प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 197, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १७६ विष्णुभक्तिः—( सहर्षम् ) साधु साधु संपन्नम् । अथ महामोहस्य को वृत्तान्तः । श्रद्धा—देवि, महामोहोऽपि योगोपसर्गैः सह न ज्ञायते क्वापि निली- नस्तिष्ठतीति । विष्णुभक्तिः—अस्ति तर्हि महाननर्थशेषः । प्रहरणीयश्चासौ । यतः— अनादरपरो विद्वानीहमानः स्थिरां श्रियम् । अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥ ११ ॥ न्यम्-सूचकता, वाक्स्तेयम्-अपलापः, परोक्तिचौर्यं वा, असत्प्रतिग्रहः-अनुचितदान- स्वीकारः । निगृहीताः-पराजिताः । अनसूयया-असूया परगुणेष्वक्षमा तदभाव- रूपाऽनसूया तया । मात्सर्यम्-परदोषावेक्षणम् । परोत्कर्षसंभावनया-संभवन्ति परेष्वपि मम गुणेभ्योऽधिका गुणा इति बुद्ध्या । मदः-उत्सेकः । मानः-अभिमानः । अत्र वधबन्धताडनादिप्रतिपादनात् विद्रवो नाम विमर्शसन्धेरङ्गमुक्तम् , तथा च तल्लक्षणम्-‘विद्रवः कथ्यते बन्धवधसन्ताडनादिकः' इति । वृत्तान्तः-समाचारः । योगोपसर्गैः-योगस्य चित्तवृत्तिनिरोधस्य उपसर्गैः विघ्नैः । महामोह इत्यारभ्य लीनस्तिष्ठतीत्यन्तेन विरोधशमप्रतिपादनाच्छक्त्याख्यं विमर्शसन्धेरङ्गमुक्तम्-तदुक्तम्-‘विरोधशमन शक्तिः' इति । अनर्थशेषः-अवशिष्यमाणोऽनर्थः । प्रहरणीयः-ताडनीयः । अनादरपर इति० अनादरपरः अवमानप्रवृत्तः विद्वान् पण्डितः स्थिराम् अनपायां श्रियम् समृद्धिम् ईहमानः कामयमानः अग्नेः शेषम् , ऋणात् शेषम् , शत्रोः शेषम् न शेषयेत् त्यजेत् । शत्रुवधप्रवृत्तः सम्पत्तीमीहमानो विद्वानग्नेर्ऋणस्य शत्रोश्च कमपि भाग न शिष्टं त्यजेद्यतोऽमी भागमात्रावशिष्टाः पुनरपि प्रज्वलन्ति, तन्महामो- हस्य कुत्रापि निलीयस्थितस्य तदवस्थायां त्यागो न कार्यः किन्त्वन्विष्यासौ व्या- पाद्य इति भावः ॥ ११ ॥ विष्णुभक्ति—( हर्षसे ) ठीक हुआ । अब महामोहकी क्या खबर है ? श्रद्धा—देवि, महामोह भी योगोपसर्गोंके साथ न मालूम कहाँ छिपा है ? विष्णुभक्ति—तब तो अनर्थकी जड़ शेष है ही । उसे मारना होगा । क्योंकि— अनादृत होकर स्थिर सम्पत्तिकामुक विद्वान् अग्नि, ऋण तथा शत्रु का शेष न छोड़े ॥११॥