प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 184, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ( ततः प्रविशति श्रद्धा ) श्रद्धाः—( विचिन्त्य ) प्रसिद्धः खल्वयं पन्थाः । यतः— निर्दहति कुलविशेषं ज्ञातीनां वैरसंभवः क्रोधः । वनमिव घनपवनाहततरुवरसंघट्टसंभवो दहनः ॥ १ ॥ ( सास्रम् ) अहो दुर्वारो दारुणः सोदर्यव्यसनजन्मा शोकानलः, यो विवेकजलधरशतैरपि न मन्दीक्रियते । तथाहि— प्रसिद्धः-ख्यातः । पन्थाः-मार्गः । निर्दहतीति० ज्ञातीनाम् सगोत्रबन्धूनाम् वैरसम्भवः विरोधजनितः क्रोधः कोपः कुलविशेषम् किमपि गोत्रम् घनपवनेन प्रचण्डवायुना आहतानाम् आन्दोलि- तानाम् तरुवराणाम् वृक्षाणाम् सङ्घट्टेन सङ्घर्षेण सम्भवो जन्म यस्य तादृशः दहनः पावकः वनमिव निर्दहति अशेषं विनाशयति यथा प्रचण्डपवनान्दोलिततरुशा- खान्तर्निघर्षजन्मावह्निरखिलं वनं दहति तद्वद्वन्धुविरोधभवोऽपि क्रोधोऽशेषं कुलं दहतीत्यर्थः । उक्तमन्यत्र यथा—'अखिलं हि हिनस्ति भूधरं तरुशाखान्तर्निघर्ष- जोऽनलः' इति । बन्धुविरोधस्य भयावहत्वमुक्तं महाभारते यथा—'धूमायन्ते व्यपेतानि संहतानि ज्वलन्ति च उल्मुकानीव दृश्यन्ते ज्ञातयो भरतर्षभ' । आर्या- भेदो वृत्तम्—तल्लक्षणं यथा—'यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या' इति ॥ १ ॥ दुर्वारः-कठिननिरोधः । दारुणः-भयङ्करः । सोदर्यव्यसनजन्मा-बन्धुविनाश- प्रभवः । शोकानलः-दुःखपावकः । विवेकजलधरशतैः-अनेकज्ञानजलदैः । अन्यो वह्निरेकेनापि मेघेनामूलं विनाशयतेऽयन्तु शोकपावकः शतशो हृदयमारोपितैरपि भूरिभिरपि ज्ञानमेघैर्मन्दीभावमपि न लम्भ्यते इति दारुणत्वमस्येतरवह्न्यति- शायीति भावः । मन्दीक्रियते-लघूक्रियते । ( श्रद्धाका प्रवेश ) श्रद्धा—( सोचकर ) यह मार्ग तो प्रशस्य ही है, क्योंकि— ज्ञातियोंमे वैरसे उत्पन्न क्रोध समस्त कुलका संहार कर देता है जैसे जोरकी हवासे चलित वृक्षशाखा सङ्घर्षजन्मा अनल सम्पूर्ण वनको जला डालता है ॥ १ ॥ ( रोकर ) सोदरकी मृत्युसे उत्पन्न शोकानल अतिदारुण होता है, जिसे सौ विवेक मेघ भी नहीं शान्त कर पाते हैं ।