प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 177, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १५६ निर्मथ्यमानजलधिध्वनिघोरहेष- मेते रथं गगनसीम्नि वहन्ति वाहाः ॥ २६ ॥ इयं च नातिदूरे दर्शनपथमवतीर्णा त्रिभुवनपावनी वाराणसी नाम नगरी । अमी धारायन्त्रस्खलितजलझङ्कारमुखरा विभाव्यन्ते भूयः शशिकररुचः सौधशिखराः । विचित्रा यत्रोच्चैः शरदमलमेघान्तविलस- त्तडिल्लेखालक्ष्मीं वितरति पताकावलिरियम् ॥ २७ ॥ विषयीकृताः प्रबन्धेन अविच्छेदेन धावन्तः चलन्तः खुराग्रचयाः खुरशीर्षभागसमु- दयास्तैश्चुम्बितः स्पृष्टो भूमिभागः यैस्ते तथोक्ताः एते वाहाः अश्वाः निर्मथ्यमान- जलधिध्वनिघोरहेषम् मन्थनक्रियाऽऽलोड्यमानसमुद्रशब्दतुल्यशब्दम् यथा स्या- स्तथा गगनसीम्नि अन्तरिक्षे रथं वहति । धूलि उत्पतति येनाश्वानां खुरचयाः प्रत्यक्षगोचरतामनाचामन्तोऽनुमेया एव भवन्ति, सततधावनाद्धरास्पर्शश्च कदाचिदेव जायते, रणोत्काश्चाश्वास्तुलं शब्दं कुर्वते यः शब्दो मध्यमानस्य सागरस्य निर्घो- षमनुहरति, एवंभूता रथ्या आकाशदेश एव रथं कर्षन्तीति भावः । वेगवत्ता ध्वनिरत्र वेगवर्णने कालिदासोऽप्येवमाह—'वियति बहुतरं स्तोकमुर्व्यां प्रयाति' । वसन्त- तिलकं वृत्तम् ॥ २६ ॥ नातिदूरे समीपे । दर्शनपथमवतीर्णा-दृष्टौ समायाता । त्रिभुवनपाविनी-लोक- त्रयपवित्रताकरी । अमी इति० धारायन्त्रेभ्यः कृत्रिमजलप्रपातयन्त्रेभ्यस्खलितानां वेगवत् पततां जलानां झङ्कारेण शब्देन मुखराः सशब्दाः, शशिकररुचः चन्द्रकिरणवद्धवलकान्तयः सौधशिखराः प्रासादशृङ्गाणि भूयः पुनः पुनः विभाव्यन्ते दृश्यन्ते । यत्र सौध- शिखरेषु इयम् प्रत्यक्षीभवन्ती विचित्रा नानावर्णा पताकावलिः ध्वजपङ्क्तिः उच्चैः सातिशयभावेन शरदि तदाख्यऋतौ अमलाः स्वच्छा ये मेघा वारिदास्तेषामन्तर्मध्ये करण करती है, धूल उड रही है उसमे चरणकी आशुगभिताका अनुमान करना पड़ता है, इन घोड़ोंके चरण अग्रभाग-मात्रसे पृथ्वीको छूते है ॥ २६ ॥ यह समीपमें ही देख रही है भुवनपावनी वाराणसी नामकी नगरी । फव्वारेसे निर्गत जलसे झकृत तथा चन्द्रकरधवल सौधशिखर दीख रहे हैं, जिनपर लहराती हुई विचित्र पताकाए शरत्कालिक स्वच्छ मेघमे चमकती हुई विद्युल्लताकी शोभा धारण करती है ॥ २७ ॥