प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 208, कुल 274 में से
संदर्भ में पढ़ें१६० प्रबोधचन्द्रोदयम् तत्सर्वानर्थबीजस्य ममत्वस्योच्छेदे यत्नः कर्तव्यः । पश्य— प्रादुर्भवन्ति वपुषः कति वा न कीटा यान्यत्नतः खलु तनोरपसारयन्ति । मोहः स एष जगतो यदपत्यसंज्ञां तेषां विधाय परिशोषयति स्वदेहम् ॥ २१ ॥ मनः—देवि, भवत्वेवम् । तथापि दुरुच्छेदस्तु ममत्वग्रन्थिः । (विचि- न्त्य । सोच्छ्वासम् ) सर्वथा त्रातोऽस्मि भवत्या । (इति पादयोः पतति) सरस्वती—वत्स, उपदेशसहिष्णु ते हृदयं जातम् । अत एतदपर- मुच्यते— सर्वानर्थबीजस्य-सर्वविधानर्थकारिणः । ममत्वस्य-ममेदमित्यध्यासस्य । उच्छे दे-नाशे । प्रादुर्भवन्तीति० वपुषः शरीरात् कति कियन्तः कीटाः क्षुद्रप्राणिनः यूकालिक्षादयः न वा प्रादुर्भवन्ति उत्पद्यन्ते, तान् तनोः प्रभूतानपि कीटान् (जनाः) यत्नतः प्रयासेन तनोः शरीरात् अपसारयन्ति दूरीकुर्वन्ति । स एष जगतः संसारस्य मोहः अविवेकः यत् तेषाम् तनुजातानाम् पुत्रादीनां कीटैः समानमपि अपत्यसंज्ञाम् पुत्रा- दिपदवाच्यताम् विधाय स्वदेहम् आत्मकायम् शोषयति क्लमयति । शरीरजातत्वेन समतायां सम्यक् प्रतीतायामपि कीटानां यत्नतः शरीरादपसारणं कुर्वन्त एव पामरा. सुतादीनां विषये यदात्मानं ग्लपयन्ति तत्तेषां मोहस्यविस्फूर्जितमेव, न विवेकपूर्वकं कार्यमिति भावः । वसन्ततिलकं वृत्तम् ॥ २१ ॥ दुरुच्छेदः-दुरप्यासः । ममत्वग्रन्थिः-ममताबन्धनम् । त्रातः-रक्षितः । उपदेशसहिष्णु-उपदेशश्रवणार्हम् । अतः सभी अनर्थों की जड ममताके उच्छेदका ही प्रयत्न करना चाहिये । देखो:— देहसे कितने कीट उत्पन्न होते रहते हैं जिन्हें हम कोशिश करके शरीरसे दूर करते रहते हैं, (फिर देहसे उत्पन्न पुत्र आदिके विषयमें) यह मोह होता है कि इन्हें अपत्य संज्ञा प्रदान कर इनके लिये देहको सुखाया करता हैं ॥ २१ ॥ मन—देवि, ऐसा ही रहे, फिर भी ममताकी गांठ छूटती नहीं है । (सोचकर, उच्छ्वास लेकर) तुमने सर्वथा बचा लिया । (चरणोंपर गिरता है) सरस्वती—वत्स, अब तुम्हारा हृदय उपदेशके योग्य होगया । अतः इतना और