प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 218, कुल 274 में से
संदर्भ में पढ़ेंस्वास्थ्यमापन्ने क्षेत्रज्ञोऽपि स्वां प्रकृतिमापत्स्यते । यतः— त्वत्सङ्गाच्छाश्वतोऽपि प्रभवलयजरोपप्लुतो बुद्धिवृत्ति- ष्वेको नानेव देवो रविरिव जलधेर्वीचिषु व्यस्तमूर्तिः । तूष्णीमालम्बसे चेत्कथमपि वितता वत्स संहृत्य वृत्तौ- र्भात्यादर्शे प्रसन्ने रविरिव सहजानन्दसान्द्रस्तदात्मा ॥३३॥ मनसि विषयोपरक्ते बन्धस्तस्य तदुपरागापगमे च मोक्ष इति सिद्धान्तमनुसृत्यैवा- न्रत्यो ग्रन्थो बोध्यः । त्वत्सङ्गादिति० शाश्वतः नित्यनिर्विकारः अपि देवः आत्मा त्वत्सङ्गात् तव मनसः सङ्गात् तदुपक्लृप्तविषयसंयोगात् प्रभवलयजरोपप्लुतः प्रभवो जन्म, लयो मृत्युः, जरा वार्धकम् , ताभिरुपप्लुतः उपरक्षितः सम्बन्धवत्त्वं गमितः एकः ( अपि ) जलधेर्वीचिषु सागरोर्मिषु रविः सूर्य इव बुद्धिवृत्तिषु अन्तःकरणवृत्तिषु नाना बहुत्वमापन्नः इव व्यस्तमूर्त्तिः नानात्वं गतः ( भवतीति शेषः । ) यथैकोऽपि रवि- स्सागरतरङ्गेषु प्रतितरङ्गं पृथगिवावभासमानः सन् नाना इव प्रतीयते तद्वन्मनः- सम्बन्धमहिम्ना भिद्यमानास्वान्तःकरणवृत्तिषु तदुपाधिमहिम्नाऽऽत्मन एकस्यापि भिन्नत्वप्रतिभासो भवति, मनसा प्रतिशरीरं भिन्नेन ज्ञानानि जन्यन्ते तैश्च भिन्ना नानात्मानोऽवभासन्ते, तत्रान्तःकरणवृत्तिभेदस्तरङ्गभेदवत् , सूर्यवच्चात्मन एकत्व- मिति दृष्टान्तदार्ष्टान्तिकसाम्यमवगन्तव्यमित्याद्यपादद्वयार्थः । वत्स, कथमपि केनापि अदृष्टमहात्मसङ्गत्तिसुकृतोद्रेकाद्यन्यतमकारणसमवधानात्मना प्रकारेण वित- ताः भिन्नभिन्नविषयसङ्गता वृत्तीः अन्तःकरणवृत्तीः संहृत्य प्रतिनिवर्त्य यदि त्वं तूष्णीमालम्बसे निर्वर्त्तितविषयसम्पर्कतामवलम्बसे तदा प्रसन्ने निर्मले आदर्शे रविरिव आत्मा ( स्वस्वरूपेण ) सहजानन्दसान्द्रः स्वाभाविकानन्दनिर्भरः ( सञ्जा- यते ) इति शेषः । तव मनसो विषयविनिवृत्तौ त्वद्द्धारकविषयसम्बन्धजुष आत्म- नोऽपि विषयसम्बन्धनिवृत्तेः क्लृप्ततया तद्धेतुकनानात्वापगमे स्वरूपावस्थानरूप- बन्धनिवृत्तिर्जायत इति तात्पर्यम् ॥ ३३ ॥ पहुंच जायेंगी । क्योंकि— शाश्वत तथा अद्वितीय होकर भी आत्मा तुम्हारे संसर्गसे जन्ममृत्युजराका भाजन तथा बुद्धिवृत्तिप्रतिफलितभावेन अनेक दीख पड़ती है जैसे समुद्रतरङ्गोंमें सूर्य अनेक दीखता है। यदि तुम अपनी वृत्तियोंको समेटकर शान्त हो जाते हो तो आत्मा स्वाभाविक आनन्दरूपमें प्रकाशित होने लगेगी जैसे निर्मल दर्पणमें सूर्य प्रकाशित होता है ॥ ३३ ॥