भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 210, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 210

१६२ प्रबोधचन्द्रोदयम् प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृध्नतो गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ॥ २३ ॥ अपि च— श्रियो दोलालोला विषयजरसाः प्रान्तविरसा विपद्गेहं देहं महदपि धनं भूरि निधनम् । बृहच्छोको लोकः सततभवलानर्थबहुला तथाप्यस्मिन्घोरे पथि वत रता नात्मनि रताः ॥ २४ ॥ सरस्वती—वत्स, एतद्वैराग्यं त्वामुपस्थितम् । तदेतत्संभावय । नान् तनौ शरीरे निपततः अहमहमिकया परापततः गृध्रध्वाङ्क्षवृकान् गृध्रान् काकान् वृकांश्च कः कथम् वा वारयेत् निवारयेत् ? केवलं चर्मैवावरकं निर्मितं ब्रह्मणा येना- ममांसलोभेन गृध्रादयो न पतन्ति, न चेत् तान् वारयितुं कोऽक्षमिव्यतेति भावः । मांसपिण्डमेवेदं वपुःकेवलं त्वचाऽन्तरितं कृतं, तदन्न वृथाऽऽस्थेति ध्वनिः। एतेन शरीरस्यास्थायित्वप्रतिपादनेन वैराग्यं प्रति प्रवणीकरणमुद्देश्यं प्रकाशितम् ॥ २३ ॥ श्रिय ःति० श्रियः सम्पत्तयः दोलालोलाः हिन्दोलवञ्चपलाः, विषयजरसाः सांसा- रिकसुखानि प्रान्तविरसाः अवसानकष्टप्रदाः, देहम् वपुः विपद्गेहम् आपत्तिस्थानम् महदपि धनम् भूरिप्रचुरं निधनम् मरणसाधनम् , लोकः संसारः बृहच्छोकः सम- धिकशोकपूर्णः, अबला स्त्री अनर्थबहुला विविधार्थसाधनम्, तथापि एवमुत्पात- परम्परापरीतत्वेऽपि अस्मिन् घोरे भयङ्करे पथि वैषयिकमार्गे रताः संसक्ताः आ- त्मनि परमे ब्रह्मणि न रताः न लग्नाः बतेति खेदे । सम्पत्तीनां क्षणस्थायित्वे वैष- यिकसुखानां पर्यन्तविरसत्वे देहस्यानेकविधविपदाश्रयत्वे धनानां प्राणहारकत्वे लोकानां पुत्रादिवियोगावस्थायां शोकावृतत्वावलोकने च प्रत्यक्षे वनितानाञ्चानर्थ साधनत्वे साधितेऽपि भयावेहेऽत्र भववर्त्मनि प्रवर्त्तन्ते लोकानाध्यात्ममार्गे इति खिद्येऽहमिति भावः । शिखरिणीवृत्तम् ॥ २४ ॥ त्वामुपस्थितम्-तव समीपे समागतम् । एतत्-वैराग्यम् । सम्भावय-स्वागती- कुरुष्व । लिये ललचाये हुए काक और गृध्रको उसपर गिरनेसे कैसे रोका जाता ? ॥ २३ ॥ और—लक्ष्मी दोलाकी तरह चल है, विषय सुखपर्यन्त विरस है, देह विपत्ति का घर तथा धन मौत है, लोक अतिशोकाकुल है, स्त्रियाँ अनर्थ की जड़ें है, फिर भी लोग इस घोर ससार मे ही लगे रहते है आत्मामे नही रमते हैं ॥ २४ ॥ सरस्वती—वत्स यह वैराग्य तुम्हारे पास हाजिर है, इसका मान करो ।