प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 21, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ३ स्वान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रम् । प्रत्यग्ज्योतिर्जयति यमिनः स्पष्टलालाटनेत्र- व्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः ॥ २ ॥ ( नान्द्यन्ते सूत्रधारः ) मार्गदा । सुषुम्नया ब्रह्मरन्ध्रमारोहत्यवरोहति । जीवः प्राणसमारूढो ब्रह्मरन्ध्रं विशत्यसौ । नाडीषु बध्यमानासु मध्यनाडीं विशत्यसौ' इत्युक्त्या सुषुम्ना- माविश्य ब्रह्मरन्ध्रं प्रविष्टमित्यर्थः । शान्तिप्रणयिनि उपशमंगते स्वान्ते चित्ते समु- न्मीलदानन्दसान्द्रम् प्रकटीभवदानन्दसुखाभिन्नम्—स्वप्रकाशसुखरूपमित्यर्थः । यमिनो ध्यानमग्नस्य चन्द्रार्धमौलेः खण्डशशधरालङ्कृतशिरसः शिवस्य स्पष्टं स्फुटदृश्यं यल्लालाटनेत्रम् भालनयनं तद्व्याजेन तच्छलेन अव्यक्तं व्यक्तं कृतम् स्वभावतश्चाक्षुषायोग्यमपि चाक्षुषविषयतां नीतम् इव जगद्व्यापि ब्रह्माण्डव्यापकं प्रत्यग्ज्योतिः जडानुताहङ्कारादिभ्यः प्रातिकूल्येनाञ्चतीति प्रत्यक् ( प्रातिकूल्यं च सत्यज्ञानानन्दादिरूपेण भानम् ) ज्योतिःप्रकाशरूपम् जयति सर्वोत्कर्षेण वर्त्तते । ध्यायतः शिवस्य ध्यानविषयीभूतं ब्रह्मैव प्रकाशतत्तृतीयनयनव्याजेन स्फुरजयती- त्यर्थः । जयत्यर्थेन च नमस्कार आक्षिप्यते इति तत्प्रतिप्रणतोऽस्तीति व्यज्यते । 'अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्' इति प्रतापरुद्रीयोक्तदिशाऽत्र नान्दीद्वये शब्दतः षष्ठाङ्कार्थः, अर्थतोऽपि मध्याह्नार्कत्यादिप्रथमार्धेन महामोहस्तत्सेन च, तृतीयपादेन ससेनो विवेकः, चतुर्थपादेनोभयोः सेनाविलयानन्तरं स्वरूपावस्थान- श्चोक्तम् । मन्दाक्रान्ता वृत्तम्, तल्लक्षणं यथा—'मन्दाक्रान्ता जलधिषडगैर्भौ नतौ ताद्गुरू चेत्' ॥ २ ॥ नान्द्यन्त इति० नान्द्याः रङ्गविघ्नोपशान्तये विधीयमानाया आशीर्नमस्क्रियाद्य- न्यतमभेदभूतमङ्गलाचरणरूपायाः, अन्ते अवसाने, चरमवर्णध्वंसोऽन्तपदार्थः । सूत्रधारः प्रविश्याहेत्यग्रिमेणान्वयः । नाटकादिप्रयोगे सूत्रधारो नान्दीं पठतीति समु- दाचारः 'सूत्रधारः पठेन्नान्दीं मध्यमं स्वरमाश्रितः' इति भरतोक्तिमाधारीकृत्य प्रवृत्तः । यद्यपि नाट्योपक्रमे विघ्नोपशान्तये कुशीलवैर्द्वाविंशत्यङ्गसहितः पूर्वरङ्गः कर्त्तव्यः, 'प्रथमं पूर्वरङ्गश्च ततः प्रस्तावेनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्य- मिष्यते' ॥ यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स हृदयमें आनन्दरूपसे प्रकटित होनेवाला तपनिष्ठ महादेवकी तृतीय दृष्टिके रूपमें प्रकटीभूत महादेवकी प्रत्यक् ज्योति की जय हो ॥ २ ॥ ( नान्दीके अन्तमें सूत्रधारका प्रवेश )