प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 27, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ६ तेन च शान्तपथप्रस्थितेनात्मनो विनोदार्थं प्रबोधचन्द्रोदयाभिधानं नाटकमभिनेतुमादिष्टोऽस्मि । तदादिश्यन्तां भरता वर्णिकापरिग्रहाय । नटी—( सविस्मयम् ) आर्यपुत्र, आश्चर्यमाश्चर्यम् । येन तथाविधनिज- भुजबलविक्रमैकनिर्भर्त्सितसकलराजमण्डलेन आकर्णाकृष्टकठिनकोदण्ड- दण्डबहुलवर्षच्छरनिकरजर्जरीयतुरङ्गतरङ्गमालम् , निरन्तरनिपतत्तीक्ष्ण- विशिखनिचित्तमहास्त्रपर्यस्तोत्तुङ्गमातङ्गमहामहीधरसहस्रम् , भ्रमद्भुज- दण्डमन्दराभिघातघूर्णमानसकलपत्तिसलिलसंघातम्, कर्णसेनासागरं गोपाल इत्याशयः । अतिशयोक्तिरलङ्कारः । पूर्वोक्ताविपरीतं वृत्तम् ॥ ५ ॥ तेन गोपालभूपेन । शान्तपथप्रस्थितेन शममार्गप्रचलितेन । आत्मनः स्वस्य । अभिनेतुम्-प्रयोक्तुम् । आदिष्टः-आज्ञापितः । आदिश्यन्ताम्-आज्ञाप्यन्ताम् । भरताः अभिनेतारो नटाः । वर्णिकापरिग्रहाय-यथोचितवेषग्रहणाय । यस्य भूमिका येन नटेनालम्बनीया तेन नटेन स्वानुकार्यस्य वेषः सम्पाद्यतामित्याशयः । सविस्मयम्—साश्चर्यम् , विस्मयश्च गोपालभूपालस्य युद्धरसिकस्य शमपथ- प्रस्थानश्रवणजन्मा बोध्यः । तथाविधोऽतिविख्यातपराक्रमो यो निजभुजबलविक्रमः स्वबाहुपराक्रमस्तेनै- केन केवलेन तेन ( परकीयसाहाय्यनिरपेक्षम् ) निर्भर्त्सितम् परास्तम् सकलराज- मण्डलं समस्तनृपचक्रं येन तादृशेन । इदं तृतीयान्तं राज्ञो विशेषणम् । आकर्णाकृष्टः कर्णपर्यन्तं नमितः यः कठिनकोदण्डदण्डः कठोरधनुर्दण्डः ततः कोदण्डदण्डाद् बहुलम् प्रचुरम् वर्षतः निर्गच्छतः शरनिकरेण बाणसमूहेन जर्जरीताः क्षत- विक्षताः तुरङ्गाः अश्वा एव तरङ्गमाला यस्य तादृशम् इदमग्रेतनं च द्वितीयान्तकुलं समुद्रत्वेन रूप्यमाणस्य राजनिवहस्य विशेषणम् । निरन्तरं सततं निपतन्ति परा- पतनशीलानि तीक्ष्णानि शिताग्राणि विशिखानि बाणाः निचितानि प्रहृतानि महा- स्त्राणि आग्नेयादीनि तैः पर्यस्ता इतस्ततः क्षिप्ता उत्तुङ्गमातङ्गा दीर्घा दन्तिन एव महामहीधरसहस्रम् महोच्चपर्वतकुलम् यस्येति विग्रहः, कर्णसेनासागरगतं हस्तिकुल- अब वह शान्ति के उपासक हो रहे हैं, उन्होंने आत्मविनोदार्थ प्रबोधचन्द्रोदयके अभिनय करने की आज्ञा दी है । इसलिये नटोंको तैयार होने की आज्ञा दो । नटी—( विस्मयके साथ ) आर्यपुत्र, आश्चर्य है, आश्चर्य ! जिसने अपने उद्दाम बाहु पराक्रमसे समस्त राजमण्डलको नीचा दिखाया, शत्रु सागरमें कान तक आकृष्ट बाणसे शरवृष्टि करके तरङ्गोपम तुरङ्गोंको जर्जरित किया, निरन्तर गिरनेवाले बाणों तथा अन्य महास्त्रोंसे शैलतुल्य गजराजोंको उलट-पुलट दिया, भुजदण्डरूप मन्दर पर्वत घुमाकर सकल पदातिसेनारूप जलराशिको नचा दिया, इस प्रकार कर्णसेना सागरको मथकर