प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 28, कुल 274 में से
संदर्भ में पढ़ें१० प्रबोधचन्द्रोदयम् निर्मथ्य मधुमथनेनेव क्षीरसमुद्रमासादिता समरविजयलक्ष्मीः । तस्य साम्प्रतं सकलमुनिजनश्लाघनीयः कथमीदृश उपशमः संवृत्तः । (अज्जउत्त, अच्चरियं अच्चरियं । जेण तथाविहणिअभुअबलबिक्कमैकणिब्भच्छिदसअलराअमण्डलेण आयण्णाकिट्ठकठिणकोअण्डदण्डबहलघरिन्तरसरणिअरजज्जरिदतुरं अतरं अमालं णिरन्तरणिवडन्ततिक्खविशिखणिखित्तमहस्सपक्खत्थतुरङ्गमाअङ्गमहामदीहरसहस्सं भमन्तभुअदण्डमन्दराहिहादघुमन्तसअलपत्तिसलिलसङ्घादं कण्णसेणासाअरं णिम्म- हित्थ मधुमहणेणेव खीरसमुदं आसादिदा समरविजअलच्छी । तस्स संपदं सअल- मुणिअणसलाणिज्जो कहं एरिसो उवसमो संवृत्तो ) सूत्रधारः—आर्ये, निसर्गसौम्यमेव ब्राह्मं ज्योतिः कुतोऽपि कारणा- त्प्राप्तविकारमपि पुनः स्वभावमेवावतिष्ठते । यतः सकलभूपालकुलप्रलय- कालाग्निरुद्रेण चेदिपतिना समुन्मूलित चन्द्रान्वयपार्थिवानां पृथिव्या- माधिपत्यं स्थिरीकर्त्तुमयमस्य संरम्भः । पश्य तदा— रूपं पर्वतसमूहं यस्तीक्ष्णप्रहारवशत इतस्ततः क्षिप्तवान् इत्यर्थः । अमन् भुज- दण्ड एव मन्दरस्तेनाभिघातः प्रहारस्तेन घूर्णमानं सकलं पत्तिसलिलं पादसञ्चारि- सैन्यजलम् तस्य सङ्घातः समुदायो यत्र तादृशम् । भ्रमता बाहुदण्डेन यः कर्णसेना- सागरस्य पदातिसैन्यरूपं सलिलसमुदयं क्षोभयामास तमित्यर्थः । कर्णसेनासागरम् कर्णारव्यनृपतिसैन्यचयम् । निर्मथ्य-विद्राव्य । मधुमथनेन-विष्णुना । समरविजय- लक्ष्मीः-युद्धजयश्रीः । भगवान् विष्णुर्मन्दराचलेन समुद्रमुन्मथ्य यथालक्ष्मीं वृत- वानयमपि गोपालस्तथैव कर्णसेनां विद्राव्य युद्धे जयश्रियमापदिति भावः । सकल- मुनिजनश्लाघनीयः-सकलर्षिगणप्रशस्यः । उपशमः-शान्तिनिष्ठा । निसर्गसौम्यम्-स्वभावशान्तम् । ब्राह्मम्-परब्रह्मसम्बन्धि । कुतोऽपि कारणात् कस्माच्चिदपि हेतोः प्राप्तविकारम्-विकृतम् । स्वभावम्-स्वरूपं निर्मलत्वमविकारित्व- लक्षणम् । सकलभूपालकुलप्रलयकालाग्निरुद्रेण-सकलराजकदर्थनसँलग्नेन । चेदि- पतिना-कर्णेन । चन्द्रान्ववायपार्थिवानाम्-चन्द्रवंशिनृपानाम् । स्थिरीकर्त्तुम्- विजयलक्ष्मीका वरण किया, जैसे विष्णुने समुद्र मथकर लक्ष्मी पाई थी । अब वही मुनियों द्वारा प्रशंसित शान्तिके पुजारी कैसे बन गये ? सूत्रधार—स्वभावतः शान्त ब्राह्मतेज किसी कारणवश विकार प्राप्तकर पुनः अपने स्वभावका अवलम्बन कर लेता है । गोपाल भूपने भी सभी भूपोंको सतानेवाले चेदिराजसे उपद्रुत कीर्त्तिवर्मांको फिरसे पदस्थ करनेके लिये ही इस प्रकारका क्रोधमय व्यापार कियाँ था । देखो—