प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 19, कुल 274 में से
संदर्भ में पढ़ें॥ श्रीः ॥ प्रबोधचन्द्रोदयम् 'प्रकाश' संस्कृत-हिन्दीव्याख्याद्वयोपेतम् प्रथमोऽङ्कः मध्याह्नार्कमरीचिकासु च पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमं चिरविततमिस्रासङ्कुचद्दिग्विभागे विगतकरणतारामण्डलीशुभ्रभासि । विषयजलदमालासम्परीतेऽम्बरेऽस्मिन् मनसि सकृदुदीयाज्जातु मे बोधविद्युत् ॥ १ ॥ श्रद्धानतेन शिरसा पितरं 'मधुसूदनम्' । प्रसूं 'जयमणिं' चाहं प्रणमामि पुनः पुनः ॥ २ ॥ श्रीकृष्णमिश्रकविताभावानवबोधबद्धवैमुख्यान् । मन्ये कतिचन बालान् प्रोत्साहयिता 'प्रकाशो'ऽयम् ॥ ३ ॥ दार्शनिककविः श्रीकृष्णमिश्रो विद्वद्वर्यः प्रबोधचन्द्रोदयनामकं नाटकं चिकीर्षुः प्रारिप्सितग्रन्थप्रत्यूहव्यूहप्रशमकामनया मङ्गलमादौ निबध्नाति—मध्याह्नेति० यद्- ज्ञानतः यस्य ब्रह्मात्मकस्य महसः प्रकाशस्य अज्ञानतः अबोधात् मध्याह्नार्कमरीचि- कासु अह्नो मध्यं मध्याह्नस्तस्य योऽर्कः सूर्यस्तस्य मरीचयः किरणा एव मरीचिकाः सिकतागतसूर्यकरप्रभाचाक्चिक्याकारास्तासु पयःपूरः जलराशिरिव खम् आकाशम् वायुः पवनः ज्वलनः वह्निः जलं वारि क्षितिः पृथिवी एवं क्रमेण त्रैलोक्यम् समस्तं धरामण्डलम् समुन्मीलति प्रकटति । यत्तत्त्वं यदीयं स्वरूपम् विदुषाम् जानताम् मध्याह्नसूर्यकी मरीचिकामें जलराशिकी तरह जिसके अज्ञानसे आकाश, वायु, तेज, जल और पृथिवी इस क्रमसे त्रैलोक्य प्रकट होता है और जिसके ज्ञानसे मालासर्पकी