भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 189, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 189

पञ्चमोऽङ्कः १७१ लद्विपुलरजःपटलान्तरितकिरणमालिनि प्रबलतरकर्णतालास्फालनोच्छल- त्समदकरिकुम्भसिन्दूरसन्ध्यायमानदशदिशि प्रलयजलधरध्वानभीषणे तेषास्माकं संनद्धे सैन्यसागरे महाराजमहामोहस्य महाराजेन नैयायिक- दर्शनं दौत्येन प्रहितम् । गत्वा च तेनोक्तो महामोहः । विष्णोरायतान्यपास्य सरितां कूलान्यरण्यस्थलीः पुण्याः पुण्यकृतां मनांसि च भवान्म्लेच्छान्व्रजेत्सानुगः । भास्वति-सूर्ये । विजयघोषणया-जयशब्देन आहूयमानाः-युद्धार्थमाकार्यमाणा येऽ- नेके वरवीराः शूरश्रेष्ठास्तेषां बहुलतरेण सिंहनादेन युद्धोत्साहप्रभवघनगर्जितेन बधि- रितः शब्दान्तरग्रहणायोग्यतां गमितो दिगन्तो यत्र तस्मिन् , जातायां जयघोष- णायां तयैव वीरा आहूयन्ते, तेषां सिंहनादाश्च शब्दान्तराणि स्वशब्देरन्तरयितुं यदा प्रारम्भं कृतवन्तस्तदेत्यर्थः । सन्ततम् सर्वदा रथतुरगाणाम् रथाश्वानाम् खुरैः खण्डितात् कुट्टितात् भूमण्डलात् धरावल्यात् उच्छलताम् उपरिगच्छतां रजसां धूलीनां पटलेन समूहेन अन्तरितः तिरोभूतः किरणमाली सूर्यः यत्र तस्मिन् , तुरग- खुरोत्खातमहीसमुत्थरजोभरेण सूर्यं आच्छन्नतां गत इत्यर्थः । प्रबलतरं सम्भ्रमपूर्वकं कर्णतालास्फालनं कर्णचालनं तेन उच्छलता समुत्पतता समदकरिकुम्भसिन्दूरेण मत्तकरीन्द्रमस्तकवर्तिसिन्दूररजसा सन्ध्यायमाना दश दिशो यत्र तस्मिन् । प्रलय- जलधरध्वानभीषणे-प्रलयकालिकमेघवद्भयङ्करे । सन्नद्धे-युद्धोद्यते । सैन्यसागरे- सैनिकसमुद्रे । दौत्येन-दूतभावेन । प्रहितं-प्रेषितम् । तेन-न्यायदर्शनेन । विष्णोरिति० भवान् मोहः विष्णोः आयतानि मन्दिरादिस्थानानि सरिताम् नदी- नाम कूलानि तटानि, पुण्याः पवित्राः अरण्यस्थलीः वनभूमीः पुण्यकृतां धर्मात्मनां मनांसि च अपास्य त्यक्त्वा सानुगः कामक्रोधाद्यनुगामियुक्तः म्लेच्छान् म्लेच्छ- शब्दग्रहणअसमर्थ बनाने लगे, सतत चारों रथमे लगे हुए घोड़ों के खुर पड़नेसे भूमण्डलके धूली समूहसे सूरज छिप गये, प्रबलतर कर्णतालके आस्फालनसे उड़ते हुए मत्तगजकुम्भके सिन्दूरसे दश दिशामें सन्ध्या होने लगी, प्रलय मेघकी तरह भयङ्कर युद्धारम्भ उनके साथ हमलोगोंका हुआ, तब हमारे महाराजने महामोहके पास नैयायिक दर्शनको दूत बनाकर भेजा । जाकर उसने महामोहसे कहा- भगवान्‌के मन्दिर, जलाशयके तट, पुण्य कानन, तथा पुण्यात्माओंके हृदयको छोड़ आप म्लेच्छदेशमें अपने अनुगामियोंको साथ लेकर चले जाइये, अन्यथा तलवारकी