःस्थितमिव मे हृदयम् । शान्तिः—किमत्र विचिन्त्यते । ननु भगवती देवानुग्रहा तन्नियत- मेव राज्ञो विवेकस्य विजय इति जानामि । विष्णुभक्तिः—वत्से, यद्यप्यभ्युदयः प्रायः प्रमाणादवधार्यते । कामं तथापि सुहृदामनिष्टाशङ्कि मानसम् ॥ ४ ॥ विशेषतश्च श्रद्धायाश्चिरगमनान्मनो मनसि संदेहमारोपयति । श्रद्धा:—( उपसृत्य ) भगवति, प्रणमामि । वीरवरक्षये-योधप्रधानावनाशकारणे । सम्प्राये-युद्धे । अभियुक्तस्य-युद्धोद्य- तस्य । दुःस्थितम्-व्यग्रम् । कृतानुग्रहा-प्रसन्ना । नियतम्-निश्चितम् । यद्यपीति० यद्यपि यद्यपि प्रमाणात् प्रमाणसाधनसमूहात् विजयः प्रायः सम्भवतः अवधार्यते अनुमीयते, प्रायः, तथापि विजयस्य सम्भावनाविषयत्वेऽपि सुहृदाम् युध्यमानजनमित्राणाम् मानसम् हृदयम् अनिष्टाशङ्कि अहितसम्भावनापरम् 'स्नेहः पापमाशङ्कते' इति न्यायेन सत्यामपि जयसम्भावनायां हृदयं पदं नार्धायते इत्यर्थः । प्रमाणसिद्धमन्यद्भवतु, हृदयं तु पापमेव ध्यायति, तस्य तद्विषये नातिशय- स्नेहवत्त्वात् । तदहं तद्विजये सन्दिग्धानहृदया जाये इति तात्पर्यार्थम् ॥ ४ ॥ विशेषतः-प्रधानभावेन । यदि विवेकस्य विजयः प्राप्स्यत नूनं श्रद्धाऽऽगत्य मह्यं तं समाचारमसूचयिष्यन्न चागता सा, तदहं सन्देहं वहामीति प्रसङ्गार्थः । विष्णुभक्ति—वत्से, वीरक्षयकर इस युद्धमे बलवान् महामोही अभियुक्त वत्स विवेकका क्या समाचार होगा ? इसीसे हमारा हृदय विकल है । शान्ति—इसमे चिन्ताकी क्या बात है ? जब आपकी कृपा है तो मै जानती हूँ कि निश्चय राजा विवेककी जीत होगी । विष्णुभक्ति—वत्से, यद्यपि प्रमाणसे अभ्युदय प्रमाणित होता है तथापि हितैषियोंका हृदय अनिष्टकी आशङ्का ही किया करता है ॥ ४ ॥ खास करके चिन्ताका कारण यह हो रहा है कि बहुत दिनोंसे श्रद्धा नहीं आई है । श्रद्धा—( समीप जाकर ) भगवति, प्रणाम करती हू ।

१७० प्रबोधचन्द्रोदयम् विष्णुभक्तिः—श्रद्धे, स्वागतम् । श्रद्धा—देव्याः प्रसादेन । शान्तिः—अम्ब, प्रणमामि । श्रद्धा—पुत्रि, मां परिष्वजस्व । शान्तिः—( तथा करोति ) श्रद्धा—वत्से, देव्या विष्णुभक्तेः प्रसादान्मुनिजनचेतःपदं प्राप्नुहि । विष्णुभक्तिः—अथ तत्र किं वृत्तम् ? श्रद्धा—यद्देव्याः प्रतिकूलमाचरतामुचितम् । विष्णुभक्तिः—तद्विस्तरेणावेद्य । श्रद्धा—आकर्णयतु भवती । देव्यामादिकेशवायतनादपक्रान्तायामेव किंचिदुत्सृष्टपाटलिम्नि भगवति भास्वति, विजयघोषणाहूयमानेकवरवीर- बहुलतरसिंहनादबधिरितदिगन्ते संततरथतुरङ्गखुरखण्डितभूमण्डलोच्छ- परिष्वजस्व-आलिङ्ग । प्रसादात्-अनुग्रहात् । मुनिजनचेतःपदम्-मुनिजनानां हृदये स्थानम् । तत्र-विवेकमोहयोर्युद्धे । प्रतिकूलम्-विरुद्धम् । उचितम्-योग्यम् । आकर्णयतु-शृणोतु । आदिकेशवायतनात्-केशवाख्यविष्णुमन्दिरात् । अपक्रान्ता- याम्-प्रचलितायाम् । उत्सृष्टपाटलिम्नि-त्यक्तलौहित्ये, रक्तिमान जहतीत्यर्थः । विष्णुभक्ति—श्रद्धे, तुम्हारा स्वागत है। श्रद्धा—देवीके प्रसादसे। शान्ति—मां, प्रणाम करती हूं। श्रद्धा—बेटी, मेरे गले लग जा। शान्ति—(वैसा करती है) श्रद्धा—वत्से, देवी विष्णुभक्तिके प्रसादसे मुनिजनके हृदयमे स्थान प्राप्त करो। विष्णुभक्ति—और वहाँका क्या समाचार है? श्रद्धा—देवीके विरुद्ध आचरण करने वालोंके लिये जो उचित है। विष्णुभक्ति—तो विस्तारसे बताओ। श्रद्धा—आप सुने, आपके केशवायतनसे हटते ही सूरजकी लालिमाके कुछ कम होने पर विजय घोषणासे आहूत अनेक वीरवर बार बार सिंहनाद करके दिशाओंको