प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 192, कुल 274 में से
संदर्भ में पढ़ें१७४ प्रबोधचन्द्रोदयम् वाग्देव्याः पुरस्त्रयीत्रिनयना कात्यायनीवापरा ॥ ७ ॥ शान्तिः—अये, कथं पुनः स्वभावप्रतिद्वन्द्विनामागमानां तर्काणां च समवायः संपन्नः । श्रद्धा—पुत्रि, समानान्वयजातानां परस्परविरोधिनाम् । परैः प्रत्यभिभूतानां प्रसूते संगतिः श्रियम् ॥ ८ ॥ पुरतः अग्रे अपरा कात्यायनी इव द्वितीया गौरीव आविरासीत् प्रकटीबभूव । कात्या- यन्यपि त्रिनयना इन्दुकान्तानना समरोत्सुका सहस्रबाहुशालिनी चेति दुर्गा सप्त- शती । यदा सरस्वती योद्धुं समनह्यत्तदा तत्पुरतो मीमांसा कात्यायनीव, प्रादुरा- सीदित्यर्थः । शार्दूलविक्रीडितमेव वृत्तम् ॥ ७ ॥ स्वभावप्रतिद्वन्द्विनाम्-स्वारसिकविरोधिनाम् । आगमा अपि स्वभावतः पर- स्परविरुद्धाः, यथा-‘द्वे ब्रह्मणी वेदितव्ये’ इत्यस्य ‘एकमेवाद्वितीयं ब्रह्म’ इत्यतो विरोधः । तर्काणामपि परस्परविरोधः प्रसिद्ध एव । समवायः-सङ्घातः, समाने कार्ये सहभाव एवात्र समवायः । सम्पन्नः-जातः । समानेति० समाने अभिन्ने अन्वये वंशे जातानां प्रसूतानाम् परस्परविरोधिनाम् अन्योन्यविरुद्धानाम् परैः शत्रुभिः अभिभूतानाम् आस्कन्दितानाम् सङ्गतिः सह- भावः श्रियं सम्पदं प्रसूते जनयति, समानवंशजाताः परस्परविरोधिनोऽपि परकर्तृ- कापमानोपस्थितौ यदि परस्परं संहता भवन्ति तदा तेषामभ्युदयो जायते, लोकि- कीयं स्थितिः, तथैवात्रापि परस्परविरुद्धानां तत्तच्छास्त्राणां वेदरूपमेकमन्वयं विभ्रतां संहतिरपराजयेतालक्षणां श्रियं जनयेदिति भावः । दृश्यन्ते चापि लोकाः स्वभ्रातृभिः सातिशयविरोधा अपि परास्कन्दनावसरे संहताः । उक्तश्चायमर्थो महाभारते युधि- ष्ठिरेणापि—‘वयं पञ्च वयं पञ्च वयं पञ्च शतञ्च ते । अन्यैः सह विवादे तु वयं पञ्च- शतोत्तरम्’ इति ॥ ८ ॥ मुखचन्द्रशोभिता मीमांसा वेदत्रयीरूप तीन आंखोसे युक्त दूसरी कात्यायनीकी तरह प्रकट हुई ॥ ७ ॥ शान्ति—अजी, स्वभावविरोधी आगम और तर्कोंका समन्वय किस प्रकार हुआ ? श्रद्धा—बेटी, परस्परविरोधी समानवंश प्रसूतोका जब दूसरो द्वारा अभिभव होता है तब उनमें मेल हो जाती है और उससे भलाई होती है ॥ ८ ॥