भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 223, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 223

षष्ठोऽङ्कः २०५ श्रद्धा—शृणु, नित्यानित्यविचारणाप्रणयिनी वैराग्यमेकं सुहृ- त्सन्मित्राणि यमादयः शमदमप्रायाः सहाया मताः । मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा वला- दुच्छेद्या रिपवश्च मोहममतासङ्कल्पसङ्गादयः ॥ ३ ॥ शान्तिः—अथ धर्मे स्वामिनः कीदृशः प्रणयः । श्रद्धा—पुत्रि, वैराग्यसंनिकर्षात्प्रभृति नितान्तमिहामुत्रफलभोगविरस एव स्वामी । तेन, नित्यानित्येति० किं नित्यं किमनित्यमिति प्रसङ्गे ब्रह्म नित्यं ततोऽन्यदनित्यमिति विचारणा भावना एव प्रणयिनी स्निग्धा प्राणप्रिया, एकं वैराग्यम् केवलं विषय- विरागः, सुहृत् मित्रम्, यमादयः यमनियमप्राणायामप्रभृतयः, मित्राणि सखायः, शमदमप्रायाः शममुख्याः, सहायाः सहकारिणः, मैत्र्याद्याः मैत्रीकरुणामुदितोपेक्षाश्च- तस्रः परिचारिकाः दास्यः, मुमुक्षा मुक्तिकामना नित्यं सततं सहचरी पार्श्ववर्त्तिनी, मोहममतासङ्कल्पसङ्गादयश्च रिपवः बलात् प्रसह्य उच्छेद्याः विनाशनीयाः । कस्यापि राज्ञः परिवारे स्त्रियो मन्त्रिणः सुहृदादयश्च तिष्ठन्ति तथाऽस्यात्मनः परिवारे—नित्या- नित्यवस्तुविचारणा प्राणप्रिया, वैराग्यमेकं सदानुगामितया सुहृत्, यमादयो मित्राणि, शमदमादयः सहायकाः, मैत्र्यादयः परिचारिकाः, मुमुक्षा च नित्यपार्श्व- वर्त्तिनी, शत्रुभूताश्च ममतादय उच्छेद्या इत्याशयः । यमादयो योगोक्ताः—यमनिय- मासनप्राणायामप्रत्याहारध्यानधारणासमाधयः । शमः—मनोनिग्रहः, दमः—इन्द्रिय- सामान्यनिग्रहः, मोहः—अतस्मिंस्तद्बुद्धिः, ममता—स्वीयत्वाभिमानः, सङ्कल्पो-मन- सोऽभिनिवेशः, सङ्गो विषयसाम्मुख्यम् । स्पष्टमन्यत् । शार्दूलविक्रीडितमेव वृत्तम् ॥३॥ धर्मे—धर्मविषये । स्वामिनः—पुरुषस्य । धर्मं केन प्रकारेण पश्यति पुरुष इति प्रश्नः । वैराग्यसन्निकर्षात्—वैराग्यस्य समीपस्थत्वात् । प्रभृति—आरभ्य । इहामुत्र श्रद्धा—सुनो— नित्यानित्यवस्तु विचारणा ही प्रिया है, वैराग्य ही एकमात्र मित्र है, यम, नियम आदि साथी तथा शम, दम प्रभृति सहाय हैं । मैत्री आदि वृत्तियाँ परिचारिकाएं हैं, मुमुक्षा सदा साथ रहती है, मोह, ममता, सङ्कल्प, सङ्ग आदि शत्रु हैं जिनका उच्छेद करना है ॥३॥ शान्ति—और धर्मके विषयमें स्वामीका कैसा स्नेह है ? श्रद्धा—पुत्रि, जबसे विराग आगया है तबसे स्वामी इहामुत्र फलभोग विरक्त ही रहा करते हैं ।