भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 26, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 26

८ प्रबोधचन्द्रोदयम् : गोपालो भूमिपालान्प्रसभमसिलतामात्रमित्रेण जित्वा साम्राज्ये कीर्त्तिवर्मा नरपतितिलको येन भूयोऽभ्यषेचि ॥४॥ अपि च— अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालन- व्यावलग्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः । उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल- प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥ ५ ॥ यशाः गोपलस्तन्नामा अस्ति। येन असिलतामात्रमित्रेण केवलखड्गसहायेन भूमिपा- लान् विरोधिरराज्ञः प्रसभं हठात् जित्वा विजित्य नरपतितिलकः राजमुख्यः कीर्त्तिवर्मा भूयः साम्राज्ये मण्डलेश्वरपदे अभ्यषेचि अभिषिक्तः। यो गोपालः केवलखड्गसहाय- तया निखिलानपि प्रतिबन्धकराज्ञो जित्वा भ्रष्टसाम्राज्यभावः कीर्त्तिवर्मा पुनः स्वपदे साम्राज्यलक्षणे स्थापित इत्याशयः। एतेन परोपकारजन्यकीर्त्तिशालित्वमपि ध्वनि- तम् । शार्दूलविक्रीडितं वृत्तम् , लक्षणमनुपदमेवोक्तम् ॥ ४ ॥ अद्यापीति० उन्मदाः प्रसन्ना मत्ताश्च या यातुधानतरुण्यो राक्षसललनास्तासां चञ्चन्तः दीप्तिशालिनश्चला वा ये करा हस्तास्तेषामास्फालनं करतालिकाप्रदानार्थः परस्परघातस्तेन व्यावलगन्ति चलन्ति यानि नृकपालानि नरमुण्डानि तेषां ताल- रणितैः तालयुक्तशब्दैः नृत्यन्त्यः नृत्यपरायणाः पिशाचाङ्गनाः पिशाचस्त्रियो यासु तादृश्यः रणक्षोणयः युद्धभूमयः अद्यापि युद्धस्य चिरवीतत्वेऽपि प्रचण्डानिलेन महता वायुना प्रक्षुभ्यत् ससञ्चारम् यत् करिकुम्भकूटम् हस्तिशिरःसमुदयस्तस्य कुहराणि बिलानि गहराणि वा तेभ्यो विततैः जृम्भमाणैर्नादैः शब्दै यस्य यशांसि कीर्त्तिगाथाः गायन्ति । मत्ता यातुधानस्त्रियः करतालिका प्रदानेन यत्करांश्चालयन्ति तेन तत्करभूषणीभूतानि नृकपालानि सतालं शब्दायन्ते, यदीयं तालमनुसृत्य पिशाचाङ्गना यासु नृत्यन्ति तादृश्यो रणभूमयो यस्य गोपालभूपालस्य यशप्रबल- वातचलितगजकुम्भास्थिकुहरनिर्यच्छिनदैर्गायन्तीत्यर्थः । महाभीषणं यस्य युद्धं तादृशो समस्त विरोधी राजाओंको जीतकर कीर्त्तिवर्माको फिरसे राज्यासीन करनेवाले गोपाल नामक भूपाल है ॥ ४ ॥ जहाँ मतवाली राक्षसस्त्रियाँ ताल देती हैं जिससे उनके हाथमें स्थित नरकपाल खनखना उठते हैं, पिशाचस्त्रियाँ नाचा करती हैं, हस्तिमुण्डोंके अस्थिपञ्जर हवासे भरकर रणभूमिमें शब्द करते हैं, मानो-रणभूमि गोपाल की कीर्त्ति गा रही हो ॥ ५ ॥

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक) · पृष्ठ 26, कुल 274 में से · BharatKosha