प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 215, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १५७ सरस्वती—वत्स, श्रूयताम्। चित्तस्यायं विकारः। ततः कस्मिंश्चि- च्छान्ते विषये चित्तं निवेश्यताम्। मनः—तत्प्रसीदतु भगवती। कोऽसौ शान्तो विषयः। सरस्वती—वत्स, गुह्यमेतत्, तथाप्यार्तानामुपदेशे न दोषः। नित्यं स्मरञ्जलदनीलमुदारहार- केयूरकुण्डलकिरीटधरं हरिं वा। ग्रीष्मे सुशीतमिव वा हृदमस्तशोकं ब्रह्म प्रविश्य भज निर्वृतिमात्मनीनाम् ॥ ३१ ॥ मानमपि मलश्चिन्ताततिभिरभिभूयते इति भावः। ऐन्दवं बिम्बमिवेत्युपमया स्वतो विमलत्वं चिन्तासन्तानत्वोपमया च विषयगतचिन्तायास्तद्वैमल्यावरकत्वं ध्वन्यते ॥ ३० ॥ विकारः-विषयोन्मुखत्वलक्षणः। चित्तं निर्विषयं स्थातुमशक्तं तेन तादृशे विषये तस्यासक्तिर्विधीयतां येन तस्य स्वरूपं स्मृतिपथान्नापेयादिति वक्ष्यति-कस्मिंश्चिदिति। गुह्यम्-गोपनीयम्। आर्त्तानाम्-पीडितानाम्। नित्यमिति० नित्यं सदा जलदनीलम् मेघश्यामलकान्तिम् उदारः सुन्दरो यो हारः मुक्तामाला केयूरं बाहुभूषणम् कुण्डले कर्णाभरणे किरीटं मुकुटं तेषां धरं धार- यितारम्। हरिम् विष्णुम् स्मरन् ध्यायन् अस्तशोकम् शान्तसर्वदुःखम् ब्रह्म वा ग्रीष्मे तप्तौ सुशीतम् अतिशीतलम् हृदम् जलाशयम् इव प्रविश्य आसाद्य आत्म- नीनाम् स्वीयाम् स्वरूपप्राप्तिरूपाम् निर्वृतिं शान्तिम् भज आप्नुहि। अयमाशयः- जलदश्यामलतनो रमणीयहारकेयूरमुकुटधरस्य भगवतो विष्णोः स्मरणमनवरतमा- चरन् तद्भावोदितचित्तशुद्धिः सर्वतापहरं ग्रीष्मे शीतं जलाशयमित्र ब्रह्मस्वाभेदे- नाधिगम्य स्वरूपावाप्तिलक्षणां शाश्वतिकीं शान्तिमासाद्य कृतित्वमाकलयेदित्यर्थः। पूर्वं साकारभावनया चित्तस्थैर्ये जाते पश्चान्निराकारे प्रवेशो भवति, तदनुरोधेनात्र विष्णुभक्तेः पूर्वकसंख्यतोक्ता, लक्ष्यं त्वात्मज्ञानमेवेति बोध्यम्। यथा नवधानुष्को- सरस्वती—यह तो चित्तका विकार है, अतः चित्तको किसी शान्तविषयमें लगा दो। मन—आप कृपाकर बतावें, वह शान्तविषय कौन-सा है ? सरस्वती—यद्यपि यह गोप्य है, फिर भी आर्त्तों को बतानेमें कुछ दोष नहीं है। सदा मेघश्यामलावर्ण हारकेयूरकुण्डलधारी भगवान्का स्मरण करते हुए अथवा ग्रीष्म ऋतुमें सुशीतल जलाशयके सदृश वीतशोक ब्रह्ममें अभेदभावनाके द्वारा प्रवेश कर आत्मशान्ति प्राप्त करो ॥ ३१ ॥