प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 201, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १८३ दूरीकृतासि विधिदुर्ललितैस्तथापि जीवत्यवेहि मन इत्यसवो दुरन्ताः ॥ १३ ॥ ( पुनर्मूर्च्छति ) संकल्पः—राजन्, समाश्वसिहि समाश्वसिहि । मनः—( समाश्वस्य ) अलमस्माकमतः परं जीवितेन । संकल्प, चितामारचय । यावदनलप्रवेशेन शोकानलं निर्वापयामि । ( ततः प्रविशति वैयासिकी सरस्वती ) सरस्वती—प्रेषितास्मि भगवत्या विष्णुभक्त्या । यथा 'सखि सर- रमसे प्रसन्ना तिष्ठसि, त्वया प्रवृत्त्या विरहितः शून्यः ( अहम् ) स्वापे स्वप्नावस्था- यामपि ( किमु वक्तव्यं तदा जागरस्य ) मृतवत् अक्रियः भवामि जाये । विधिदुर्ल- लितैः दैवदुर्विलासैः तथापि एवं सत्यपि ( त्वं प्रवृत्तिः ) दूरीकृता मनसो वियोजि- ताऽसि, ( एवं जातेऽपि ) मनः महल्लक्षणोजनः जीवति प्राणिति ( ततः ) असवः प्राणाः दुरन्ताः दुरवसानाः कष्टमृत्यव इत्यवेहि जानीहि । अयि प्रवृत्ते, त्वं मया विरहिता सती स्वप्नेऽपि न नन्दसि, स्वापे चाहं त्वया विरहितो निष्क्रियो मृत- कल्पश्च जाये, तदेवमावयोरनुरागो दृढमूलः सप्रमाणश्च, सा चेदृशी त्वं मम प्रेयसी मद्वियोजिताऽसि, अथाप्यहं न म्रिये तत्र प्राणानां कठिनतैव हेतुर्न मम जिजी- विषेति भावः । वसन्ततिलकं वृत्तम्, लक्षणमन्यत्रोक्तम् ॥ १३ ॥ अतः परम्-कामादीनां निधनात्परतः । आरचय-सज्जीकुरुष्व अनलप्रवेशेन- वह्नौ प्रवेशं कृत्वा । शोकानलम्-खेदज्वालान् निर्वापयामि-शमयामि । प्रेषिता-प्रहिता । अपत्यव्यसनखिन्नस्य-कामादिसन्ततिविनाशक्लिष्टस्य । प्रबोधनाथ-धैर्योत्पादनाय, तस्य-मनसः । वैराग्योत्पत्तिः-संसाराद्विरक्तिः यतस्व- यत्नं कुरुष्व । मृतकके तुल्य हो जाया करता हूँ । भाग्यवश तुम मुझसे दूर कर दी गई हो तथापि जो मैं जी रहा हूँ इससे मालूम पड़ता है कि प्राण बडे कठिन होते हैं ॥ १३ ॥ ( फिर मूर्च्छित हो जाता है ) सङ्कल्प—राजन्, धीरज धरिये, धीरज धरिये । मन—( आश्वस्त होकर ) अब हमारा जीना व्यर्थ है । सङ्कल्प ! चिता तैयार करो, जिससे आगमें प्रवेश करके शोक सन्तापको शान्तकरूं । ( वैयासिकी सरस्वतीका प्रवेश ) सरस्वती—देवी विष्णुभक्तिने मुझे भेजा है कि सखि सरस्वति, जाओ, अपत्यव्यसन