प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 202, कुल 274 में से
संदर्भ में पढ़ें१८४ प्रबोधचन्द्रोदयम् स्वति, गच्छापत्यव्यसनखिन्नस्य मनसः प्रबोधनाय । यथा च तस्य वैराग्योत्पत्तिर्भवति तथा यतस्वे'ति । तद्भवतु । तत्संनिधिमेवोपसर्पामि । ( उपसृत्य ) वत्स, किमेवमतिविक्लवोऽसि, ननु विदितपूर्व्वं भवता भावा- नामनित्यता, अवीतानि च त्वयैतिहासिकान्युपाख्यानानि । तथाहि— भूत्वा कल्पशतायुषोऽम्बुजभवः सेन्द्राश्च देवासुरा मन्वाद्या मुनयो मही जलधयो नष्टाः परं कोटयः । मोहः कोऽयमहो महानुदयते लोकस्य शोकावहः अत्र मनसः प्रबोधनाय विष्णुभक्त्या प्रेषितायाः सरस्वत्यास्तथा भवत्वित्युक्त्या स्वशक्तिप्रकटनप्रतीतेर्व्यवसायाख्यं विमर्शसन्धेरङ्गमुक्तम्-तल्लक्षणं यथा-‘व्यवसायः स्वशक्त्युक्तिः' इति । अतिविक्लवः-अतिखिन्नः । विदितपूर्वा-पूर्वत एव ज्ञाता । भावानाम्-सांसा- रिकसकलपदार्थानाम्, अनित्यता-विनश्वरता । अधीतानि-पठितानि । ऐतिहा- सिकानि-महाभारतादीतिहासप्रसिद्धानि, आख्यानानि-कथाः । ऐतिहासिककथाः पठितवतो युक्त्या चास्य संसारस्य विनाशशीलतां ज्ञातवतस्तवातिवैकलव्यं नोप- पद्यते, तच्चेदं क्षुद्र हृदयेवैकल्यमिति भावः । संसारस्यानित्यतायां युक्तिश्चानुमान- मेव-‘सर्वे भावा विनाशिनः उत्पत्तिमत्त्वात्’ । न च चातुर्मासफलस्याक्षय्यत्वश्रुतेर सिद्धो हेतुरिति वाच्यम् , तस्याः श्रुतेरर्थवादपरत्वे नित्यत्वासाधकत्वात् ॥ भूत्वेति० अम्बुज भवः ब्रह्मा, सेन्द्राः इन्द्रेणसहिताः देवासुराः देवा दानवाश्च , मन्वाद्याः मनुप्रभृतयः मुनयः ऋषयः, कोटयः तावत्सङ्ख्यका जलधयः समुद्रादयः, मही एषा पृथ्वी च एते सर्वे कल्पशतायुषः ( कल्पो युगचतुष्टयम् शतपदमसङ्ख्या- ततापरकम् ) अपरिमितियुगचतुष्टयपरिमितजीवनकालाः भूत्वाऽपि परम् अत्यर्थं नष्टाः विनाशं गताः, ( येषां कल्पशतमायुस्तथाभूता ब्रह्माणो दैत्या दानवाः महर्षयः ससागराचेय धरा यदि नष्टा ) तदा सिन्धोः सागरस्य फेनसमै फेनतुल्ये क्षिप्रविना- शिनि पञ्चात्मके क्षित्यादिपञ्चकनिर्मिते वपुषि काये पञ्चताम् मृत्युम् गते, अहो आश्चर्यम् , लोकस्य संसारस्य शोकावहः खेदप्रदः कोऽयं महान् मोहः चित्तवैकलव्य- दुःखित मनको प्रबोधित करो। जिससे उसे वैराग्य उत्पन्न हो वैसा प्रयत्नकरौ। अतः उसीके पास चलें। (समीप जाकर) बेटा, इस तरह उदास क्यों हो ? तुमतो पदार्थोंकी अनित्यताको पहलेसेही जानते हो। तुमने ऐतिहासिक उपाख्यान भी पढ़ा है। देखो — सौ कल्पोंकी आयु प्राप्त करके भी कड़ोरो-ब्रह्मा, इन्द्र आदि देवगण, मनु आदि मुनि गण, यह पृथ्वी और समुद्र नष्ट हो गये, फिर लोगोंको सिन्धुके फेनके सदृश पञ्चतत्त्वा -