प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 211, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १६३ मनः—क्वासि पुत्रक ! ? वैराग्यम्—( उपसृत्य ) अहं भो अभिवादये । मनः—वत्स, जातमात्रेण त्वया त्यक्तोऽस्मि । परिष्वजस्व माम् । वैराग्यम्—( तथा करोति ) मनः—वत्स, त्वद्दर्शनात्प्रशान्तो मे शोकावेशः । वैराग्यम्—तात, कोऽत्र शोकावेशः । यतः— पान्थानामिव वर्त्मनि क्षितिरुहां नद्यामिव भ्रश्यतां मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव । जातमात्रेण त्वया त्यक्तोऽस्मि-उत्पन्नमात्र एव त्वां मां परित्यक्तवानित्यर्थः । परिष्वजस्व-आलिङ्ग। त्वद्दर्शनात्-तव वैराग्यस्य साक्षात्कारात् । प्रशान्तः-मन्दीभूतः । शोकावेशः- खेदस्य वेगः । पान्थानामिति० वर्त्मनि मार्गे पान्थानाम् पथिकानाम् इव नद्याम् स्रोतस्विन्याम् भ्रश्यतां पतताम् भूरुहाणाम् वृक्षाणाम् इव, पुष्करे व्योम्नि मेघानाम् जलदानाम् इव, जलनिधौ सागरे सांयात्रिकाणाम् पोतवणिजाम् इव, पितृमातृबन्धुतनयभ्रातृ- प्रियाणाम् सर्वेषाम् आत्मीयानाम् संयोगः मिलनं यदा विदुषाम् ज्ञानिनां कृते दूर- वियोग एव अत्यन्तविच्छेदस्वरूप एव सिद्धस्तदा कः कीदृशः शोकोदयः खेदप्रकाशः ? यथा पथि पथिका मिलन्ति वियुज्यन्ते च, यथा वा पतन्तो वृक्षा नदीपयःपूरेणोह्य- मानाः संयुज्यन्ते, वियुक्ताश्च भवन्ति, यथा वा व्योम्नि मेघाः परस्परं मिलित्वा विश्लिष्यन्ति, यथा वा पोतवणिजो जलधौ परेण तादृशेनैव वणिजा सङ्गताः सन्तो विच्छिद्यन्ते, तद्वदेवैष पितृमात्रादिभिस्संयोगः। सम्भविना वियोगेनावरुद्ध इति मन—कहाँ हो बेटा ? वैराग्य—( समीप जाकर ) यह मैं अभिवादन करता हूँ । मन—बेटा, जन्म लेते ही तुमने मुझे छोड़ दिया था, आओ गले लगो । वैराग्य—( वैसा करता है ) मन—बेटा, तुम्हें देखनेसे मेरा शोकावेश शान्त हो गया । वैराग्य—तात, इसमे शोककी क्या बात है ? क्योंकि— रास्तेमें पन्थियोंकी तरह, नदीमें गिरनेवाले तटस्थ वृक्षोंकी तरह, पुष्करक्षेत्रमें मेघों की तरह और समुद्रमें नौयात्रियोंकी तरह जब माता, पिता, बन्धु, पुत्र, भाई तथा १३ प्र० च०