भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 226, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 226

२०८ प्रबोधचन्द्रोदयम् ग्रथ्नाति स्वयमिच्छया शुचिपदैः शास्त्राणि काव्यानि वा लोकान्भ्राम्यति पश्यति स्फुटरुचो रत्नस्थलीर्मैरवीः ॥ ५ ॥ मधुमतीं च भूमिमापन्नः स्थानाभिमानिनीभिर्देवताभिरुपच्छन्द्यते भो इहोपविश्यताम् । नात्र जन्ममृत्यू । अनुपाधिरमणीयो देशः । एष त्वामुपस्थितो विविधविलासलावण्यपुण्यमयो मङ्गलार्थव्यग्रपाणिः प्रणय- पेशलो विद्याधरीजनः । तदेहि, यतोऽत्र— कनकसिकतिलस्थलाः स्रवन्तीः पृथुजघनाः कमलानना वरोरूः । जुसामाथर्वलक्षणाः, पुराणानि तानि तानि प्रसिद्धान्येव, भारतकथा महाभारती- मितिवृत्तम्, ताः, तथा तर्कादयः वाङ्मयाः शास्त्राणि आविर्भवन्ति प्रकाशन्ते । शुचिभिः व्याकरणसंस्कृतैः पदैः सुप्तिङन्तलक्षणैः शास्त्राणि काव्यानि वा यदृच्छया यथेच्छम् ग्रथ्नाति प्रबन्धनाति, लोकान् भूर्भुवःस्वरादीन् भ्राम्यति गच्छति, मेरोरिमाः मैरवीः स्फुटरुचः देदीप्यमानाः रत्नस्थलीः रत्नखचितान् भूभागान् पश्यति । तदेवं भूयस्यै सिद्धै हृद्यायै प्रभवन्त्या अस्या मधुमत्याः प्रेषणं कामादीनां महास्त्रं वेदित- व्यम् । सिद्धिवर्त्मनि कियददूरं गता लौकिकीभिः सिद्धिभिः प्रतिबद्धयन्ते जना इति प्रदर्शयितुमयं ग्रन्थो बोध्यः ॥ ५ ॥ मधुमतीञ्च भूमिम्-मधुमत्या सिद्धा कल्पितां सिद्धिस्थलीम् । आपन्नः-प्राप्तः । स्थानाभिमानिनीभिः-तत्तत्स्थानाधिष्ठात्रीभिर्देवताभिः । उपच्छन्द्यते-सेव्यते तेनैव प्रकारेण वन्द्यते च । वञ्चनाप्रकारमेव वदति—इहेत्यादि० । अनुपाधिरमणीयः- स्वाभाविकसौन्दर्ययुक्तः । विविधा नानाप्रकारका ये विलासाः नेत्रकरचरणादिसञ्चार- संभवा विभ्रमाः, लावण्यं गात्रसौन्दर्यं च ताभ्यां पुण्यमयः स्फीतः, मङ्गलार्थैः दध्या- दर्शाद्युपकरणैर्व्यग्रपाणिः भृतकरः । प्रणयपेशलः-अनुरागनिपुणः । विद्याधर्यो योनि- भेदस्त्रियः । कनकसिकतिलेति० कनकसिकतिलानि स्वर्णमयबलुकायुकानि स्थलानि पुलिन- और तर्क विद्यायें प्रकट होती है, यह पवित्र पदों द्वारा शास्त्र या कविताका निर्माण करता है, यह समस्त लोकमें भ्रमण करता तथा मेरुकी रत्नस्थलियाँ देखता है ॥ ५ ॥ मधुमती भूमिकाको प्राप्त व्यक्ति स्थानाभिमानिनी देवताओंसे आदर पाता है, यहाँ बैठ जाइये, यहाँ जन्म मृत्युकी बात नही है । यह देश निरुपाधि सुन्दर है । यह विद्या- धरीजन विविध विलास तथा लावण्य लिये मङ्गलार्थ प्रेमसे आपके आगे उपस्थित है । अतः आइये, इस जगहपर— स्वर्णवालुकामय नदियोंमे बृहन्नितम्बा वरोरू ललनाओंके साथ, मरकतदलकोमला