प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 24, कुल 274 में से
संदर्भ में पढ़ें६ प्रबोधचन्द्रोदयम् नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षा रक्षावती क्षितिरभूत्प्रथितैरमात्यैः । साम्राज्यमस्य विहितं क्षितिपालमौलि- मालार्चितं भुवि पयोनिधिमेखलायाम् ॥ ३ ॥ तद्यं शान्तरसप्रयोगाभिनयेनात्मानं विनोदयितुमिच्छामः । ततो यत्पूर्वमस्मद्गुरुभिस्तत्रभवद्भिः श्रीकृष्णमिश्रैः प्रबोधचन्द्रोदयं नाम नाटकं निर्माय भवतः समर्पितमासीत् तदद्य राज्ञः श्रीकीर्तिवर्मणः पुरस्ता- नीता क्षयमिति० नृपतेः कीर्त्तिवर्मणः विपक्षाः शत्रवः क्षितिभुजः राजानः क्षयं नीताः विनाशिताः, प्रथितैः स्वचातुर्यख्यातैः अमात्यैः क्षितिः पृथिवी रक्षावती सुर- क्षिता अभूत् । पयोनिधिमेखलायाम् सागरवसनायाम् भुवि क्षितिपालमौलिमा- लार्चितं राजशिरोभिरुह्यमानम् अस्य कीर्त्तिवर्मणः साम्राज्यम् मण्डलेश्वरत्वम् विहि- तम् । शत्रुविनाशमन्त्रिन्यासौ कृत्वा कीर्त्तिवर्मणः साम्राज्यं स्थिरीकृतमित्यर्थः । 'सम्राट् स्यान्मण्डलेश्वरः' । तस्य भावः साम्राज्यम् ॥ ३ ॥ तत्-कृतकृत्यत्वेन हेतुना । शान्तरसप्रयोगाभिनयेन-शान्तरसप्रचुरनाटकेन । विनोदयितुम्-प्रसन्नतां प्रापयितुम् । यत इत्यारभ्येच्छाम इत्यन्तेन सन्दर्भेण काव्यार्थसूचकैर्वचनैः समारोचनात्मकं प्ररोचनाङ्गमुक्तम्, तथा हि—'नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षाः' इत्येतेन विवेक- महाराजकर्त्तृको मोहविजयः सूचितः । 'रक्षावती क्षितिरभूत् प्रथितैरमात्यैः' इत्यनेन यमाद्यष्टाङ्गयोगैरन्तःकरणशुद्धिः सूचिता । 'साम्राज्यमस्य विहितम्' इत्यनेन पुरु- षस्य स्वरूपलाभरूपं सायुज्यं सूचितम् ॥ अस्मद्गुरुभिः-अस्माकमुपदेशकैः । तत्रभवद्भिः पूज्यैः । निर्माय विरचय्य । भवतः समर्पितम् । तुभ्यं दत्तम् । पुरस्तात् अग्रतः । अभिनेतव्यम्-प्रयोक्तव्यम् । इस राजाके सभी शत्रु मार दिये गये हैं, प्रसिद्ध मन्त्रियोंके हाथोमे पृथिवीकी रक्षाका भार सौंप दिया गया है, सभी राजाओने इसके साम्राज्यको नतमस्तक हो मान लिया है, जो साम्राज्य समुद्रपरिवृत पृथिवी व्यापी है ॥ ३ ॥ इसलिये अब हम शान्तरसके नाटकसे अपनेको विनोदित करना चाहते है । इसलिये हमारे गुरु पूज्य श्रीकृष्णमिश्रने प्रबोधचन्द्रोदय नामका जो नाटक बनाकर आपको दिया था उसे ही आज कीर्त्तिवर्माके सामने अभिनीत करें। सभासदों के साथ राजा भी