भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 23, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 23

प्रथमोऽङ्कः ५ दिनीसमुद्धरणमहावराहरूपेण सकलदिग्विलासिनीकर्णपूरीकृतकीर्तिलता- पल्लवेन समस्ताशास्तम्बेरमकणंतालास्फालनबहलपवनसम्पातनर्तितप्र- तापानलेन श्रीमता गोपालेन । यथा खल्वस्य सहजसुहृदो राज्ञः कीर्ति- वर्मदेवस्य दिग्विजयव्यापारान्तरितपरब्रह्मानन्दरसैरस्माभिः समुन्मीलि- तविविधविषयरसास्वाददूषिता इवातिवाहिता दिवसाः । इदानीं तु कृत- कृत्या वयम् । यतः— अतिसामर्थ्यशालिनो ये नरपतयो राजानस्तेषां कुलमेव प्रलयमहार्णवः कल्पावसान- समयसमुद्रस्तत्र निमग्नायाः लीनायाः मेदिन्याः पृथिव्या समुद्धरणे समुद्धारे महा- वराहरूपेण आदिवराहतुल्येन । सकलराजन्यकुलाद्विजित्य पृथिवीं स्ववशीकृत- वतेत्यर्थः । सकलाः सर्वाः या दिग्विलासिन्यो दिगङ्गनाः तासां कर्णपूरीकृतः कर्णाव- तंसीकृतः कीर्त्तिलतापल्लवो यशोवल्लरीकिसलयो यस्य तेन, दिगन्तविश्रान्तयशसे- त्यर्थः । समस्ताः निखिलाः आशास्तम्बेरमाः दिग्गजास्तेषां कर्णतालाः तेषामास्फाल- नेन चालनेन बहलो बहुलीभूतः पवनो वायुस्तस्य सम्पातेन संसर्गेण नर्तितः समे- धितः प्रतापानलो यस्य तादृशेन, दशदिक्प्रख्यातप्रतापेनेत्यर्थः । सकलसामन्तेत्यत्रा- तिशयोक्तिः, बलवदरिनिवहेत्यत्र परम्परितरूपकम् । प्रबलतरेत्यादावुपमारूपकयोः सङ्करः । सकलदिग्विलासिनीत्यत्र विशेषणे परिणामः । समस्ताशास्तम्बरेमेत्यत्राप्य- तिशयोक्तिः । सहजसुहृदः—स्वभावसहृदयस्य । दिग्विजयव्यापारेण-जैत्रयात्रा- प्रसङ्गेन । अन्तरितपरब्रह्मानन्दरसैः—विघ्नितात्मानन्दानुभवचमत्कारैः । समुन्मी- लितविविधविषयास्वाददूषिताः—समुपस्थितनानाप्रकारक शब्दस्पर्श—प्रभृत्युपभोग- कलुषाः । अतिवाहिता—गमिताः । कीर्त्तिवर्मयात्राप्रसङ्गव्यासक्ततायां सांसारिक- सुखोपभोगासक्ततया ब्रह्मास्वादसमुत्थानन्दवञ्चितैरस्माभिः कलुषभावेनैव दिनानि गमितानीत्याशयः । कृतकृत्याः—कीर्तिवर्मणो राज्ये स्थापनात स्वस्थचित्ताः । वयम् इत्यत्र ‘अस्मदो द्वयोश्च’ इत्येकत्वे बहुवचनम् । यतः स्वस्थताकारणं वर्णा- यितुमिदम् । धराके उद्धारमें महावराहका रूप धारण किया है, सभी दिशारूप ललनाओके कर्णपूरका स्थान जिसके यशको प्राप्त है, सकलदिग्गजके कर्णतालजनित वायुसे प्रेरित होकर जिसका प्रतापानल नृत्य करता है, ऐसे श्रीमान् गोपाल ने आज्ञा दी है कि इस स्वभावसुहृद् राजा कीर्तिवर्माकी दिग्विजय-यात्राके प्रसङ्गसे ब्रह्मानन्दपराङ्मुख होकर हमने नाना- प्रकारके विषयरसोंसे दूषित दिन बिताये हैं, अब हम कृतकृत्य हो गये हैं; क्योंकि—