भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 25, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 25

प्रथमोऽङ्कः दभिनेतव्यं भवता। अस्ति चास्य भूपतेः सपरिषदस्तदवलोकने कुतू- हलमिति। तद्भवतु। गृहं गत्वा गृहिणीमाहूय सङ्गीतकमनुतिष्ठामि। (परिक्रम्य, नेपथ्याभिमुखमवलोक्य) आर्ये, इतस्तावत्। (प्रविश्य नटी) नटी—एषास्मि। आज्ञापयत्वार्यपुत्रः को नियोगोऽनुष्ठीयतामिति। (एसम्हि। आणवेदु अज्जउत्तो को णिओओ अणुचिट्ठियदु त्ति) सूत्रधारः—आर्ये, विदितमेव भवत्या। अस्ति प्रत्यर्थिपृथ्वीपतिविपुलबलारण्यमूर्च्छत्प्रताप- ज्योतिर्ज्वालावलीढत्रिभुवनविवरो विश्वविश्रान्तकीर्तिः। सपरिषदः 'परिषत् सभा, तया सहितस्य। तदवलोकने-प्रबोधचन्द्राभिधनाटक- दर्शने। कुतूहलम्-उत्कण्ठा। एतावत्पर्यन्तं गोपालभूपालवाक्यानुवादः, इतः परतः सूत्रधारोक्तिः। गृहिणीम्-स्वभार्याम्-नटीम्। आज्ञापयतु-कथयतु। नियोगः-आदेशः। अनुष्ठीयताम्-सम्पाद्यताम्। कं तवा- देशं पूरयामीति प्रश्नाशयः। विदितम्-ज्ञातम्। अस्ति प्रत्यर्थीति० प्रत्यर्थिनः शत्रुभूताः ये पृथ्वीपतयः राजानः तेषां विपु- लम् बहुलं यद्वलम् सैन्यम् तदेव (दुःसञ्चारत्वसाम्येन) अरण्यं काननम् तस्मिन् मूर्च्छन् वृद्धिं भजमानः प्रतापः पराक्रम एव ज्योतिः प्रकाशस्तस्य ज्वालया भासा अवलीढम् आक्रान्तम् त्रिभुवनविवरम् लोकत्रयरूपं बिलं येन तादृशः, शत्रु- संहारजन्ययशसा भुवनाभोगं पूरयन्नित्यर्थः। त्रिभुवने विवरत्वारोपः सुखव्या- प्यतां ध्वनयितुम्, तेन च प्रतापप्रकर्षो व्यज्यते। विश्वविश्रान्तकीर्त्तिः संसारख्यात- उस नाटक का अभिनय देखना चाहते हैं। अच्छा, तब तक घरसे गृहिणी को बुलाकर संगीतका आयोजन कर दूं। (चलकर, नेपथ्यकी ओर) आर्ये, जरा इधर तो आओ। नटी—यह आई। क्या आदेश है? सूत्रधार—आर्ये, जानती ही हो— शत्रुराजगण सैन्यरूप वनमे प्रतापानलको विस्तृत करके उस प्रतापकी लपटों से त्रिभुवन विवरको अतिक्रान्त करनेवाले विश्वविख्यात कीर्त्ति तथा केवल तलवारकी मददसे