भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 212, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 212

१६४ प्रबोधचन्द्रोदयम् संयोगः पितृमातृबन्धुतनयभ्रातृप्रियाणां यदा सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा ॥ २५ ॥ मनः- (सानन्दम्) देवि, एवमेतत् यदाह वत्सः । तथाहि तावदव- धारयतु भवती । निरन्तराभ्यासदृढीकृतस्य सस्नेहसूत्रग्रथितस्य जन्तोः । जानासि किञ्चिद्भगवत्युपायं ममत्वपाशस्य यतो विमोक्षः ॥ २६ ॥ सरस्वती-वत्स, भावानामनित्यताभावनमेव तावन्ममतोच्छेदस्य प्रथमोऽभ्युपायः । तथाहि- तस्मिञ्जायमाने विद्वांसो न शोचन्तीत्यर्थः । संयोग एव वियोगञ्जनयतीति येन यस्य संयोगो जायते तेन समं तस्य वियोगोऽप्यवश्यंभावीति हेतोः परिग्रहापाये- ऽपि विद्वांसो न शोकेनाभिभूयन्त इति साराशयः । 'व्योम पुष्करमम्बरम्' इति, 'सांयात्रिकः पोतवणिक्' इति चामरः । शार्दूलविक्रीडितं वृत्तम् ॥ २५ ॥ अवधारयतु-निश्चिनोतु । भवती-त्वं सरस्वती । निरन्तरेति० निरन्तराभ्यासदृढीकृतस्य-सार्वदिकानुशीलनबद्धमूलस्य सस्नेह- सूत्रग्रथितस्य प्रेमपूर्णान्तःकरणवृत्तिरूपरज्जुस्यूतस्य जन्तोः प्राणिनः ममत्वपाशस्य ममताबन्धनस्य यतः येन विमोक्षः अवसानम् भवति, अयि भगवति, (तादृशम्) किञ्चिदुपायम् कमपि प्रतिकारम् जानासि अवैषि ? अयि भगवति सरस्वति, किं भवती कमप्येतादृशमुपायं जानाति येन जन्तोः चिरन्तनाभ्यासबद्धमूलः स्नेहरज्जु- ग्रथितश्च ममत्वबन्धो विघटेतेत्यर्थः ॥ २६ ॥ भावानाम्-पदार्थानाम् । अनित्यताभावनम्-अस्थायित्वचिन्तनम् । ममतोच्छे- प्रिया का साथ हुआ करता है तब उनसे वियोग तो निश्चित ही है, फिर विद्वानों को इसमें क्या शोक करना है ? ॥ २५ ॥ मन-(आनन्दसे) देवि, यही बात है जो यह बच्चा कह रहा है। आप विश्वास करें । प्राणियों का ममत्वपाश निरन्तराभ्याससे दृढ़ हो गया है और स्नेहसूत्रमें पिरोया हुआ है, क्या आप ऐसा कुछ उपाय जानती हैं जिसके द्वारा उससे छुटकारा प्राप्त हो सके ॥ २६ ॥ सरस्वती-पदार्थों की अनित्यताका विचार ही ममतोच्छेदका प्रथम उपाय है ।