प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 185, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १६७ ध्रुवं ध्वंसो भावी जलनिधिमहीशैलसरिता- मतो मृत्योः शीर्यत्तृणलघुषु का जन्तुषु कथा । तथाप्युच्चैर्बन्धुव्यसनजनितः कोऽपि विषमो विवेकप्रोन्माथी दहति हृदयं शोकदहनः ॥ २ ॥ येन तथा कुलप्रकृतिष्वपि, भ्रातृषु कामक्रोधादिषु कथाशेषतांगतेषु । निकृन्ततीव मर्माणि देहं शोषयतीव मे । दहतीवान्तरात्मानं क्रूरः शोकाग्निरुच्छिखः ॥ ३ ॥ ध्रुवमिति० जलनिधयः सागराः, मही पृथिवी, शैलाः पर्वताः, सरितः नद्यः- एषाम् ध्वंसः आत्यन्तिकविनाशः ध्रुवं निश्चयेन भावी भविष्यति, अतः अस्मात् शीर्यत्तृणलघुषु त्रुट्यत्तृणतुच्छेषु जन्तुषु साधारणप्राणि मृत्योः का कथा ? मरण- विषये को विचारः ? निश्चित एव हि प्राणिनां मृत्युस्तेषामतितुच्छत्वात् यदि सागरमहीशैलसरितोऽपि हि नाशभाजस्तदेषां तुच्छानां प्राणिनां मृत्योः का कथेति । तथा चानुमानप्रयोगः-भूधरादिकं कार्यम् सावयवत्वात् , यद्यच्च साव- यवं कार्यं तत्तद्विनाशीति' । अनुगृहीतश्चायमनुमानप्रयोगो भगवद्वाक्येनापि- 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च' इति । तथापि एतादृशशास्त्रयुक्तिपरि- ज्ञानेऽपि विवेकप्रोन्माथी ज्ञानभ्रंशकरः विषमः अतिसन्तापकः कोऽपि अनिर्वर्ण- नीयस्वरूपः उच्चैः भयङ्करः बन्धुव्यसनजनितः ज्ञातिविनाशजन्मा शोकदहनः दुःखपावकः हृदयम् चित्तं दहति बलवद्व्यथयति । यद्यपि शास्त्रयुक्तिभिः संसार- स्यानित्यत्वमास्थीयते तथापि ज्ञानं तिरयन्बन्धुवियोगवह्निर्हृदयमतितरां तापयती- त्याशयः । शिखरिणीवृत्तम् , लक्षणं प्रागुक्तम् ॥ २ ॥ कुलप्रकृतिषु-वंशपरम्पराप्रवर्त्तकेषु कथाशेषतांगतेषु-स्मरणीयतां प्राप्तेषु मृते- ष्वित्यर्थः । निकृन्ततीवेति० क्रूरः अत्यर्थतापकतया कठोरः उच्छिखः समुत्थितज्वालः शोकाग्निः बन्धुवधजन्यखेदपावकः मे मम मर्माणि हृदयदेशान् निकृन्तति छिनत्ति इव, देहं कायं शोषयति सन्तापेन कदर्थयति इव, अन्तरात्मानम् दहति ज्वलयति इव, सागर, पृथ्वी, शैल और सरित्का नाश अवश्यंभावी है, फिर मौतके डरसे सिहरने वाले तृणतुल्य इन जन्तुओं की क्या बात है ? फिर भी प्रियबन्धुके व्यसनोंसे पैदा होने वाला विवेकापहारी विषम शोकवह्नि हृदयको झुलसा देता है ॥ २ ॥ जिससे कुलतन्तुप्रवर्त्तक भाई कामक्रोध आदिके मरनेसे- क्रूर तथा दहकती हुई यह शोकवह्नि मर्मको चीर रही है-देहको शुष्क कर रही है और अन्तरात्माको जला-सी रही है ॥ ३ ॥