प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 219, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः २०१ तद्भवतु । ज्ञातीनामुदकदानाय नदीमवतरामः । मनः—यदाज्ञापयति देवी । ( इति निष्क्रान्ताः सर्वे ) इति प्रबोधचन्द्रोदये वैराग्यप्रादुर्भावो नाम पञ्चमोऽङ्कः । ज्ञातीनाम्-दायादानाम् , कामादीनामिति तात्पर्यम् । उदकदानाय-जलाञ्जलिं दातुम् । जलाञ्जलिदानेन निरन्वयनाशं प्रतीङ्गितं कृतं वेद्यम् । एतेन कर्मणि विरा- गस्याप्रतिबन्धकत्वं समर्थितम् , उक्तश्चायमर्थो याज्ञवल्क्येन-‘ज्ञानिनोऽज्ञानिनो वापि यावद्देहस्य धारणम्। तावद्वर्णाश्रमाप्तेषु कर्त्तव्यं कर्म मुक्तये’ इति॥ अवतरामः- प्रविशामः॥ इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते ‘प्रबोधचन्द्रोदय’-‘प्रकाशे’ पञ्चमाङ्क-‘प्रकाशः’ अस्तु । मृतज्ञातिबन्धुओंको तिलाञ्जलि देनेके लिये नदीमें उतरें । मन—देवीका जैसा आदेश । ( सबका प्रस्थान ) पञ्चम अङ्क समाप्त ।