प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 22, कुल 274 में से
संदर्भ में पढ़ें४ प्रबोधचन्द्रोदयम् सूत्रधारः—अलमतिविस्तरेण । आदिष्टोऽस्मि सकलसामन्तचक्र- चूडामणिमरीचिमञ्जरीनीराजितचरणकमलेन बलवदरिनिवहवक्षस्तटक- पाटपाटनप्रकटितनृसिंहरूपेण प्रबलतरनरपतिकुलप्रलयमहार्णवनि मग्ने- उच्यते'॥ किञ्च—सभापतिस्तथा सभ्या गायका वादका अपि । नटी नटश्चामोदन्ते यन्नान्योन्यानुरञ्जनात् ॥ अतो रङ्ग इति ज्ञेयः पूर्वं यत्स प्रकल्प्यते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते' ॥ इति पूर्वरङ्गस्य प्रथमविधेयत्वं बुध्यते, तथापि द्वाविंशत्यङ्ग- सहितरङ्गमध्ये नान्दीरूपस्यैवाङ्गस्यावश्यविधेयतया सैवात्र विहिता । तथा चोक्तम्- 'यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके । तेषामवश्यं कर्त्तव्या नान्दी नन्दीश्वरप्रिया ॥' इति । नान्दीलक्षणं यथा—'आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः । नान्दी पदैर्द्वादशभिरष्टाभिर्वाप्यलङ्कृता' ॥ अत्र पदशब्देन सुप्तिङन्तरूपं पदं श्लोकचतुर्थां- रूपम्, अवान्तरवाक्यार्थरूपञ्च गृह्यते, तदुक्तं नाट्यप्रदीपे—'श्लोकपादं पदं केचित् सुप्तिङन्तमथापरे । परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे' इति । विश्वनाथस्तु कैश्चि- न्नान्द्यां पदनियमो नाभ्युपगम्यते' इत्याह । अतोऽत्र नान्द्यां पदनियमानादरेऽपि न क्षतिः। नान्दीपदव्युत्पत्तिरुक्ता नाट्यप्रदीपे यथा—'नन्दन्ति काव्यानि कवीन्द्रवर्गाः कुशीलवाः पारिषदाश्च सन्तः । यस्मादलं सज्जनसिन्धुहंसी तस्मादियं सा कथितेहि नान्दी' । 'चन्द्रार्धमौलेः' इति चन्द्रपदोपादानेनास्या नान्द्याश्चन्द्रशंसिता बोध्या । चन्द्रपदोपादानेन नान्द्यां काव्यगता रसस्फीतताऽऽशंस्यते—यथोक्तम्—'चन्द्रनामा- ङ्किता कार्या रसानां स यतो निधिः प्रीते चन्द्रमसि स्फीता रसश्रीरिति बालुकिः ॥' सूत्रधारः-सूत्रं धरतीति सूत्रधारः, कर्मण्यण् । सूत्रं चात्र नाटकप्रयोगव्यवस्था, तथा चामरः-'सूत्रं तन्तुव्यवस्थयोः' इति । उक्तञ्च-'नाटकीयकथासूत्रं प्रथमं येन सूच्यते । रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते' ॥ आदिष्टः-आज्ञप्तः। सकलाः सर्वे ये सामन्ताः मण्डलेश्वरास्तेषां चक्रं समूहस्तस्य चूडासु मुकुटेषु ये मणयः पद्मरागाद्यास्तेषां मरीचिमञ्जर्यः किरणपरम्परास्ताभिः नीराजितम् पूजितं चरणकमलं पादपङ्कजं यस्य तेन सकलसामन्तवन्दितेनेत्यर्थः । इदमेकं भूपालगोपालस्य विशेषणम् । बलवन्तः प्रबला येऽरिसमूहाः शत्रुनिवहास्तेषां वक्षस्तटम् उरोदेश एव (विस्तृतत्वात्) कपाटं तस्य पाटने विदारणे प्रकटितं नृसिंह- रूपं येन तेन, प्रबलशत्रुवक्षोभेदिनेत्यर्थः । इदमपि तस्यैव विशेषणम् । प्रबलतरा सूत्रधार—विस्तारकी जरूरत नहीं है। समस्त सामन्तजन अपने मस्तकस्थित रत्नोंसे जिसके चरणोंको पूजते हैं; जिसने दुर्जय शत्रुओं की चौड़ी छातियों के फाड़नेमें नृसिंहरूप धारण किया है, जिसने बलशाली राजमण्डलरूप महार्णवके प्रताप जलमें निमग्न