प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 225, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २०७ श्रद्धा—पुत्रि, तथा दुरवस्थागतेनापि महामोहतकैन स्वामिनः प्ररोचनाय मधुमत्या विद्यया सहोपसर्गाः प्रेषिताः। अयमभिप्रायः। यद्ये- तेष्वासक्तः स्वामी विवेक उपनिषच्चिन्तामपि न करिष्यतीति। शान्तिः—ततस्ततः। श्रद्धा—ततस्तैर्गत्वा कापि स्वामिन्यैन्द्रजालिकी विद्योपदर्शिता तथाहि, शब्दानेष शृणोति योजनशतादाविर्भवन्ति स्वतः स्तास्ता वेदपुराणभारतकथास्तर्कादयो वाङ्मयाः। प्रच्छन्नो भूत्वा। तेषाम्-मोहोपसर्गभूतानाम् कामादीनाम्। तथा दुखस्थांगतेन-तादृशीं दुर्गतिमापन्नेन। स्वामिनः-विवेकस्य। प्ररोचनाय- विषयोन्मुखीकरणद्वारा वञ्चनाय। मधुमत्या विद्यया-मधुमतीनामिकया विद्यया। उपसर्गाः-स्वानुचराः कामादयः। अयमभिप्रायः-मोहस्य मधुमतीविद्योपेतस्वोप- सर्गाणां विरज्यत्पुरुषपार्श्वे प्रेषणेऽयं तस्य गूढोऽभिसन्धिः। एतेषु-मधुमतीविद्यादिषु। आसक्तः-अनुरक्तः। उपनिषच्चिन्ताम्-मोक्षसाधनब्रह्मात्मैक्यज्ञानप्रदवेदभागानुध्या- नम्। एकत्रासक्तस्य परविस्मरणं स्वाभाविकमिति तात्पर्येणायं ग्रन्थः। बृहदारण्यके सप्तमो मधुकाण्डः, मधुनामेन्द्रियाधिष्ठानदेवता, तदुपासनाऽभिधायित्वात्तदुपनि- षदपि मधुमतीत्युच्यते। 'मनो ब्रह्मेत्युपासीत' इति मनस उपासनया जीवात्मनो मनस्त्वसिद्धेर्मनोराज्यमुपासनाफलम्, चक्षुरुपासनया दूरदर्शित्वम्, श्रोत्रोपासनया दूरश्रवणम्, वागुपासनया नूतनवाग्वैखरीविजृम्भणम्, पाण्युपासनया पाणिना- सूर्यमण्डलस्पर्शः, पादोपासनया पादाभ्यां समुद्रसन्तरणमित्यादयो लौकिक्यः सिद्धयो मधुमत्याः फलं बोध्यम्। अनया च पुरुषो मोहयित्वा मोक्षमार्गादपाक्रियत इत्यस्या- मोहपञ्चगत्वं दर्शितम्। तैः-मोहप्रेषितमधुमतीसहचरकामादिभिः। ऐन्द्रजालिकी- अविद्यमानार्थप्रकाशनरूपा। सर्वैः संभूय स्वामिनीभावं लम्भिता इन्द्रजालविद्या पुरुषस्याग्रे समुपस्थापितेत्यर्थः, तद्विद्यागुणान् वक्ष्यति— शब्दानिति० एष मधुमत्या विद्ययोपपन्नः पुरुषः योजनशतात् अतिव्यवहित- देशात् शब्दान् शृणोति, स्वतः विनैव परिश्रमं तास्ताः प्रसिद्धाः वेदाः ऋग्य- श्रद्धा—पुत्रि, उस तरहकी दुरवस्थाम पडकर भी दुष्ट महामोहने स्वामीको फुसलानेके लिये मधुमती विद्याके साथ उपसर्गोंको भेजा। इसका यह आशय था कि यदि इनपर स्वामी आसक्त हो जायेंगे तो उपनिषदकी चिन्ता भी नहीं करेंगे। शान्ति—इसके बाद ? श्रद्धा—इसके बाद वह सभी आकर स्वामीके सामने इन्द्रजाल विद्या दिखायीं। यह सौ योजन दूरका शब्द सुन लेता है, इसको स्वतः वेद, पुराण तथा भारतकी कथायें