प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 216, कुल 274 में से
संदर्भ में पढ़ें१६८ प्रबोधचन्द्रोदयम् मनः—एवमेतत् । संप्रति हि— नार्यस्ता नचयौवना मधुकरव्याहारिणस्ते द्रुमाः प्रोन्मीलन्नवमल्लिकासुरभयो मन्दास्त एवानिलाः । अद्योदात्तविवेकमार्जिततमःस्तोमव्यलीकान्पुन- स्तानेतान्मृगतृष्णिकार्णवपयःप्रायान्मनः पश्यति ॥ ३२ ॥ सरस्वती—वत्स, यद्यप्येवं तथापि गृहिणा मुहूर्तंमप्यनाश्रमधर्मिणा न भवितव्यम् । तदद्यप्रभृति निवृत्तिरेव ते सधर्मचारिणी । ऽतिस्थूलमेव लक्ष्यं प्रागुद्दिशति क्रमशश्चाभ्यासपरिपाके जायमानेऽन्यान्यपि लक्ष्याणि विध्यति तथैव विष्णुभक्त्याऽवासहृदयस्थैर्यः श्रवणमनननिदिध्यासनादिषु सिध्यन् परमं ब्रह्म प्राप्नोतीति बोधयितुमयं क्रमन्यासः कृतः ॥ ३१ ॥ नार्यस्ता इति० ताः अनुभूतपूर्वाः नवयौवनाः युवत्यः नार्यः स्त्रियः, ते मधुकर- व्याहारिणः भृङ्गमुखरिताः द्रुमाः वृक्षाः प्रोन्मीलन्तीनां विकासं भजन्तीनां नव- मल्लिकानां सुरभिः सुगन्धः येषु तादृशाः विकसन्मल्लिकाकुसुमसुरन्धियुताः मन्दाः अतीव्रवाहिनः त एव प्राक्तनाविलक्षणा एव अनिला वायवः । (किन्तु जातबोधो- दयस्य मम कृते ) अद्य अधुना मनः उदात्तेन निर्मलेन विवेकेन वस्तुयाथातथ्यज्ञानेन मार्जितम् अपसारितं तमःस्तोममज्ञाननिवहस्तेन व्यलीकान् असत्यान् एतान् विषयान् मृगतृष्णिकार्णवपयःप्रायान् मृगतृष्णाजलवदसत्यप्रतिभासान् पश्यति । अज्ञानावस्थायां येषां वनितादीनां सुखसाधनतया ज्ञानं जायते स्म सम्प्रति ज्ञानो- दये तेषामेवासत्यत्वप्रकारकज्ञानविषयतया नावर्जकत्वं किन्तु विरागजन्मकत्वमेवेति तात्पर्यम् । शार्दूलविक्रीडितमेव वृत्तम् ॥ ३२ ॥ यद्यप्येवम्—नार्यो नानन्दप्रदाः किन्तु बन्धसाधनान्येवेति त्वदुक्तं यद्यपि न मिथ्या । गृहिणा-गृहस्थेन । मुहूर्त्तम्-क्षणम् । अनाश्रमिणा—अस्त्रीकेण । गृहस्थः सततं स्त्रियं रक्षेद्दम्पत्योः सहाधिकारात् , अग्निहोत्रादिकर्मसु भार्या विना वैगुण्य- मन—ठीक है, इस समय— नवयौवना नारियाँ, भ्रमरमुखरित वृक्षगण, विकसित नवमल्लिकासे सुरभित मन्दा- निल, अब यह मन इन सभीको पवित्र विवेक द्वारा अज्ञानको समूल दूरकर मृगतृष्णा जलसदृश देख रहा है ॥ ३२ ॥ सरस्वती—वत्स, यद्यपि तुम्हारा कथन सत्य है, फिर भी गृहस्थको अनाश्रमी नहीं रहना चाहिये, अतः इस समयसे निवृत्ति तुम्हारी धर्मपत्नी रहेगी ।