भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 196, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 196

१७८ प्रबोधचन्द्रोदयम् भीरावर्त वर्त्तसागरानूपेषु सागरोपान्ते निगूढं संवरन्ति । न्यायाद्यनुगत- मीमांसावगाढप्रहारजर्जरीकृता नास्तिकतर्कास्तेषामेवागमानामनुपथं प्रयाताः । विष्णुभक्तिः—ततस्ततः । श्रद्धा—ततो वस्तुविचारेण कामो हतः, क्षमया क्रोधपारुष्यहिंसादयो निपातिताः, सन्तोषेण लोभतृष्णादैन्यानृतपैशुन्यवाक्स्तेयासत्प्रतिग्रहादयो निगृहीताः, अनसूयया मात्सर्यं जितम्, परोत्कर्षसंभावनया मदो निष्षू- दितः, परगुणाधिक्येन मानः खण्डितः । न्तेति भावः । सौगताः-सुगतोबुद्धस्तत्प्रणीता आगमाः । म्लेच्छप्रायान्-म्लेच्छधर्म- धारिजनबहुलान् । यन्न देशेषु भूम्ना म्लेच्छा वसन्ति तान्प्रयाता इति भावः । पामर- बहुलेषु नीचजनैः समधिकभावेनोषितेषु । सागरानूपेषु-सागरतटवासिदेशेषु, 'जल- प्रायमनूपं स्यात्' इत्यमरः । सागरोपान्ते-समुद्रतीरे । निगूढम्-अप्रकटभावेन । न्यायाद्यनुगतमीमांसया-न्यायसहकृतेन मीमांसाख्यविचारशास्त्रेण । अवगाढप्रहार जर्जरीकृता दृढतरप्रहारशकलीकृताः । नास्तिकतर्काः-बौद्धादिन्यायाः । तेषाम्- बौद्धशास्त्राणाम् । अनुपदम्-पश्चात् । अनेन बौद्धागमबौद्धशास्त्रबौद्धतर्काणां तिरस्का- रकथनेन द्रवसंज्ञकं विमर्शसन्धेरङ्‌गमुक्तम्, तल्लक्षणं यथा-'द्रव इत्युच्यते तज्ज्ञैर्वि- दुषां च तिरस्क्रिया' इति । वस्तुविचारेण—नारीस्वरूपस्यास्थिमांसादिमयत्वभावनया । हतः-दूरंगमितः, स्वचित्तादपगमनमेव कामवधो बोध्यः । क्षमया-सहिष्णु तया । क्रोधपारुष्यहिंसा- दयः-कोपकठोरतापरवधप्रवृत्तिप्रभृतयः, एतेषां क्षमाऽभावप्रभवतया क्षमया निरासो ज्ञेयः, स्वविरुद्धव्यपासनस्वाभाव्याद् भावानाम् । निपातिताः-मारिताः । सन्तोषेण- लोभनिवृत्तिरूपेण भावेन । दैन्यम्-तुच्छताप्रत्ययः, अनृतम्-मिथ्याभाषणम्, पैशु- छिप गये । न्यायादिसे अनुगत मीमांसाके कठोर प्रहारसे जर्जर नास्तिक तर्क उन्ही आगमोंके पीछे हो लिये । विष्णुभक्ति—उसके बाद । श्रद्धा—उसके बाद वस्तुविचारने कामको मारा क्षमाने क्रोध पारुष्य हिंसा आदिको समाप्त किया, सन्तोषने लोभ तृष्णा दैन्य मिथ्याभाषण पैशुन्य वचनचौर्य असत्प्रतिग्रह आदिको निगृहीत किया । अनसूयाने मात्सर्यको जीता, परोत्कर्षसंभावना ने मदको दबाया, परगुणाधिक्यने मानको खण्डित किया ।

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक) · पृष्ठ 196, कुल 274 में से · BharatKosha