भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 217, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 217

पञ्चमोऽङ्कः १६६ मनः- ( सलज्जम् ) यदादिशति देवी । सरस्वती-शमदमसन्तोषादयश्च पुत्रास्त्वामनुचरन्तु । यमनियमा- दयश्चामात्याः । विवेकोऽपि त्वदनुग्रहादुपनिषद्देव्या सह यौवराज्यमनु- भवतु । एताश्च मैत्र्यादयश्चतस्रो भगिन्यो भगवत्या विष्णुभक्त्या तव प्रसादाय प्रहितास्ताः सप्रसादमनुमानय । मनः-यदादिशति देवी । मूर्ध्नि निवेशिताः सर्वा एवाज्ञाः । ( इति सहर्षं पादयोः पतति ) सरस्वती-साम्राज्यमनुतिष्ठस्व । एते च यमनियमादयः सादर- मायुष्मता द्रष्टव्याः । एतैरेव सहायुष्मान्यौवराज्यमधितिष्ठतु । त्वयि च संभवादिति भावः । अनुचरन्तु-सेवन्ताम् । अमात्याः-मन्त्रिणः । त्वदनुग्रहात्-तव कृपावशात् । यौवराज्यम्-युवराजस्य पदम् कार्यं वा । मैत्र्यादयः-मैत्री, करुणा, मुदिता, उपेक्षा इति चतस्रः । प्रसादनाय-आनन्दाय । सप्रसादम्-प्रसन्नभावेन । अनुमानय-प्रसन्नतामाधातुमनुजानीहि । मूर्ध्नि निवेशिताः-शिरसि स्थापिताः । साम्राज्यम्-सर्वाधिपत्यम् । अनुतिष्ठस्व-उपभुङ्क्ष्व । आयुष्मता-भवता । एतैः- यमनियमादिभिः । स्वास्थ्यम्-प्रकृतिस्थताम् , विषयसम्बन्धराहित्यम् । आपन्ने- प्राप्तवति । क्षेत्रज्ञः-आत्मा । स्वाम् प्रकृतिम्-आत्मनः परमात्मतारूपं स्वभावम् । आपत्स्यते-प्राप्स्यति । 'मन एव मनुष्याणां कारणं बन्धमोक्षयोः' इति वचनेन मन-( लज्जापूर्वक ) जो आपकी आज्ञा । सरस्वती-शम दम सन्तोष आदि पुत्र तुम्हारे अनुचर हों, यम नियम आदि मन्त्री रहे, विवेक भी तुम्हारे अनुग्रहसे उपनिषद् देवीके साथ यौवराज्यका अनुभव करे । ये मैत्री आदि चार बहनें भगवती विष्णुभक्तिद्वारा तुम्हे प्रसन्न करनेके लिये भेजी गई हैं, उनसे प्रसन्नताके साथ बरतो । मन-देवी की जो आज्ञा । आपकी सभी आज्ञायें हमारे लिये शिरोधार्य हैं । ( सहर्ष चरणोंपर गिरता है ) सरस्वती-साम्राज्य भोग करो । इन यम नियम आदिको सादर देखा करना । इन्हींके साथ तुम यौवराज्यका भोग करो । तुम स्वस्थ हुए कि आत्मा भी अपनी स्थितिपर