भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 202, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 202

१८४ प्रबोधचन्द्रोदयम् स्वति, गच्छापत्यव्यसनखिन्नस्य मनसः प्रबोधनाय । यथा च तस्य वैराग्योत्पत्तिर्भवति तथा यतस्वे'ति । तद्भवतु । तत्संनिधिमेवोपसर्पामि । ( उपसृत्य ) वत्स, किमेवमतिविक्लवोऽसि, ननु विदितपूर्व्वं भवता भावा- नामनित्यता, अवीतानि च त्वयैतिहासिकान्युपाख्यानानि । तथाहि— भूत्वा कल्पशतायुषोऽम्बुजभवः सेन्द्राश्च देवासुरा मन्वाद्या मुनयो मही जलधयो नष्टाः परं कोटयः । मोहः कोऽयमहो महानुदयते लोकस्य शोकावहः अत्र मनसः प्रबोधनाय विष्णुभक्त्या प्रेषितायाः सरस्वत्यास्तथा भवत्वित्युक्त्या स्वशक्तिप्रकटनप्रतीतेर्व्यवसायाख्यं विमर्शसन्धेरङ्गमुक्तम्-तल्लक्षणं यथा-‘व्यवसायः स्वशक्त्युक्तिः' इति । अतिविक्लवः-अतिखिन्नः । विदितपूर्वा-पूर्वत एव ज्ञाता । भावानाम्-सांसा- रिकसकलपदार्थानाम्, अनित्यता-विनश्वरता । अधीतानि-पठितानि । ऐतिहा- सिकानि-महाभारतादीतिहासप्रसिद्धानि, आख्यानानि-कथाः । ऐतिहासिककथाः पठितवतो युक्त्या चास्य संसारस्य विनाशशीलतां ज्ञातवतस्तवातिवैकलव्यं नोप- पद्यते, तच्चेदं क्षुद्र हृदयेवैकल्यमिति भावः । संसारस्यानित्यतायां युक्तिश्चानुमान- मेव-‘सर्वे भावा विनाशिनः उत्पत्तिमत्त्वात्’ । न च चातुर्मासफलस्याक्षय्यत्वश्रुतेर सिद्धो हेतुरिति वाच्यम् , तस्याः श्रुतेरर्थवादपरत्वे नित्यत्वासाधकत्वात् ॥ भूत्वेति० अम्बुज भवः ब्रह्मा, सेन्द्राः इन्द्रेणसहिताः देवासुराः देवा दानवाश्च , मन्वाद्याः मनुप्रभृतयः मुनयः ऋषयः, कोटयः तावत्सङ्ख्यका जलधयः समुद्रादयः, मही एषा पृथ्वी च एते सर्वे कल्पशतायुषः ( कल्पो युगचतुष्टयम् शतपदमसङ्ख्या- ततापरकम् ) अपरिमितियुगचतुष्टयपरिमितजीवनकालाः भूत्वाऽपि परम् अत्यर्थं नष्टाः विनाशं गताः, ( येषां कल्पशतमायुस्तथाभूता ब्रह्माणो दैत्या दानवाः महर्षयः ससागराचेय धरा यदि नष्टा ) तदा सिन्धोः सागरस्य फेनसमै फेनतुल्ये क्षिप्रविना- शिनि पञ्चात्मके क्षित्यादिपञ्चकनिर्मिते वपुषि काये पञ्चताम् मृत्युम् गते, अहो आश्चर्यम् , लोकस्य संसारस्य शोकावहः खेदप्रदः कोऽयं महान् मोहः चित्तवैकलव्य- दुःखित मनको प्रबोधित करो। जिससे उसे वैराग्य उत्पन्न हो वैसा प्रयत्नकरौ। अतः उसीके पास चलें। (समीप जाकर) बेटा, इस तरह उदास क्यों हो ? तुमतो पदार्थोंकी अनित्यताको पहलेसेही जानते हो। तुमने ऐतिहासिक उपाख्यान भी पढ़ा है। देखो — सौ कल्पोंकी आयु प्राप्त करके भी कड़ोरो-ब्रह्मा, इन्द्र आदि देवगण, मनु आदि मुनि गण, यह पृथ्वी और समुद्र नष्ट हो गये, फिर लोगोंको सिन्धुके फेनके सदृश पञ्चतत्त्वा -