भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 193, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 193

पञ्चमोऽङ्कः १७५ येन वेदप्रसूतानां तेषामवान्तरविरोधेऽपि वेदसंरक्षणाय नास्तिक- पक्षप्रतिक्षेपगाय शास्त्राणां साहित्यमेव । आगमानां च तत्त्वं विचारयताम विरोध एव । तथाहि— ज्योतिः शान्तमनन्तमद्वयमजं तत्तद्गुणोन्मीलना- द्ब्रह्मेत्यच्युत इत्युमापतिरिति प्रस्तूयतेऽनेकधा । तैस्तैरेव सदागमैः श्रुतिमुखैर्नानापथप्रस्थितै- र्गम्योऽसौ जगदीश्वरो जलनिधिर्वारां प्रवाहैरिव ॥ ६ ॥ वेदप्रसूतानाम्-वेदमूलकानाम् । तेषाम्-तत्तच्छास्त्राणाम् । अवान्तरविरोधे- आभ्यन्तरिकविरुद्धत्वे । वेदसंरक्षणाय-वेदरक्षायै । नास्तिकपक्षप्रतिक्षेपगाय-चार्वा- कादिमतनिरसनाय । साहित्यम्-मिलनम् । तत्त्वं विचारयताम्-याथात्म्यं भावय- ताम्, अविरोधः-समन्वयः । तथा चोक्तं महिम्नः स्तोत्रे—'त्रयी साङ्ख्यं योगः पशु- पतिमत्तं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्या- दृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव' इति । ज्योतिरिति० शान्तम् सर्वविधक्रियाराहित्येन स्तिमितकल्पम् अनन्तम् अवसान- शून्यम् अद्वयम् सजातीयद्वितीयरहितम् अजम् उत्पत्तिरहितम् (ब्रह्म) तत्तद्- गुणोन्मीलनात् तेषां तेषां गुणानामारोपात् सत्त्वप्राधान्यरजःप्राधान्यतमःप्राधान्य- रूपस्वरूपगुणत्रितयाध्यासात् ब्रह्मा इति अच्युतः विष्णुिरिति उमापतिः शिव इति चानेकधा नानाप्रकारेण प्रस्तूयते । एकमपि ब्रह्म रजोगोगमारोप्य विधातृतया सत्त्वगुणाश्रयत्वमुपचर्याविष्णुरूपेण तमोगुणप्राचुर्यकल्पनया च शिवत्वेनोच्यत इति वक्तव्यसारः । नानापथप्रस्थितैः भिन्नभिन्नवर्त्मभिश्चलितैस्तैस्तैः भिन्नैः सदागमैः आस्तिकशास्त्रैः वारां प्रवाहैर्जलधाराभिर्जलाविधिः समुद्र इव असौ परमेश्वरः पर- मात्मा एव गम्यः प्राप्यः । यथानेकपथप्रस्थिता अपि जलप्रवाहा अन्ते सागरमेव प्रपद्यन्ते तथा तत्तन्मतान्यपि परमात्मन्येव पर्यवस्यन्ति, श्रूयते हि वादनानाविध्यं यथा-कुसुमाञ्जलौ-शुद्धबुद्धस्वभाव इत्यौपनिषदाः, आदिविद्वान् सिद्ध इति जैसे वेदप्रभव शास्त्रोंमे यद्यपि अवान्तर विरोध है फिर भी वेदके संरक्षण तथा नास्तिक मतखण्डनमे सबका एक मत ही है । आगमोंमे तत्त्वविचार करने पर विरोध है ही नहीं । क्योंकि— शान्त, अनन्त, अद्वितीय, अजन्मा, ज्योति तत्तद्गुणप्रकाशसे ब्रह्मा, अच्युत, उमापति इस प्रकार अनेकधा कहा जाता है । भिन्न-भिन्न तथा नानापथ प्रस्थित शास्त्रोंसे वहीं एक ईश्वर कहा जाता है, जैसे जलप्रवाह समुद्रमें ही गिरते हैं ॥ ९ ॥