प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 178, कुल 274 में से
संदर्भ में पढ़ें१६० प्रबोधचन्द्रोदयम् एताश्च प्रतिमुकुलं लग्नमधुपावलीरणितमुखरा जृम्भारम्भभरविगलन्म- करन्दबिन्दुदुर्दिनाः कुसुमसुरभयो नातिदूरे श्यामायमानघनच्छदच्छाया- तरवो नगरपर्यन्तोद्यानभूमयः । यत्रैते मरुतोऽपि गृहीतपाशुपतव्रता धूलि- मुद्घूलयन्तस्तापसा इव लक्ष्यन्ते । तथाहि— तोयाद्राः सुरसरितः सिताः परागै- रचन्तश्च्युतकुसुमैरिवेन्दुमौलिम् । विलसन्ती शोभमाना या तडित् विद्युल्लता तस्या लेखा रेखा तस्या लक्ष्मीं शोभां वितरति विस्तारयति । एषां धारायन्त्रजलप्रयातमुखराणां शशिज्योत्स्नाभास्वराणां प्रसादानां शिखरेषु लसन्ती नानावर्णा पताकाराजिः शारदविमलघनमालाऽन्तर्व- र्त्तिविद्युच्छ्रिवं प्रकाशायतीत्यर्थः । शारदघनसादृश्ये न प्रासादानां निर्मलतातिशयः, विद्युत्तुलनया पताकानां चलता, तया च प्रासादानामुच्चता, धारायन्त्रजलपातेन भवनानां मुखरतया तत्र श्रीसमृद्धिरित्यादयोऽर्था व्यज्यन्ते । शिखरिणीवृत्तम्, लक्ष- णमुक्तपूर्वम् ॥ २७ ॥ एताश्चेति० प्रतिमुकुलं प्रत्येकत्र कोशे लग्ना या मधुपावलिः अमरपरम्परा तस्याः रणितेन शब्देन मुखराः सशब्दाः, ( इदमकं नगरपर्यन्तोद्यानभूमिविशेषणम् ) जृम्भायाः विकासस्य आरम्भः आद्या क्रिया तस्य भरः समुदयः सर्वतो विकास- आरम्भस्तस्मात् (पुष्पेभ्यः) विगलन् पतन् यः मकरन्दः पुष्परसः तस्य विन्दवः पृषताः तैः दुर्दिनं वृष्टिर्यासु तादृश्यः पुष्पविकासप्रारम्भे ततः स्रवन्मकरन्दवृष्टिमत्य इत्यर्थः । कुसुममुरभयः-सुगन्धिपुष्पाः, नातिदूरे-समीपे, श्यामायमानाः कृष्णवर्णाः घनच्छदाः सान्द्रपत्राः छायातरवः छायाप्रधानवृक्षा यत्र तादृश्यः । नगरपर्यन्तोद्या- नभूमयः-पुरीपरिसरारामभुवः । मरुतः-वायवः गृहीतपाशुपतव्रताः-आलम्बिता- शैवभावाः । धूलिमुद्धूलयन्तः-रजः प्रसारयन्तः । तापसाः-तपोरताः । वायवो धूलिमुत्पातयन्ति मन्ये ते पशुपतिभक्तिभरेणेव विभूतिं स्वतनों लिम्पन्ति, तेनैव पाशुपतव्रतग्रहीतृत्वमुत्प्रेक्षितम् ॥ तोयार्द्रा इति० वायूनां गृहीतपाशुपतत्वप्रयुक्तं तापसत्वमुत्प्रेक्षितमनुपदपातिना यह है नगर परिसरवर्ती उद्यान, जिनकी प्रत्येक कली पर भौरे गुञ्जार करते हैं, विकासके साथ मकरन्द वृष्टि हो रही है, कुसुमकी सुगन्ध फैल रही है, काले मेघकी तरह छाया- युत वृक्ष हैं। जहाँ पर वायु भी पाशुपत व्रत लेकर धूलिधूसर हो रही है, मानों तापस हो। क्योंकि— गङ्गाजलसे स्नान कर परागरूप विभूति लपेट कर वृक्षच्युत कुसुमोंसे शिवार्चन-सा