प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 20, कुल 274 में से
संदर्भ में पढ़ें२ प्रबोधचन्द्रोदयम् सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधं महः ॥ १ ॥ अपि च— अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्रं पुनः स्रग्भोगिभोगोपमम् मालासर्पफणवत् निमीलति विलीयते, तद् अमलम् विग- तसकलकलङ्कपङ्कम् स्वात्मावबोधम् स्वप्रकाशम् सान्द्रानन्दम् आनन्दघनम् महः परमात्मलक्षणं ज्योतिः उपास्महे ध्यायामः । यदज्ञानवशादयं संसारो मध्यन्दिन- सावित्रकरोल्लासिमृगमरीचिकासु पयःपूर इवाकाशादिक्रमेणोपजायते, यज्ज्ञान- वशाच्च मालाफणीव निलीयते तदखण्डानन्दैकरसं ब्रह्म भावयाम इत्यर्थः । अत्र प्रथमोदाहरणं संसारिविषयं द्वितीयन्तु मुक्तविषयम् । अत्र मध्याह्नार्कमरीचि- कासु पयःपूर इव यदज्ञानतो लोकोऽयमुन्मीलति तिष्ठति निमीलति चेत्युक्त्या जगज्जन्मस्थितिलयकारणत्वरूपं तटस्थलक्षणं 'यतो वा इमानि भूतानि' इत्यादि श्रुत्युक्तं 'सान्द्रानन्दम्' इति च सच्चिदानन्दत्वरूपं स्वरूपलक्षणं ब्रह्मणो निवेशित- मवगन्तव्यम् । 'खं वायुर्ज्वलनः' इति क्रमश्च 'तस्माद्वा एतस्मादाकाशस्संभूतः' इत्यादि श्रुतिसमर्थितो ज्ञेयः । एतेन 'अज्ञानानिवृत्तिः प्रयोजनं, तत्कामोऽधिकारी, प्रतिपाद्यप्रतिपादकभावः संबन्धः, ऐक्यमभिधेयमि'ति सूचितम् । 'नैदाघभानु- किरणेष्विव वारिपूरः सर्वो विभाति यदबोधवशात्प्रपञ्चः । मालाफणीव च निमीलति यत्प्रबोधात्तद्ब्रह्म नौमि सुखमद्वयमात्मरूपम्' इति शिखामणिश्लोकोऽस्य च्छाया- मनुहरति । त्रयो लोकास्त्रैलोक्यम्, स्वार्थे ष्यञ् । तत्त्वं विदुषामित्यत्र 'नलोकाव्यये'ति षष्ठीनिषेधात्तत्त्वपदे द्वितीयैव । यद्यपि—'आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्ति- मात्रं फलमल्पबुद्धिः । योऽपीतिहासादिवदाह साधुस्तस्यै नमः स्वादपराङ्मुखाय' इति, 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिञ्च साधुकाव्य- निषेवणम्' इति चोक्तत्वेनाविद्यानिवृत्ते रूपकस्यास्य फलत्वेनोपादानमयुक्तं तथापि ग्रन्थस्यास्य रूपकभूमिकाम्नवेदान्तशास्त्रतयाऽविद्यानिवृत्तिः परमं प्रयोजनं रसा- स्वादश्चावान्तरं प्रयोजनम् , तत्र मुखप्रतिमुखसन्ध्यादौ रसास्वादोऽवसाने चा- विद्यानिवृत्तिरिति विवेकः । उपमाऽलङ्कार आंशिकः । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं यथा—'सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम्' इति ॥ १ ॥ अन्तर्नाडीति० अन्तर्नाड्याम् सुषुम्नायाम् नियमितः सन्निरुद्धो यो मरुत् वायुस्तेन लङ्घितम् उल्लङ्घितम् ब्रह्मरन्ध्रम् येन तादृशम् , 'सुषुम्ना तिसृषु श्रेष्ठा वैष्णवी मुक्ति- तरहं लीन हो जाता है, उस आनन्दस्वरूप तथा स्वप्रकाशरूप उस ब्रह्मकी हम उपासना करते हैं ॥ १ ॥ सुषुम्ना नाड़ीमें प्राणको अवरुद्ध करके ब्रह्मरन्ध्रमें प्रवेशित करने के लिये शान्तियुक्त